स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१५

← अध्यायः ०१४ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्
अध्यायः ०१५
वेदव्यासः
अध्यायः ०१६ →

॥ ईश्वर उवाच ॥ ॥
तस्याग्नेये तु देवेशि अरुणेन प्रतिष्ठितम्॥
धनुषां च त्रये तत्र सिद्धलिंगसमीपतः ॥१॥
सूर्यसारथिना तत्र लिंगं देविप्रतिष्ठितम्॥
कलौ पापहरंनाम दर्शनात्पापनाशनम् ॥ २ ॥
चैत्रमास त्रयोदश्यां शुक्लायां वरवर्णिनि ॥
पूजयेद्विधिवद्भक्त्या पौंडरीकफलं लभेत् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पापनाशनोत्पत्तिवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥