स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१६

← अध्यायः ०१५ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्
अध्यायः ०१६
वेदव्यासः
अध्यायः ०१७ →

॥ ईश्वर उवाच ॥ ॥
पातालविवरस्यापि माहात्म्यं शृणु सांप्रतम् ॥
पूर्वपृष्टं महादेवि ब्रह्मणा विश्वकर्मणा ॥ १ ॥
तमोभावे समुत्पन्ने जातास्तत्रैव राक्षसाः ॥
सूर्यस्य द्वेषिणः सर्वे ह्यसंख्याता महाबलाः ॥ ॥ २ ॥
ते तु दृष्ट्वा महात्मानं समुद्यंतं दिवाकरम् ॥
ते धूम्रप्रमुखाः सर्वे जहसुः सूर्यमंजसा ॥ ३ ॥
अस्माकमंतकः कोऽयं विद्यते पापकर्मकृत्॥
इत्यूचुर्विविधा वाचः सूर्यस्याग्रे स्थितास्तदा॥४॥
इति श्रुत्वा तदा देवः क्रोधस्फुरिताधरः॥
राक्षसानां वचश्चैव भक्ष्यमाणो दिवाकरः॥ ५॥
ततः क्रोधाभिभूतेन चक्षुषा चावलोकयत्॥
स क्रूररक्षःक्षयकृत्तिमिरद्विपकेसरी॥ ६॥
महांशुमान्खगः सूर्यस्तद्विनाशमचिंतयत्॥
अजानन्नंततश्छिद्रं राक्षसानां दिवस्पतिः॥ ७ ॥
स धर्मविच्युतान्दृष्ट्वा पापोपहतचेतसः॥
एवं संचिंत्य भगवान्दध्यौ ध्यानं प्रभाकरः॥८।
अजानंस्तेजसा ग्रस्तं त्रैलोक्यं रजनीचरैः ॥
ततस्ते भानुना दृष्टाः क्रोधाध्मातेन चक्षुषा ॥ ९ ॥
निपेतुरंबरभ्रष्टाः क्षीणपुण्या इव ग्रहाः ॥
राक्षसैर्वेष्टितो धूम्रो निपतञ्छुशुभेंऽबरात् ॥ 7.1.16.१० ॥
अर्द्धपक्वं यथा तालफलं कपिभिरावृतम् ॥
यदृच्छया निपेतुस्ते यंत्रमुक्ता यथोपलाः ॥ ११ ॥
ततो वायु वशाद्भ्रष्टा भित्त्वा भूमिं रसातलम्॥
जग्मुस्ते क्षेत्रमासाद्य प्रभासं वरवर्णिनि ॥ १२॥
यत्र चार्कस्थलो देवः सर्वसिद्धिप्रदायकः ॥
तत्सान्निध्यस्थितं देवि पातालविवरं महत् ॥ १३ ॥
अन्यानि कोटिशः संति तानि लुप्तानि भामिनि ॥
कृतस्मरात्समारभ्य यावदर्कस्थलो रविः ॥ १४ ॥
 देवमातुर्वरं प्राप्य सिद्धयोऽष्टौ व्यवस्थिताः ॥
एतस्मिन्नंतरे देवि सूर्यक्षेत्रमुदाहृतम् ॥ १५ ॥
सूर्यस्य तेजसो देवि मध्यभागं हि तत्स्मृतम् ॥
सर्वं हेममयं देवि नापुण्यस्तत्र वीक्षते ॥ १६ ॥
विवराणां शतं चैकं स्पर्शाश्चैव तु कोटिशः ॥
तत्र संति महादेवि सिद्धेशस्तु प्ररक्षति ॥ १७ ॥
इदं क्षेत्रं महादेवि प्रियं सूर्यस्य सर्वदा ॥
सूर्यपर्वणिसंप्राप्ते कुरुक्षेत्राधिकं प्रिये ॥ १८ ॥
ब्राह्मी चैव हिरण्या च संगमश्च महोदधेः ॥
एतत्त्रिसंगमं देवि कोटितीर्थ फलप्रदम् ॥ १९ ॥
देवमाता च तत्रैव मंकीशस्तत्र तिष्ठति ॥
नागस्थानं नगस्थानं तत्रैव समुदाहृतम् ।१ 7.1.16.२० ॥
इति संक्षेपतः प्रोक्तमर्कस्थलम- होदयम् ॥
राक्षसानां च संपातादभूच्च विवरं यथा ॥ २१ ॥
अन्यानि तत्र देवेशि लुप्तानि विवराणि वै ॥
एवं तु प्रकटं तत्र दृश्यतेऽद्यापि भामिनि ॥ २२ ॥
श्रीमुखं नाम तद्द्वारं रक्ष्यते मातृभिः प्रिये ॥
वर्षमेकं चतुर्द्दश्यां नियमाद्यस्तु पूजयेत् ॥ २३ ॥
तत्र मातृगणान्देवि सुनंदाद्यान्विधानतः॥
पशुपुष्पोपहारैश्च धूपदीपैस्तथोत्तमैः ॥
विप्राणां भोजनैर्देवि तस्य सिद्धिर्भविष्यति ॥ २४ ॥
तस्मात्सर्वप्रयत्नेन तत्रार्कस्थलसंनिधौ ॥
पूजयेन्मातरः सर्वा यदीच्छेत्सिद्धिमात्मनः ॥ २५ ॥
एतास्तु मातरो देवि सुनंदागणनामतः ॥
ख्यातिं यांति प्रभासे तु क्षेत्रेस्मिन्वरवर्णिनि ॥ २६ ॥
एतत्संक्षेपतः प्रोक्तं पातालोत्तरमध्यतः ॥
तच्छ्रुत्वा मुच्यते देवि सर्वापद्भ्यो नरोत्तमः ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये अर्कस्थलमाहात्म्ये पातालविवरसुनंदादिमातृगणोत्पत्तिवर्णनंनाम षोडशोऽध्यायः ॥ ॥१६ ॥ ॥ ॥