स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ०९

।। ।। मैथिल उवाच ।। ।।
तस्य दग्धस्य कामस्य कस्माज्जन्माऽभवद्विभो ।।
किं दुःखमभवत्तस्मिन्कर्मणः सह लंघनात् ।। १ ।।
एतदाचक्ष्व मे ब्रह्मञ्च्छ्रोतु कौतूहलं हि मे ।।
।। श्रुतदेव उवाच ।। ।।
कुमारजन्म वक्ष्यामि श्रवणात्पापनाशनम् ।। २ ।।
यशस्यं पुत्रदं धर्म्यं सर्वरोगविनाशनम् ।।
शंभुना तु हते कामे तत्पत्नी रतिसंज्ञिका ।।३।।
मुमोह पुरतो दृष्ट्वा पतिं भस्मावशेषितम्।।
जातसंज्ञा मुहूर्तेन विललाप च चित्रधा ।। ४ ।।
यद्विलापाद्वनं चापि समदुःखमभूत्तदा ।।
तच्चिताग्नौ स्वकायं तु त्यक्तुकामा च माधवम्।। ५ ।।
पत्युः सखायं सस्मार कर्तुं तात्कालिकीं क्रियाम् ।।
स आगतश्चितिं कर्त्तुं वीरपत्न्या महाप्रभुः ।। ६ ।।
स तु त्रस्तः सखीं दृष्ट्वा क्षणं मूर्च्छापरोऽभवत् ।।
रतिं तु सान्त्वयामास सान्त्वैर्बहुविधैरपि ।। ७ ।।
पुत्रतुल्योऽस्मि ते भद्रे स्थिते मयि च नाऽर्हसि ।।
कायं त्यक्तुं धर्महेतुमित्याद्यैर्बहुधाऽपि सा ।। ८ ।।
नैव स्थातुं मनश्चक्रे तेन संस्तभिता रतिः ।।
दृष्ट्वा दार्ढ्यं वसन्तोऽपि चितिं चक्रे सरित्तटे ।। ९ ।।
साऽवगाह्य द्युनद्यां च कृत्वा कार्याणि सर्वशः ।।
सन्नियम्येन्द्रियग्रामं निवेश्यात्मनि वै मनः ।। 2.7.9.१० ।।
चितिमारोढुमारेभे ततो जाताऽशरीरवाक् ।।
मा प्रवेशय कल्याणि वह्निं पतिपरायणा ।। ।। ११ ।।
भविष्यति च ते पत्युर्हराद्विष्णोश्च यादवात् ।।
जन्मद्वयं क्रमेणैव तत्र चोत्तरजन्मनि ।। १२ ।।
भैष्म्यां कृष्णान्महाविष्णोः प्रद्युम्नाख्यो भविष्यति ।।
वसिष्यसि त्वं च शापाद्ब्रह्मणः शंबरालये ।। १३ ।।
प्रद्युम्नाख्येन ते पत्या संगतिश्च भविष्यति ।।
इत्युक्त्वा विररामाऽथ वाणी चाऽऽकाशगोचरा ।। १४ ।।
श्रुत्वा तां तु निवृत्ताऽभून्मरणे कृतनिश्चया ।।
ततो देवाः समाजग्मुः स्वार्थे कामे हते हरात्।। १५ ।।
रत्या कृतं प्रपश्यन्तो गुर्विन्द्राग्निपुरोगमाः ।।
तां ते निवर्तयामासुर्वरेण महता सतीम् ।। १६ ।।
अनंगोऽपि भवेत्साऽङ्गो मृत एवाऽक्षिगो भवेत् ।।
इति तां तु विनिर्वर्त्य धर्मं चोपदिदेशिरे ।। १७ ।।
पूर्वकल्पे त्वयं राजा सुंदराख्यो महाप्रभुः ।।
त्वमेव पत्नी तत्राऽपि रजःसंकरकारिणी ।। १८ ।।
तेनेयञ्च दशाभूत्ते कुर्विदानीं च निष्कृतीम् ।।
मंदाकिन्यां तु वैशाखे प्रातःस्नानं तदा कुरु ।। १९ ।।
मधुसूदनमभ्यर्च्य कथां दिव्यां तथा शृणु ।।
अशून्यशयनं नाम व्रतमारभ भामिनि ।। 2.7.9.२० ।।
धर्मेणाऽनेन ते भद्रे व्रतेनाऽपि च माधवे ।।
नूनं त भविता पत्युरुपलब्धिर्न संशयः ।। २१ ।।
इति तस्यै वरं दत्त्वा देवा जग्मुर्यथाऽऽगताः ।।
तथा कृच्छ्रान्निवृत्ता सा देवी कामसती तथा ।। २२ ।।
गंगाऽवगाहनं चक्रे मेषसंस्थे दिवाकरे ।।
अशून्यशयनं नाम व्रतं चाऽपि महामनाः ।। २३ ।।
तेन पुण्यप्रभावेन सद्यः कामोऽक्षिगोचरः ।।
अभूत्तस्यै महाराज लोके चावार्य वीर्यवान् ।। २४ ।।
पूर्वकल्पेऽप्ययमपि राजा धर्मपरायणः ।।
वैशाखोक्तान्महाधर्मान्नाकरोत्तेन वै स्मरः।।२५।।
देहहानिं प्रपेदेऽसौ पुत्रोऽपि परमात्मनः ।।
वृथा नीते तु वैशाखे मेषसंस्थे दिवाकरे ।। २६ ।।
अवस्थेयं च देवानां मनुष्याणां तु का कथा ।।
त्र्यंबकेंऽतर्हिते पश्चान्निराशा गिरिकन्यका ।। २७ ।।
तूष्णीं स्थितां तदा भ्रांतां तां दृष्ट्वा हिमवान्गिरिः ।।
चकितः स्वगृहं निन्ये दोर्भ्यां तां परिरभ्य च ।। २८ ।।
रूपौदार्यगुणान्दृष्ट्वा हरस्यैव महात्मनः ।।
स एव मे पतिर्भूयादिति तन्निष्ठमानसा ।। २९ ।।
गंगोपकूलमापेदे तपस्तप्तुं धृतव्रता ।।
निवारिताऽपि सा देवी पित्रा मात्रा स्वकैर्जनैः ।। 2.7.9.३० ।।
अर्चयन्ती महालिंगं निराहारा जटाधरा ।।
दिव्यवर्षसहस्रान्ते प्रत्यक्षोऽभून्महेश्वरः ।। ३१ ।।
भूत्वा वर्ण्यपि सायाह्ने पर्णशालामुखे विभुः ।।
स्वनिष्ठमनसो दार्ढ्यं वाक्यैर्नानाविधैरपि ।। ३२ ।।
ज्ञात्वा वरादरं भद्रे वरयेति महाप्रभुः ।।
सा वव्रेऽथ पतिं रुद्रं त्वं भवेति वरानना ।।३३।।
स तथैव वरं दत्त्वा ऋषीन्सस्मार सप्त च ।।
आजग्मुस्तेऽपि मुनयः स्थिताः प्राञ्जलयः पुरः ।।३४।।
ऋषीणां ज्ञापयामास कन्यां प्रष्टुं हिमालयम् ।।
तथाऽऽदिष्टा भगवता कन्यार्थं हिमवद्गृहम् ।।३५।।
प्रापुर्विहायसा सर्वे द्योतयन्तो दिशो दश ।।
प्रत्युज्जगाम स गिरिः सप्तैतान्ब्रह्मवित्तमान् ।। ३६ ।।
संपूज्य विधिवत्सर्वान्सुखासीनानपृच्छत ।।
धन्योऽस्मि कृतकृत्योऽस्मि यद्भवतो गृहाऽऽगताः ।। ३७ ।।
भवदागमनं मन्ये मम जन्मफलं त्विति ।।
न कृत्यं विद्यतेऽस्माभिः पूर्णार्थानां महात्मनाम् ।। ३८ ।।
तथाऽपि ब्रूत कार्यं वो यत्कर्तव्यं मयाऽधुना ।।
इत्युक्तास्ते तथा प्रोचुर्हिमवंतं महागिरिम् ।। ३९ ।।
त्वया स्वसदृशं वाक्यमुक्तं गिरिपते दृढम् ।।
अस्मदागमने हेतुं वक्ष्यामस्ते महोदये ।। 2.7.9.४० ।।
कन्या ते पार्वती नाम पूर्वं दक्षात्मजा सती ।।
जाता तव कुमारी या यज्ञे त्यक्तकलेवरा ।। ४१ ।।
अस्याः पाणिग्रहे दक्षः शंभुर्नाऽन्यो जगत्त्रये ।।
देया सा शंभवे देवी भवताऽऽनंत्यमिच्छता ।। ४२ ।।
पूर्वजन्मसहस्रेषु भवता सुकृतं कृतम् ।।
इदानीं तव दिष्ट्या तु परिपाकमुपागतम् ।। ४३ ।।
तेषां तद्वचनं श्रुत्वा संहृष्टाऽऽत्मा महागिरिः ।।
व्याजहार पुनर्वाक्यं पुत्री वल्कलधारिणी ।। ४४ ।।
गंगातीरे निराहारा तपस्तपति दुश्चरम्।।
काङ्क्षमाणा पतिं शंभुं तस्या इष्टमिदं त्विति।।४५।।
दत्ता कन्या मया तस्मै त्र्यंबकाय महात्मने ।।
शीघ्रं गत्वा भवंतस्तु यत्र शम्भुर्महाप्रभुः ।। ४६ ।।
प्रीत्या हिमवता दत्तां गृहाणेति निवेद्य च ।।
भवंत एव कुर्वंतु चैतद्वैवाहिकीं क्रियाम् ।। ४७ ।।
इत्युक्तास्ते हिमवता तमामंत्र्य शिवं ययुः ।।
लक्ष्म्याद्या योषितः सर्वा विष्ण्वाद्या देवता अपि ।। ४८ ।।
षण्मातरोऽथ मुनयो द्रष्टुं जग्मुर्महोत्सवम् ।।
शिवः सर्वामरगणैर्मुनिभिर्मातृभिस्तथा ।। ४९ ।।
अन्वितो वृषभारूढः प्रमथानां गणैर्वृतः ।।
भेरीशंखमृदंगाद्यैः काहलीपटहादिकैः ।। ।। 2.7.9.५० ।।
ब्रह्मघोषैर्बंदिभिश्च प्राविशद्धिमवत्पुरीम् ।।
सुमुहूर्ते शुभे लग्ने शुभग्रहनिरीक्षिते ।। ५१ ।।
विवाहमकरोच्छैलः प्रहृष्टेनांतरात्मना ।।
महोत्सवस्तदा चाऽऽसीत्त्रिलोक्यां प्राणिनां नृप ।। ५२ ।।
महोत्सवे निवृत्ते तु शंकरो लोकशंकरः ।।
रेमे स्वच्छंदया देव्या लोकधर्माननुव्रतः।। ।। ५३ ।।
ऋद्धिमद्धिमवद्गेहे देवेंद्रभवनोपमे ।।
शर्वर्यां नंदिनीतीरे वनराजिषु शंकरः ।। ५४ ।।
मत्तालिद्विजसन्नादमयूररवमंडिते ।।
दिव्यवर्षसहस्राणि रेमे स्वच्छंदया विभुः ।। ५५ ।।
स्त्रीणामिंद्रवराभावात्तस्मिन्काले नृपोत्तम ।।
पुंसः संगात्पुनर्गर्भो नारीणां स्रवति धुवम् ।। ५६ ।।
प्रत्यहं रमणाद्देव्यां नाभूद्गर्भो हराद्बत ।।
देवानामभवच्चिन्ता पुत्रालाभाद्वराद्विभो ।। ५७ ।।
सर्वे संगत्य संमंत्र्य मिथ एवं बभाषिरे ।।
कामीवाऽभूद्रतौ नित्यं सक्तो देव्या हरः स्वराट् ।। ५८ ।।
नाऽस्माकं सिद्ध्यते कार्यं नित्यं गर्भस्य संस्रवात् ।।
पुना रतिर्यथा नाऽभूत्तथाऽस्माभिर्विधीयताम् ।। ५९ ।।
मिथ एवं तु संभाष्य व्यचिन्वन्क्षणमत्र ते ।।
अग्निं कृत्ये विनिश्चित्य ह्यूचुर्मानपुरःसरम् ।। 2.7.9.६० ।।
अग्ने मुखं त्वं देवानां त्वं बन्धुर्गतिरेव च ।।
इदानीमपि गच्छ त्वं रमते यत्र वै हरः ।। ६१ ।।
रत्यन्ते दर्शयाऽऽत्मानं पुना रतिर्यथा न वै ।।
त्वां दृष्ट्वा व्रीडिता देवी ततश्चापसरेद्ध्रुवम् ।। ६२ ।।
शिष्यो भूत्वा तु रत्यन्ते पृच्छ तत्त्वं स्मरान्तकम् ।।
तत्त्वसम्प्रश्नव्याजेन कालं बहु नय प्रभो ।। ६३ ।।
बहुकाले गते देवी कुमारं प्रसविष्यति ।।
देवैरेवं प्रार्थितोऽग्निरोमित्युक्त्वा हरं ययौ ।। ६४ ।।
वीर्योत्सर्गात्पूर्वमेव गतो वह्नी रतांतरे ।।
तं दृष्ट्वा व्रीडिता देवी विवस्त्रा विमना ययौ ।। ६५ ।।
रति विहाय त्वरया ततो रुद्रोऽतिकोपितः ।।
वह्निं प्राह गृहाणेदमभिसृष्टं तु दुर्मते ।। ६६ ।।
मद्वीर्यं दुःसहं पाप रतौ विघ्नस्त्वयाऽभवत् ।।
उत्सृजामि च मद्वीर्यं त्वन्मुखे हव्यवाहन ।। ६७ ।।
इत्युक्त्वोत्सृष्टवान्वीर्यं हव्यवाहमुखे हरः ।।
तद्धृत्वा दह्यमानः सन्स्वोदरे वीर्यमुल्बणम् ।। ६८ ।।
चिंतयानो ययौ धाम देवानां यज्ञपूरुषः ।।
कथंचित्प्राणतो मुक्तो देवेभ्यस्तन्न्यवेदयत् ।। ६९ ।।
देवा वह्नीरितं श्रुत्वा हर्षशोकौ समाययुः ।।
स्थितं वीर्यमिति ह्रादं कथं तु प्रसवो भवेत् ।। 2.7.9.७० ।।
इति दुःखं तदा चाऽऽसीद्वह्नेः कुक्षौ तु शांभवम् ।।
ववृधे तेज आक्षिप्तं दश मासा गतास्तदा ।। ७१ ।।
नाऽपश्यत्प्रसवोपायं बहुदुःखपरायणः ।।
देवान्वै शरणं प्राप गर्भमोचनहेतवे ।। ७२ ।।
ते देवा वह्निना साकं प्रापुर्गंगां यशस्विनीम् ।।
गंगा स्तोत्रेण ते स्तुत्या प्रार्थयामासुरंजसा ।। ७३ ।।
त्वं माता सर्वदेवानां त्वमेव जगतां पतिः ।।
देवतार्थं तु त्वं भद्रे धत्स्व तेजस्तु शांभवम् ।।७४।।
तद्वह्नेर्वर्द्धते गर्भो नास्त्रीत्वात्प्रसवोऽस्य च ।।
तस्मादेनं च नः सर्वान्समुद्धर दयां कुरु ।।७५ ।।
इत्येवं प्रार्थिता देवी तथास्त्विति वचोऽब्रवीत् ।।
देवास्तु वह्नये प्राहुर्मंत्रं गर्भविमोचनम् ।। ७६ ।।
तन्मंत्राद्गर्भमाकृष्य व्यसृजद्धव्यवाहनः ।।
गंगायां शांभवं तेजो भास्वल्लोकसुदुःसहम् ।। ७७ ।।
सा चोढ्वा कतिचिन्मासान्न शशाक ततः परम् ।।
निर्जला तत्प्रभावेण स्फुटद्रक्तकलेवरा ।। ७८ ।।
बहुदुःखाऽऽकुला देवी पातिव्रत्यप्रभावतः ।।
उज्जहार स्वोदरस्थं गर्भं लोकैकपावनी ।। ७९ ।।
शरकांडे तु चिक्षेप दह्यमानं समन्ततः ।।
शरकांडैस्तु संभिन्नः षोढा भिन्नो बभूव ह ।। 2.7.9.८० ।।
षट्कृऽत्तिकाः समाजग्मुर्ब्रह्मणा चोदितास्तदा ।।
शरकांडे विनिर्भिन्नं षोढा संधाय शांभवम् ।। ६१ ।।
षण्मुखं पुरुषं कृत्वा त्वेकदेहमिति स्फुटम् ।।
कृत्तिका विधिनाऽऽज्ञप्तास्तं तथा चक्रिरे दृढम् ।। ८२ ।।
तद्देहं पुरुषाकारं षण्मुखं शरकांडगम् ।।
अरक्ष्यमाणमेवासीच्छरकांडेषु वै चिरम् ।। ८३ ।।
एकदा वृषभाऽरूढौ पार्वतीपरमेश्वरौ ।।
श्रीशैलं गंतुमनसौ तत्स्थलं परिजग्मतुः ।। ८४ ।।
तदासीत्पार्वती देवी सद्यः स्नुतपयोधरा ।।
विस्मिता चावदद्रुद्रं स्नुतौ कस्मात्पयोधरौ ।। ८५ ।।
कारणं ब्रूहि विश्वात्मन्नित्युक्तस्तु हरोऽब्रवीत् ।।
शृणु देवि प्रवक्ष्यामि पुत्रोऽधो वर्तते तव ।। ८६ ।।
त्वयि वीर्यमनुत्सृष्टं प्रागेवाऽऽगाद्धविर्वहः ।।
तं दृष्ट्वा व्रीडिता त्वं वै प्रविष्टा च स्थलान्तरम् ।। ८७ ।।
मया कोपाद्वह्नि मुखे विसृष्टं वीर्यमुल्बणम् ।।
देवानां च प्रसादेन गंगायां व्यसृजद्विभुः ।। ८८ ।।
गंगा च दह्यमाना सा व्यक्षिपञ्च शरान्तरं ।।
तत्र षोढा प्रभिन्नं तु मातृभिश्च दृढीकृतम् ।। ८९ ।।
पुरुषाकृतिमापेदे तं दृष्ट्वा ते स्तनौ सुतौ ।।
पालनीयं महावीर्यं विष्णुना समविक्रमम् ।। 2.7.9.९० ।।
अयमे वौरसः पुत्रस्तव भाति विनिश्चितम् ।।
तस्माद्गृहाण शीघ्रं त्वं तेनाऽऽख्यातिरतीव ते ।। ९१ ।।
इत्याऽऽज्ञप्ता शंभुना सा तमादायाऽर्भकं द्रुतम् ।।
अंकमारोप्य तं देवी पाययामास सा स्तनौ ।। ९२ ।।
देवेन मोहिता देवी पुत्रस्नेहपराऽभवत् ।।
पुनः कैलासमगमत्प्रभुणा सह शांकरी ।। ९३ ।।
लालयंती सुतं देवी संतोषं परमं ययौ ।।
एवं कुमारजननं वर्णितं ते मयाऽद्भुतम् ।। ९४ ।।
य इदं शृणुयान्नित्यं कुमारजननं शुभम् ।।
पुत्रपौत्राभिवृद्धिं तु लभते नाऽत्र संशयः ।। ९५ ।।
महद्दुःखं तु जनने हरस्याऽपि यतोऽभवत् ।।
प्रीत्यानुश्रुतवैशाखधर्मोऽप्यप्रतिमो भवेत् ।। ९६ ।।
तस्माद्वैशाखधर्मो हि सर्वाघौघविनाशनः ।।
अवैधव्यप्रदः पुण्यः सर्वसंपद्विधायकः ।।९७।।
अनंगोपि हि सांगत्वं यत्प्रभावात्समाप्तवान् ।।
अस्नात्वा चाप्यदत्त्वा च वैशाखो यस्य वै गतः ।।९८।।
अपि धर्मकृतो वाऽपि भवेद्दुःखपरंपरा ।।
सर्वधर्मो हितः स्याच्च यद्येकोऽयमनुष्ठितः ।। ९९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदांबरीषसंवादे कुमारोत्पत्तिकथनंनाम नवमोऽध्यायः ।। ९ ।।