स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २६

।। स्कन्द उवाच ।।
एकान्तधर्मविवृतिं श्रुत्वा भगवतोदिताम् ।।
प्रहृष्टमानसो भूयस्तं पप्रच्छ स नारदः ।। १ ।।
नारद उवाच ।।
धर्म एकान्तिकः स्वामिंस्त्वया सम्यगुदीरितः ।।
तमाश्रुत्य महान्हर्षो जातोस्ति मम मानसे ।। २ ।।
सिद्धये तस्य भवता क्रियायोगो य उच्यते ।।
तमहं बोद्धुमिच्छामि भगवंस्तव संमतम् ।। ३ ।।
।। श्रीनारायण उवाच ।।
पूजाविधिः क्रियायोगो वासुदेवस्य कीर्त्त्यते ।।
स तु वेदेषु तन्त्रेषु बहुधैवास्ति वर्णितः ।। ४ ।।
भक्तानां रुचिवैचित्र्यात्तथा बहुविधत्वतः ।।
वासुदेवस्य मूर्तीनां बहुधा सोऽस्ति विस्तृतः ।। ५ ।।
साकल्येनोच्यमानस्य पारो नायाति तस्य वै ।।
अतः संक्षेपतस्तुभ्यं वच्मि भक्तिविवर्द्धनम् ।। ६ ।।
प्राप्ता ये वैष्णवीं दीक्षां वर्णाश्चत्वार आश्रमाः ।।
चातुर्वर्ण्यस्त्रियश्चैते प्रोक्ता अत्राधिकारिणः ।। ७ ।।
वेदतन्त्रपुराणोक्तैर्मन्त्रैर्मूलेन च द्विजाः ।।
पूजेयुर्दीक्षिता योषाः सच्छूद्रा मूलमन्त्रतः ।।
मूलमन्त्रस्तु विज्ञेयः श्रीकृष्णस्य षडक्षरः ।।८।।
स्वस्वधर्मं पालयद्भिः सर्वेरेतैर्यथाविधि ।।
पूजनीयो वासुदेवो भक्त्या निष्कपटान्तरैः ।। ९ ।।
आदौ तु वैष्णवीं दीक्षां गृह्णीयात्सद्वरोः पुमान् ।।
सदैकान्तिकधर्मस्थाद्ब्रह्मजातेर्दयानिधेः ।। 2.9.26.१० ।।
संपन्नो ज्ञानभक्तिभ्यां स्वधर्मरहितस्तु यः ।।
स गुरुन्नैव कर्तव्यः स्त्रीहृतात्मा च कर्हिचित् ।। ११ ।।
प्राप्ता स्त्रैणाद्गुरोर्दीक्षा ज्ञानं भक्तिं च कर्हिचित् ।।
फलेन्नैव यथाऽपत्यं युवतिः षण्ढसंगिनी ।। १२ ।।
प्राप्यातः सद्गुरोर्दीक्षां तुलसीमालिकां गले ।।
ललाटादौ चोर्द्ध्वपुण्ड्रं गोपीचन्दनतो धरेत् ।।१३।।
विष्णुपूजारुचिर्भक्तो गुरोरेवागमोदितम् ।।
पूजाविधिं सुविज्ञाय ततः पूजनमारभेत् ।।१४।।
रात्र्यन्तयाम उत्थाय भक्तो ब्राह्मेक्षणेऽथ वा ।।
मुहूर्तार्धं हृदि ध्यायेत्केशवं क्लेशनाशनम् ।।१५।।
कीर्त्तयित्वाऽभिधास्तस्य तदीयानां च नाडिकाम्।।
ततः शौचविधिं कृत्वा दन्तधावनमाचरेत् ।।१६।।
अंगशुद्धिस्नानमादौ कृत्वा स्नायात्समन्त्रकम्।।
गृहीत्वा शुचिमृत्स्नादीन्कुर्यात्स्नानांगतर्पणम्।।१७।।
परिधायांशुके धौते उपविश्यासने शुचौ ।।
कृत्वोर्द्ध्वपुण्ड्रं कुर्वीत संध्यां होमं जपादि च ।। १८ ।।
वस्त्रचन्दनपुष्पादीनुपहारांस्ततोऽखिलान् ।।
आहरेन्मांसमदिराद्यशुचिस्पर्श वर्जितान्।।१९।।
देवेभ्यो वा पितृभ्यश्चाप्यन्येभ्यो न निवेदितान् ।।
अनाघ्रातांश्च मनुजैः केशकीटादिवर्जितान्।।2.9.26.२०।।
संस्थाप्य तान्दक्षपार्श्वे पूजोपकरणानि च ।।
उद्वर्त्य दीपमाज्येन कुर्यात्तैलेन वा ततः ।।२१ ।।
कौशे वौर्णे च वस्त्रादौ विकाष्ठे शुद्ध आसने ।।
उपाविशेद्वासुदेवप्रतिमासन्निधौ ततः ।। २२ ।।
शैली धातुमयी दार्वी लेख्या मणिमयी च वा ।।
प्रतिमा स्यात्सिता रक्ता पीता कृष्णाऽथ वा मुने ।। २३ ।।
कृष्णस्य सा तु कर्तव्या द्विभुजा वा चतुर्भुजा ।।
मुरलीं धारयेत्तत्र द्विभुजायाः करद्वये ।। २४ ।।
अथ वा दक्षहस्तेऽस्याश्चक्रं शंखं तथेतरे ।।
पद्मं वा धारयेद्दक्षे पाणावभयमुत्तरे ।। २५ ।।
द्वितीयायास्तु हस्तेषु दक्षिणाधःकरक्रमात् ।।
गदाब्जदरचक्राणि धारयेन्मुनिसत्तम ।। २६ ।।
द्विविधाया अपि हरेर्मूर्तेर्वामे श्रियं न्यसेत् ।।
मुरलीधरवामे तु राधां रासेश्वरीं न्यसेत् ।। २७ ।।
अप्येषा द्विविधा मूर्त्तिरखण्डा शुभलक्षणा ।।
सर्वावयवसंपन्ना भवेदर्च्चकसिद्धिदा ।। २८ ।।
लक्ष्मीस्तु द्विभुजा कार्या वासुदेवस्य सन्निधौ ।।
दधती पंकजं हस्ते वस्त्रालंकारशोभना ।। २९ ।।
लक्ष्मीवद्राधिकापि स्याद्द्विभुजा चारुहासिनी ।।
पङ्कजं पुष्पमालां वा दधती पाणिपङ्कजे ।। 2.9.26.३० ।।
अचला च चला चेति द्विविधा प्रतिमा हरेः ।।
तत्राद्यायां न कर्तव्यमावाहनविसर्जनम्।।३१।।
तदङ्गदेवतानां च कार्यं नावाहनाद्यपि ।।
न च दिङ्नियमोऽर्चायां तस्याः स्थेयं तु सम्मुखे ।।३२।।
शालग्रामेप्येवमेव कार्यं नावाहनादि च ।।
अन्यत्र चलमूलौ तु कर्तव्यं तत्तदर्चकैः ।। ३३ ।।
तत्रापि दार्व्या लेख्यायां जलस्पर्शोनुलेपनम् ।।
नैव कार्यं पूजकेन कर्तव्यं परिमार्जनम् ।। ३४ ।।
उदङ्मुखः प्राङ्मुखो वा चलायां सम्मुखोऽथ वा ।।
यथाशक्ति यथालब्धैरुपहारैर्यजेद्धरिम् ।। ।। ३५ ।।
श्रद्धानिश्छद्मभक्तिभ्यामर्पितेनाम्बुनापि सः ।।
प्रीतस्तुष्यति विश्वात्मा किमुताऽखिलपूजया ।। ३६ ।।
पुंसा श्रद्धादिहीनेन रत्नहेमाद्यलंक्रियाः ।।
चतुर्विधं चाप्यन्नाद्यं दत्तं गृह्णाति नो मुदा ।। ३७ ।।
तस्माद्भक्तिमता कार्यं पुंसा स्वश्रेयसे मुने ।।
श्रीकृष्णस्यार्च्चनं नित्यं सर्वाभीष्टाशुदायिनः ।। ३८ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये क्रियायोगाधिकारादिनिरूपणं नाम षड्विंशोऽध्यायः ।। २६ ।।