स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/अध्यायः २०
← अध्यायः १९ | स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः अध्यायः २० वेदव्यासः |
अध्यायः २१ → |
॥ऋषय ऊचुः॥
ब्रह्मा विष्णुश्च रुद्रश्च सगुणाः कीर्तितास्त्वया॥
लिंगरूपी तथैवेशो निर्गुणोऽसौ कथं वद॥ २०.१ ॥
त्रिभिर्गुणैर्व्याप्तमिदं चराचरं जगन्महद्व्याप्यथ वाल्पकं वा॥
मायामयं सर्वमिदं विभाति लिंगं विना केन कुतोविभाति॥ २०.२ ॥
यद्दृश्यमानं महदल्पकं च तन्नश्वरं कृतकत्वाच्च सूत॥ २०.३ ॥
तस्माद्विमृश्य भोः सूत संशयं छेत्तुमर्हसि॥
व्यासप्रसादात्सकलं जानासि त्वं न चापरः॥ २०.४ ॥
॥सुत उवाच॥
व्यासेन कथितं सर्वमस्मिन्नर्थे शुकं प्रति॥
शुक उवाच॥
लिंगरूपी कथं शंभुर्निर्गुणः कथते त्वया॥
एतन्मे संशयं तात च्छेत्तुमर्हस्यशेषतः॥ २०.५ ॥
॥व्यास उवाच॥
श्रुणु वत्स ब्रवीम्येतत्पुरा प्रोक्तं च नंदिना॥
अगस्त्यं पृच्छमानं च येन सर्वं श्रुतं शुक॥ २०.६ ॥
निर्गुणं परमात्मानं विद्धि लिंगस्वरूपिणम्॥
परा शक्तिस्तथा ज्ञेया निर्गुणा शाश्वती सती ॥ २०.७ ॥
यया कृतिमिदं सर्वं गुणत्रयविभावितम्॥
एतच्चराचरं विश्वं नश्वरं परमार्थतः॥ २०.८ ॥
एक एव परो ह्यात्मा लिंगरूपी निरंजनः॥
प्रकृत्या सह ते सर्वे त्रिगुणा विलयं गताः॥ २०.९ ॥
यस्मिन्नेव ततो लिंगं लयनात्कथितं पुरा॥
तस्माल्लिंगे लयं प्राप्ता परा शक्तिः कुतोऽपरे॥ २०.१० ॥
लीना गुणाश्च रुद्रोक्त्या यैरिदं बद्धमेव च॥
चराचरं महाभाग तस्माल्लिंगं प्रपूजयेत्॥ २०.११ ॥
लिंगं च निर्गुणं साक्षाज्जानीध्वं भो द्रिजोतमाः॥
लयाल्लिंगस्य माहात्म्यं गुणानां परिकीर्त्यते॥ २०.१२ ॥
शंकरः सुखदाता हि उच्यमानो मनीषिभिः॥
सर्वो हि कथ्यते विप्राः सर्वेषामाश्रयो हि स॥ २०.१३ ॥
शंभुर्हि कथ्यते विप्रा यस्माच्च शुभसंभवः॥ २०.१४ ॥
एवं सर्वाणि नामानि सार्थकानि महात्मनः॥
तेनावृतं जगत्सर्वं शंभुना परमेष्ठिना॥ २०.१५ ॥
॥ऋषय ऊचुः॥
यदा दाक्षायणी चाग्नौ पतिता यज्ञकर्मणि॥
दक्षस्य च महाभागा तिरोधानगता सती॥ २०.१६ ॥
प्रादुर्भूता कदा सूत कथ्यतां तत्त्वयाऽधुना॥
परा शक्तिर्महेशस्य मिलिता च कथं पुनः॥ २०.१७ ॥
एतत्सर्वं महाभाग पूर्ववृत्तं च तत्त्वतः॥
कथनीयं च अस्माकं नान्यो वक्तास्ति कश्चन॥ २०.१८ ॥
॥सूत उवाच॥
जज्ञे दाक्षायणी ब्रह्मन्विदग्धावयवा यदा॥
विना शक्त्या महेशोऽपि तताप परमं तपः॥ २०.१९ ॥
लीलागृहीतवपुषा पर्वते हिमवद्गिरौ॥
भृंगिणा सह विश्वेन नंदिना च तथैव च॥ २०.२० ॥
तथा चंडेन मुंडेन तथान्यैर्बहुभिर्वृतः॥
दशभिः कोटिगुणितैर्गणैश्च परिवारितः॥ २०.२१ ॥
गणानां चैव कोट्या च तथा षष्टिसहस्रकैः॥
एवं तत्र गणैर्देव आवृतो वृषभध्वजः॥ २०.२२ ॥
तपो जुषाणः सहसा महात्मा हिमालयस्याग्रगतस्तथैव॥
गणैर्वृतो वीरभद्रप्रधानैः स केवलो मूलविद्याविहीनः॥ २०.२३ ॥
एतस्मिन्नंतरे दैत्याः प्रादुर्भूता ह्यविद्यया॥
विष्णुना हि बलिर्बद्धस्तथा ते वै महाबलाः॥ २०.२४ ॥
जाता दैत्यास्ततो विप्रा इंद्रोपद्रवकारकाः॥
कालखंजा महारौद्राः कालकायास्तथापरे॥ २०.२५ ॥
निवातकवचाः सर्वे रवरावकसंज्ञकाः॥
अन्ये च बहवो दैत्याः प्रजासंहारकारकाः॥ २०.२६ ॥
तारको नमुचेः पुत्रस्तपसा परमेण हि॥
ब्रह्माणं तोषयामास ब्रह्मा तस्य तुतोष वै॥ २०.२७ ॥
वरान्ददौ यथेष्टांश्च तारकाय दुरात्मने॥
वरं वृणीष्व भद्रं ते सर्वान्कामान्ददामि ते॥ २०.२८ ॥
तच्छत्वा वचनं तस्य ब्रह्मणः परमेष्ठिनः॥
वरयामास च तदा वरं लोकभयावहम्॥ २०.२९ ॥
यदि मे त्वं प्रसन्नऽसि अजरामरतां प्रभो॥
देहि मे यद्विजानासि अजेयत्वं तथैव च॥ २०.३० ॥
एवमुक्तस्तदा तेन तारकेण दुरात्मना॥
उवाच प्रहसन्वाक्यममरत्वं कुतस्तव॥ २०.३१ ॥
जातस्य हि ध्रुवो मृत्युरेतज्जानीहि तत्त्वतः॥
प्रहस्य तारकः प्राह अजेयत्वं च देहि मे॥ २०.३२ ॥
ब्रह्मोवाच तदा दैत्यजेयत्वं तवानघ॥
विनार्भकेण दत्तं वै ह्यर्भकस्त्वां विजेष्यते॥ २०.३३ ॥
तदा स तारकः प्राह ब्रह्माणं प्रणतः प्रभो॥
कृतार्थोऽहं हि देवेश प्रसादात्तव संप्रति॥ २०.३४ ॥
एवं लब्धवरो भूत्वा तारको हि महाबलः॥
देवान्युद्धार्थमाहूय युयुधे तैः सहासुरः॥ २०.३५ ॥
मुचुकुन्दं समाश्रित्य देवास्ते जयिनोऽभवन्॥
पुनः पुनर्विकुर्वाणा देवास्ते तारकेण हि॥ २०.३६ ॥
मुचुकुन्दबलेनैव जयमापुःसुरास्तदा॥
किं कर्तव्यं हि चास्माकं युध्यमानैर्निरंतरम्॥ २०.३७ ॥
भवितव्यमिति स्मृत्वा गतास्ते ब्रह्मणः पदम्॥
ब्रह्मणश्चाग्रतो भूत्वा ह्यब्रुवंस्ते सवासवाः॥ २०.३८ ॥
॥ देवा ऊचूः॥
बलिना सह पातालमास्तेऽसौ मधुसूदनः॥
विष्णुं विना हि ते सर्वे वृषाद्याः पतिताः परैः॥ २०.३९ ॥
दैत्येंद्रैश्च महाभाग त्रातुमर्हसि नः प्रभो॥
तदा नभोगता वाणी ह्युवाच परिसांत्व्य वै॥ २०.४० ॥
हे देवाः क्रियतामाशु मम वाक्यं हि तत्त्वतः॥
शिवात्मजो यदा देवा भविष्यति महाबलः॥ २०.४१ ॥
युद्धे पुनस्तारकं च वधिष्यति न संशयः॥
येनोपायेन भगवाञ्छंभुः सर्वगुहाशयः॥ २०.४२ ॥
दारापरिग्रही देवास्तथा नीतिर्विधीयताम्॥
क्रियतां च परो यत्नो भवद्भिर्नान्यथा वचः॥ २०.४३ ॥
यूयं देवा विजानीध्वमित्युवाचाशरीरवाक्॥
परं विस्मयमापन्ना ऊचुर्देवाः परस्परम्॥ २०.४४ ॥
श्रुत्वा नभोगतां वाणीमाजग्मुस्ते हिमालयम्॥
बृहस्पतिं पुरस्कृत्य सर्वे देवा वचोऽब्रुवन्॥२०.४५ ॥
हिमालयं महाभागाः सर्वे कार्यार्थगौरवात्॥
हिमालय महाभाग श्रूयतां नोऽधुना वचः॥ २०.४६ ॥
तारकस्त्रासयत्यस्मान्साहाय्यं तद्वधे कुरु॥
त्वं शरण्यो भवास्माकं सर्वेषां च तपस्विनाम्॥
तस्मात्सर्वे वयं याता महेंद्रसहिता विभो॥ २०.४७ ॥
॥ लोमश उवाच॥
एवमभ्यर्थितो देवैर्हिमवान्गिरिसत्तमः॥
उवाच देवान्प्रहसन्वाक्यं वाक्यविदां वरः॥ २०.४८ ॥
महेन्द्र मुद्दिश्य तदा ह्युपहाससमन्वितः॥
अक्षमाश्च वयं सर्वे महेन्द्रेण कृताः सुराः॥ २०.४९ ॥
किं कुर्मः सुरकार्यं च तारकस्य वधं प्रति॥
पक्षयुक्ता वयं सर्वे यदि स्याम सुरोत्तमाः॥ २०.५० ॥
तदा वयं घातयामस्तारकं सह बांधवैः॥
अचलोहं विपक्षश्च किं कार्यं करवाणि व॥ २०.५१ ॥
तस्य तद्वचनं श्रुत्वा सर्वे देवास्तमब्रुवन्॥
सर्वे यूयं वयं चैव असमर्था वधं प्रति॥
तारकस्य महाभाग एतत्कार्यं विचंत्यताम्॥ २०.५२ ॥
येन साध्यो भवेच्छत्रुस्तारको हि महाबलः॥
तदोवाच महातेजा हिमवान्स सुरान्प्रति॥ २०.५३ ॥
केनोपायेन भो देवास्तारकं हंतुमिच्छथ॥
कथयंतुत्वरेणैव कार्यं वेत्तुं ममैव हि॥ २०.५४ ॥
तदा सुरैः कथितं सर्वमेतद्वाण्या चोक्तं यत्पुरा कार्यहेतोः॥
श्रुतं तदा गिरिणा वाक्यमेत xxxxxxx हिमवान्पर्वतो हि॥ २०.५५ ॥
शिवस्य पुत्रेण च धीमता यदा वध्यो दैत्यस्तारको वै महात्मा॥
तदा सर्वं सुरगकार्यं शुभंस्याद्वाण्या चोक्तं सत्यमेतद्भवेच्च॥ २०.५६ ॥
तस्मात्तदेनत्क्रियतां भवद्भिर्यथा महेशः कुरुते परिग्रहम्॥
कन्या यथा तस्य शिवस्य योग्या निरीक्ष्यतामाशु सुरैरिदानीम्॥ २०.५७ ॥
तस्य तद्वचनं श्रुत्वा प्रहस्योचुः सुरास्तदा॥
जनितव्या त्वया कन्या शिवार्थं कार्यसिद्धये॥ २०.५८ ॥
सुराणां च गिरे वाक्यं कुरु शीघ्रं महामते॥
आधारस्त्वं तु देवानां भविष्यसि न संशयः॥ २०.५९ ॥
इत्युक्तो गिरिराजोऽथ देवैः स्वगृहमामाविशत्॥
पत्नीं मेनां च पप्रच्छ सुकार्यं समागतम्॥ २०.६० ॥
जनितव्या सुकन्यैका सुरकार्यार्थसिद्धये॥
देवानां च ऋषीणां च तथैव च तपस्विनाम्॥ २०.६१ ॥
प्रियं न भवति स्त्रीणां कन्याजननसेव च॥
तथापि जनितव्या च कन्यैका च वरानने॥ २०.६२ ॥
प्रहस्य मेना प्रोवाच स्वपतिं च हिमालयम्॥
यदुक्तं भवता वाक्यं श्रूयतां मे त्वयाऽधुना॥ २०.६३ ॥
कन्या सदा दुःखकरी नृणां पते स्त्रीणां तथा शोककरी महामते॥
तस्माद्विमृश्य सुचिरं स्वयमेव बुद्ध्या यथा हितं शैलपते तदुच्यताम्॥ २०.६४ ॥
हिमवांस्तदुपश्रुत्या प्रियाया वचनं तदा॥
उवाच वाक्यं मेधावी परोपकरणान्वितम्॥ २०.६५ ॥
येनयेन प्रकारेण परेषामुपजीवनम्॥
भविष्यति च तत्कार्यं धीमता पुरुषेण हि॥ २०.६६ ॥
स्त्रियापि चैव तत्कार्यं परोपकरणान्वितम्॥
एवं प्रवर्तिता तेन गिरिणा महिषी तदा॥
दधार जठरे कन्यां मेना भाग्यवती तदा॥ २०.६७ ॥
महाविद्या महामाया महामेधास्वरूपिणी॥
रुद्रकाली च अंबा च सती दाक्षायणी परा॥ २०.६८ ॥
तां विभूतिं विशालाक्षी जठरे परमां सती॥
बभार सा महाभागा मेना चारुविलोचना॥ २०.६९ ॥
स्तुतिं चक्रुस्तदा देवा ऋषयो यक्षकिन्नराः॥
मेनाया भूरिभाग्यायास्तथा हिमवतो गिरेः॥ २०.७० ॥
एतस्मिन्नंतरे जाता गिरिजा नाम नामतः॥
प्रादुर्भूता यदा देवी सर्वेषां च सुखप्रदा॥ २०.७१ ॥
देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः॥ २०.७२ ॥
पुष्पवर्षेण महता ववृषुर्विबुधास्तथा॥
तदा प्रसन्नमभवत्सर्वं त्रैलोक्यमेव च॥ २०.७३ ॥
यदावतीर्णा गिरिजा महासती तदैव दैत्या भयमाविशंस्ते॥
प्राप्ता मुदं देवगणा महर्षयः सचारणाः सिद्धगणास्तथैव॥ २०.७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्रीभवान्युत्पत्तिवर्णनंनाम विंशोऽध्यायः॥ २० ॥ छ ॥