स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः २५

।। श्रुतदेव उवाच ।। ।।
यास्तिस्रस्तिथयः पुण्या अंतिमाः शुक्लपक्षके ।।
वैशाखमासि राजेंद्र पूर्णिमांताः शुभावहाः ।। १ ।।
अन्त्याः पुष्करिणीसंज्ञाः सर्वपापक्षयावहाः ।।
माधवे मासि यः पूर्णं स्नानं कर्त्तुं न च क्षमः ।। २ ।।
तिथिष्वेतासु स स्नायात्पूर्ण मेव फलं लभेत् ।।
सर्वे देवास्त्रयोदश्यां स्थित्वा जंतून्पुनंति हि ।। ३ ।।
पूर्णायाः पर्वतीर्थैश्च विष्णुना सह संस्थिताः ।।
चतुर्दश्यां सयज्ञाश्च देवा एतान्पुनंति हि ।। ४ ।।
ब्रह्मघ्नं वा सुरापं वा सर्वानेतान्पुनंति हि ।।
एकादश्यां पुरा जज्ञे वैशाख्याममृतं शुभम् ।। ५ ।।
द्वादश्यां पालितं तच्च विष्णुना प्रभविष्णुना ।।
त्रयोदश्यां सुधां देवान्पाययामास वै हरिः ।। ६ ।।
जघान च चतुर्दश्यां दैत्यान्देवविरोधिनः ।।
पूर्णायां सर्वदेवानां साम्राज्याऽऽप्तिर्बभूव ह ।। ७ ।।
ततो देवाः सुसंतुष्टा एतासां च वरं ददुः ।।
तिसृणां च तिथीनां वै प्रीत्योत्फुल्लविलोचनाः ।। ८ ।।
एता वैशाख मासस्य तिस्रश्च तिथयः शुभाः ।।
पुत्रपौत्रादिफलदा नराणां पापहानिदाः ।। ९ ।।
योऽस्मिन्मासे च संपूर्णे न स्नातो मनुजाधमः ।।
तिथित्रये तु स स्नात्वा पूर्णमेव फलं लभेत् ।। 2.7.25.१० ।।
तिथित्रयेप्यकुर्वाणः स्नानदानादिकं नरः ।।
चांडालीं योनिमासाद्य पश्चाद्रौरवमश्नुते ।। ११ ।।
उष्णोदकेन यः स्नाति माधवे च तिथित्रये ।।
रौरवं नरकं याति यावदिंद्राश्चतुर्दश ।।१२।।
पितृन्देवान्समुद्दिश्य दध्यन्नं न ददाति यः ।।
पैशाचीं योनिमासाद्य तिष्ठत्याभूतसंप्लवम् ।। १३ ।।
प्रवृत्तानां च कामानां माधवे नियमे कृते ।।
अवश्यं विष्णुसायुज्यं युज्यते नाऽत्र संशयः ।। १४ ।।
आमासं नियमासक्तः कुर्याद्यदि दिनत्रये ।।
तेन पूर्णफलं प्राप्य मोदते विष्णुमंदिरे ।। १५ ।।
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः ।।
न स्नानादि करोत्यद्धाऽमुष्य शापप्रदा वयम् ।। १६ ।।
निःसंतानो निरायुश्च निःश्रेयस्को भवेदिति ।।
इति देवा वरं दत्त्वा स्वधामानि ययुः पुरा ।। १७ ।।
तस्मात्तिथित्रयं पुण्यं सर्वाघौघविनाशनम् ।।
अंत्यं पुष्करिणीसंज्ञं पुत्रपौत्रविवर्द्धनम् ।। १८ ।।
या नारी सुभगाऽऽपूपपायसं पूर्णिमादिने ।।
ब्राह्मणाय सकृद्दद्यात्कीर्तिमंतं सुतं लभेत् ।। १९ ।।
गीतापाठं तु यः कुर्यादंतिमे च दिनत्रये ।।
दिनेदिनेऽश्वमेधानां फलमेति न संशयः ।। 2.7.25.२० ।।
सहस्रनामपठनं यः कुर्य्याच्च दिनत्रये ।।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ।। २१ ।।
सहस्रनामभिर्देवं पूर्णायां मधुसूदनम् ।।
पयसा स्नाप्य वै याति विष्णुलोकमकल्मषम् ।। २२ ।।
समस्तविभवैर्यस्तु पूजयेन्मधुसूदनम् ।।
न तस्य लोकाः क्षीयन्ते युग कल्पादि व्यत्यये ।। २३ ।।
अस्नात्वा चाप्यदत्त्वा च वैशाखश्च मतो यदि ।।
स ब्रह्महा गुरुघ्नश्च पितॄणां घातकस्तथा।। २४ ।।
श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ।।
वैशाखे च पठन्मर्त्यो ब्रह्मत्वं चोपपद्यते ।। २५ ।।
यो वै भागवतं शास्त्रं शृणोत्येतद्दिनत्रये ।।
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांभसा ।। २६ ।।
देवत्वं मनुजैः प्राप्तं कैश्चित्सिद्धत्वमेव च ।।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात् ।।२७।।
ब्रह्मज्ञानेन वै मुक्तिः प्रयागमरणेन वा ।।
अथवा मासि वैशाखे नियमेन जलाप्लुतेः ।। २८ ।।
नीलवृषं समुत्सृज्य वैशाख्यां च जलाप्लुतेः ।।
समस्तबंधनिर्मुक्तः पुमान्याति परं पदम् ।। २९ ।।
गां सवत्सां द्विजेंद्राय सीदते च कुटुम्बिने ।।
इहापमृत्युनिर्मुक्तः परत्र च परं व्रजेत् ।। 2.7.25.३० ।।
स्नानदानविहीनस्तु वैशाखी चैव यो नयेत् ।।
श्वानयोनिशतं प्राप्य विष्ठायां जायते कृमिः ।। ३१।।
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि भुवनत्रये ।।
संभूय मंत्रयांचक्रुः पापसंघातशंकिताः ।। ३२ ।।
जना अस्मासु पापिष्ठा विसृजन्ति स्वकं मलम् ।।
तदस्माकं कथं गच्छेदिति चिंतासमन्विताः ।।३३।।
तीर्थपादं हरिं जग्मुः शरण्यं शरणं विभुम् ।।
स्तुत्वा च बहुभिः स्तोत्रैः प्रार्थयामासुरंजसा ।। ३४ ।।
देवदेव जगन्नाथ सर्वाघौघविनाशन ।।
जना अस्मासु पापिष्ठाः स्नात्वा पापानि सर्वशः ।। ३५ ।।
विसृज्य त्वत्पदं यांति त्वदाज्ञाधारिणो भुवि ।।
अस्माकं चैव तत्पापं कथं गच्छेज्जनार्दन ।। ३६ ।।
तदुपायं वदास्माकं त्वत्पादशरणैषिणाम् ।।
इति तीर्थैः प्रार्थितस्तु भगवान्भूतभावनः ।। ३७ ।।
प्रहसन्प्राह तीर्थानि मेघगम्भीरया गिरा ।।
।। श्रीभगवानुवाच ।। ।।
सिते पक्षे मेषसूर्ये वैशाखान्तेदिनत्रये ।। ३८ ।।
सर्वतीर्थमये पुण्ये ममाऽपि प्राणवल्लभे ।।
यूयं भगोदयात्पूर्वं बहिःसंस्थजलाप्लुताः ।। ३९ ।।
विमुक्ताघाः पुण्यरूपा भवंत्वाशु सुनिर्मलाः ।।
भवद्भिश्च विमुक्ताघैर्ये न स्नाता दिनत्रये ।। 2.7.25.४० ।।
तेषु तिष्ठंतु तत्पापं जनैर्युष्मद्विरेचितम् ।।
इति तीर्थपदो विष्णुस्तीर्थानां च वरं ददौ ।। ४१ ।।
अनुज्ञाप्य च तान्योगात्तत्रैवांतरधीयत ।।
स्वधामानि पुनः प्राप्य तानि तीर्थानि नित्यशः ।। ४२ ।।
प्रतिवर्षं तु वैशाखे तथैवांत्यदिनत्रये ।।
तेनाघौघं विमुच्यैव यांति निर्मलता महो ।। ४३ ।।
ये तु स्नानं न कुर्वंति वैशाखांतदिनत्रये ।।
ते भवन्तु समस्तानां जनानां पातकाऽऽश्रयाः ।।४४।।
इति शापं च तीर्थानि ह्यस्नातानां वदन्ति च ।।
न तेन सदृशः पापो यो न स्नातो दिनत्रये ।। ४५ ।।
विचारितेषु शास्त्रेषु न दृष्टो न च वै श्रुतः ।।
तस्माद्दिनत्रये कार्यं स्नानदानार्चनादिकम् ।। ४६ ।।
अन्यथा नरकं याति यावदिंद्राश्चतुर्दश ।।
इत्येतत्सर्वमाख्यातं श्रुतकीर्ते महामते ।। ४७ ।।
पृष्टं वैशाखमाहात्म्यं यथा दृष्टं यथाश्रुतम् ।।
माहात्म्यस्य च लेखोऽयं माधवस्य च वर्णितः ।। ४८ ।।
कार्त्स्न्याद्वक्तुं च ब्रह्माऽपि नालं वर्षशतैरपि ।।
पुरा कैलासशिखरे पार्वत्यै शंकरः स्वयम् ।।४९।।
आह माधवमाहात्म्यं पृच्छंत्यै शतवत्सरम् ।।
तथापि नांतमगमदशक्तो विरराम ह ।।2.7.25.५०।।
को नु वर्णयितुं शक्तः कार्त्स्न्यान्माहात्म्यमुत्तमम् ।।
विना विष्णुं जगन्नाथं नारायणमनामयम् ।। ५१ ।।
पुरा सर्वेऽपि ऋषयो माहात्म्यं पापनाशनम् ।।
लेशस्य लेशं व्याचख्युर्जनानां हितकाम्यया ।। ५२ ।।
नांतः केनापि व्याख्यातो ह्यशक्तत्वान्महीपते ।।
त्वं च मासे तु वैशाखे कुरु दानादिसत्क्रियाः ।।५३।।
तेन भुक्तिं च मुक्तिं च संप्राप्नोषि न संशयः ।।
इति तं बोधयित्वा च मैथिलं जनकाह्वयम् ।। ५४ ।।
श्रुतदेवस्तमामंत्र्य गन्तुं चक्रे मनस्ततः ।।
जाताह्लादः स राजर्षिर्गलद्वाष्पाकुलेक्षणः ।। ५५ ।।
उत्सवं कारयामास स्वाभिवृद्ध्यै मनोरमम् ।।
ग्रामं प्रदक्षिणीकृत्य शिबिकामधिरोप्य तम् ।। ५६ ।।
चतुरंगबलैर्युक्तः स्वयं पृष्ठमथाऽन्वगात् ।।
पुनश्चांतःपुरं प्राप्य सकलैर्विभवैरपि ।। ५७ ।।
वस्त्रैराभरणैश्चैव गोभूतिलहिरण्यकैः ।।
प्रणम्य च परिक्रम्य तस्थौ प्रांजलिरग्रतः ।। ५८ ।।
ततः स तु महातेजाः श्रुतदेवो महायशाः ।।
सन्तुष्टः परमप्रीतो ययौ धाम स्वकं मुनिः ।। ५९ ।।
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां च माधवे ।।
स्नानं दानं पूजनं च कथाश्रवणमेव च ।। 2.7.25.६० ।।
वैशाखधर्मनिरतः स वै मोक्षमवाप्नुयात् ।।
धनशर्मा ब्राह्मणश्च प्रेताश्चैव यथा पुरा ।। ६१ ।।
।। नारद उवाच ।। ।।
इत्येतत्परमाख्यानमंबरीष तवोदितम् ।।
श्रवणात्सर्वपापघ्नं सर्वसंपद्विधायकम् ।। ६२ ।।
तेन भुक्तिं च मुक्तिं च ज्ञानं मोक्षं च विंदति ।।
इति तस्य वचः श्रुत्वा अंवरीषो महायशाः ।। ६३ ।।
प्रहृष्टांतरवृत्तिश्च बाह्यव्यापारवर्जितः ।।
प्रणनाम तथा मूर्ध्ना दण्डवत्पतितो भुवि ।। ६४ ।।
विभवैरखिलैश्चाऽपि पूजयामास तं पुनः ।।
संपूजितस्तमामंत्र्य नारदो भगवान्मुनिः ।। ६५ ।।
लोकांतरं ययौ धीमाञ्च्छापान्नैकत्र संस्थितिः ।।
अम्बरीषोऽपि राजर्षिर्नारदोक्तानिमाञ्च्छुभान् ।। ६६ ।।
धर्मान्कृत्वा विलीनोऽभूत्परे ब्रह्मणि निर्गुणे ।।
।। सूत उवाच ।। ।।
य इदं परमाख्यानं पापघ्नं पुण्यवर्धनम् ।। ६७ ।।
शृणुयाद्वा पठेद्वाऽपि स याति परमां गतिम् ।।
लिखितं पुस्तकं येषां गृहे तिष्ठति मानदाः ।। ६८ ।।
तेषां मुक्तिः करस्था हि किमु तच्छ्रवणात्मनाम् ।। ६९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे फलश्रुतिकथनंनाम पंचविशोऽध्यायः ।। २५ ।। ।। छ ।। ।।
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्यं संपूर्णम् ।।
श्रीसीतारामचंद्रार्पणमस्तु।।