स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ०४
।। नारद उवाच ।। ।।
तैलाभ्यङ्गं दिवास्वापं तथा वै कांस्य भोजनम् ।।
खट्वा निद्रां गृहे स्नानं निषिद्धस्य च भक्षणम् ।। १ ।।
वैशाखे वर्जयेदष्टौ द्विभुऽक्तं नक्तभोजनम्।।
पद्मपत्रे तु यो भुंक्ते वैशाखे ब्रतसंस्थितः ।। २ ।।
स तु पापविनिर्मुक्तो विष्णुलोकं च गच्छति ।।
वैशाखे मासि मध्याह्ने श्रौतानां तु द्विजन्मनाम् ।।
पादावनेजनं कुर्यात्तद्व्रतं सुव्रतोत्तमम् ।। ३ ।।
अध्वश्रान्तं द्विजं यस्तु मध्याह्ने स्वगृहागतम् ।।
उपवेश्यासने रम्ये कृत्वा पादावनेजनम् ।। ५ ।।
धृत्वा शिरसि ताश्चापो विध्वस्ताखिलबंधनः ।।
गंगादिसर्वतीर्थेषु स्नातो भवति निश्चितम्।। ६।।
अस्नायी वाऽप्यपत्राशी वैशाखं तु नयेद्यदि ।।
रासभी योनिमासाद्य पश्चादश्वतरो भवेत् ।। ७ ।।
दृढाङ्गो रोगहीनश्च तथा स्वस्थोऽपि मानवः ।।
वैशाखे तु गृहे स्नात्वा चांडालीं योनिमाप्नुयात् ।। ८ ।।
वैशाखे मासि राजेन्द्र मेषसंस्थे दिवाकरे ।।
न करोति बहिःस्नानं श्वानयोनिशतं व्रजेत् ।। ९ ।।
अस्नात्वा चाप्यदत्त्वा च वैशाखो येन नीयते ।।
स पिशाचो भवेन्नूनमवैशाखादथो व्रजेत् ।। 2.7.4.१० ।।
यो न दद्याज्जलं चान्नं वैशाखे लोभमानसः ।।
पापहानिं दुःखहानिं नैवाप्नोति न संशयः ।। ११ ।।
नदीस्नानं तु यः कुर्याद्वैशाखे विष्णुतत्परः ।।
जन्मत्रयार्जितात्पापान्मुच्यते नात्र संशयः ।। १२ ।।
समुद्रगनदीस्नानं कुर्यात्प्रातर्भगोदये ।।
सप्तजन्मार्जितैः पापैस्तत्क्षणादेव मुच्यते ।। १३ ।।
कुर्यादुषसि यः स्नानं सप्तगङ्गासु मानवः ।।
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।। १४ ।।
जाह्नवी वृद्धगङ्गा च कालिंदी च सरस्वती ।।
कावेरी नर्मदा वेणी सप्तगंगाः प्रकीर्तिताः ।। १५ ।।
देवखातेषु यः कुर्यात्प्रातर्वैशाखमज्जनम् ।।
जन्मारभ्य कृतात्पापान्मुच्यते नात्र संशयः ।। १६ ।।
वैशाखे मासि संप्राप्ते यो वापीष्ववगाहनम् ।।
प्रातः कुर्यान्महाराज महापातकनाशनम् ।। १७ ।।
अपि गोष्पदमात्रेषु बहिःस्थेषु जलेषु च ।।
तिष्ठंति सरितः सर्वा गंगाद्या इति निश्चयः ।।
इति जानन्समाप्नोति सर्वतीर्थाधिकं फलम् ।। १८ ।।
क्षीरं रसाधिकं क्षीरादधिकं दधि भूमिप ।।
दध्नोऽधिकं घृतं यद्वदूर्जो मासोऽधिकस्तथा ।। १९ ।।
कार्तिकादधिको माघो माघाद्वैशाख उत्तमः ।।
तस्मिन्मासे कृतो धर्मो वर्द्धते वटबीजवत् ।। 2.7.4.२० ।।
आढ्यो वाऽतिदरिद्रो वा परतंत्रोऽथ वा नरः ।।
यद्वस्तु लभते तेन तद्दातव्यं द्विजातये ।। २१ ।।
कन्दमूलफलं शाकं लवणं गुडमेव च ।।
कोलं पत्रं जलं तक्रमानंत्यायोपकल्पते ।। ।। २२ ।।
नादत्तं लभते क्वापि ब्रह्माद्यैस्त्रिदशैरपि ।। २३ ।।
दानेन हीनो हि भवेदकिंचनो निष्किञ्चनत्वाच्च करोति पापम् ।।
पापादवश्यं नरकं प्रयाति दातव्यमस्मात्सुखमिच्छता तदा ।। २४ ।।
यथा गृहं सर्वगुणोपपन्नं परिच्छदैर्हीनमशोभनं तथा ।।
मासेषु धर्मः सकलेष्वनुष्ठितो वैशाखहीनस्तु वृथैव याति ।। २५ ।।
यथैव कन्या सकलैश्च लक्षणैर्युक्ताऽपि जीवत्पतिलक्षणा न हि ।।
क्रियाऽपि सांगा सकलाऽपि राजन्वैशाखहीना तु वृथैव तां विदुः ।। २६ ।।
दयाविहीनास्तु यथा गुणा वृथा वैशाखधर्मेण विना तथा क्रियाः ।।
शाकं तु यद्वल्लवणेन हीनं न रोचते सर्वगुणोपपन्नम् ।। २७ ।।
वैशाखहीनं तु तथैव पुण्यं न साधुसेव्यं न फलाप्तिहेतुः ।।
यद्वन्न भूषासहिताऽपि शोभते वस्त्रेण हीना ललना सुरूपा ।।
क्रियाकलापः सुकृतोऽपि पुंभिर्न भासते तन्मधुमासहीनम् ।। २८ ।।
तस्मात्सर्वप्रयत्नेन येन केनाऽपि जन्तुना ।।
धर्मो वैशाखमासे तु कर्तव्य इति निश्चयः ।। २९ ।।
मधुसूदनमुद्दिश्य मेषसंस्थे दिवाकरे ।।
प्रातः स्नात्वाऽर्चयद्विष्णुमन्यथा नरकं व्रजेत् ।। 2.7.4.३० ।।
कश्चिन्महीरथो राजा कामासक्तो जितेन्द्रियः ।।
वैशाखस्नानयोगेन वैकुण्ठं गतवान्स्वयम् ।। ३१ ।।
वैशाखः सफलो मासो मधुसूदनदैवतः ।।
तीर्थयात्रातपोयज्ञदानहोमफलाधिकः ।। ३२ ।।
।। ।। प्रार्थनामंत्रः ।। ।।
मधुसूदन देवेश वैशाखे मेषगे रवौ ।।
प्रातः स्नानं करिष्यामि निर्विघ्नं कुरु माधव ।।३३।।
।। अर्घ्यमंत्राः ।। ।।
वैशाखे मेषगे भानौ प्रातःस्नानपरायणः ।।
अर्घ्यं तेऽहं प्रदास्यामि गृहाण मधुसूदन ।। ३४ ।।
गंगाद्याः सरितः सर्वास्तीर्थानि च ह्रदाश्च ये ।।
प्रगृह्णीत मया दत्तमर्घ्यं सम्यक्प्रसीदथ ।। ३५ ।।
ऋषभः पापिनां शास्ता त्वं यमः समदर्शनः ।।
गृहाणार्घ्यं मया दत्तं यथोक्तफलदो भव ।। ३६ ।।
इति चार्घ्यं समर्प्याथ पश्चात्स्नानं समाचरेत् ।।
वाससी परिधायाथ कृत्वा कर्माणि सर्वशः ।। ३७ ।।
मधुसूदनमभ्यर्च्य प्रसूनैर्माधवोद्भवैः ।।
श्रुत्वा विष्णुकथां दिव्यामेतन्मासप्रशंसिनीम् ।। ३८ ।।
कोटिजन्मार्जितात्पापान्मुक्तो मोक्षमवाप्नुयात् ।। ३९ ।।
न जातु खिद्यते भूमौ न स्वर्गे न रसातले ।।
न गर्भे जायते क्वापि न भूयः स्तनपो भवेत् ।। 2.7.4.४० ।।
वैशाखे कांस्यभोजी यस्तथा चाश्रुतसत्कथः ।।
न स्नातो नापि दाता च नरकानेव गच्छति ।। ४१ ।।
ब्रह्महत्यासहस्रस्य पापं शाम्येत्कथंचन ।।
वैशाखे येन न स्नातं तत्पापं नैव गच्छति ।। ४२ ।।
स्वाधीनेन स्वकायेन जले स्वातंत्र्य वर्तिनि ।।
स्वाधीनजिह्वयोच्चार्यं हरिरित्यक्षरद्वयम् ।। ४३ ।।
न कुर्याद्यदि वैशाखे प्रातःस्नानं नराधमः ।।
जीवन्नेव स पंचत्वमागतो नात्र संशयः ।। ४४ ।।
येन केनाप्युपायेन माधवे मधुसूदनम्।।
नार्चयेद्यदि मूढात्मा शौकरीं योनिमाप्नुयात् ।। ४५ ।।
योऽर्चयेत्तुलसीपत्रैर्वैशाखे मधुसूदनम् ।।
नृपो भूत्वा सार्वभौमः कोटिजन्मसु भोगवान् ।।
पश्चात्कोटिकुलैर्युक्तो विष्णोः सायुज्यमाप्नुयात्।। ।। ४६ ।।
विविधैर्भक्तिमार्गैश्च विष्णुं सेवेत यौ व्रतैः ।।
सगुणं निर्गुणं वाऽपि नित्यं ध्यायेदनन्यधीः ।। ४७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखधर्मप्रशंसा नाम चतुर्थोऽध्यायः ।। ४ ।।