प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२ हरिवंशपुराणम्
अध्यायः ०३
वेदव्यासः
अध्यायः ०४ →
दक्ष प्रजापतिना सृष्ट्याः विस्तारः, नारदेन दक्षस्य पुत्राणां विरक्तिकरणं, दक्षस्य षष्टिकन्यकानां संततिवर्णनम्

जनमेजय उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणेमां वैशम्पायन कीर्तय ।। १ ।।
वैशम्पायन उवाच
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा।
यथा ससर्ज भूतानि तथा शृणु महीपते ।। २ ।।
मानसान्येव भूतानि पूर्वमेवासृजत्प्रभुः ।
ऋषीन्देवान् सगन्धर्वानसुरानथ राक्षसान्।
यक्षभूतपिशाचांश्च वयःपशुसरीसृपान् ।। ३ ।।
यदास्य तास्तु मानस्यो न व्यवर्द्धन्त वै प्रजाः ।
अपध्याता भगवता महादेवेन धीमता ।। ४ ।।
ततः संचिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः ।
स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः ।। ५ ।।
असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः ।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ।। ६ ।।
अथ पुत्रसहस्राणि वीरण्यां पञ्च वीर्यवान् ।
असिक्न्यां जनयामास दक्ष एव प्रजापतिः ।।७ ।।
तांस्तु दृष्ट्वा महाभागान् संविवर्धयिषून् प्रजाः।
देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् ।
नाशाय वचनं तेषां शापायैवात्मनस्तथा ।। ८ ।।
यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् ।
दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः ।। ९ ।।
पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिना ।
असिक्न्यामथ वीरण्यां भूयो देवर्षिसत्तमः ।
तं भूयो जनयामास पितेव मुनिपुङ्गवम् ।। 1.3.१० ।।
तेन दक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः ।
निर्मथ्य नाशिताः सर्वे विधिना च न संशयः ।। ११ ।।
तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ।
महर्षीन् पुरतः कृत्वा याचितः परमेष्ठिना ।। १२ ।।
ततोऽभिसंधिं चक्रुस्ते दक्षस्तु परमेष्ठिना ।
कन्यायां नारदो मह्यं तव पुत्रो भवेदिति ।। १३ ।।
ततो दक्षस्तु तां प्रादात्कन्यां वै परमेष्ठिने ।
स तस्यां नारदो जज्ञे दक्षशापभयादृषिः ।। १४ ।।
जनमेजय उवाच
कथं विनाशिताः पुत्रा नारदेन महर्षिणा ।
प्रजापतेर्द्विजश्रेष्ठ श्रोतुमिच्छामि तत्त्वतः ।। १५ ।
वैशम्पायन उवाच
दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः ।
समागता महावीर्या नारदस्तानुवाच ह ।। १६ ।।
बालिशा बत यूयं वै नास्या जानीथ वै भुवः ।
प्रमाणं स्रष्टुकामाः स्थ प्रजाः प्राचेतसात्मजाः।
अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ।। १७ ।।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् ।
प्रमाणं द्रष्टुकामस्ते गताः प्राचेतसात्मजाः ।। १८।।
वायोरनशनं प्राप्य गतास्ते वै पराभवम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।। १९ ।।
हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ।
वैरण्यामेव पुत्राणां सहस्रमसृजत् प्रभुः ।। 1.3.२० ।।
विवर्धयिषवस्ते तु शबलाश्वाः प्रजास्तदा ।
पूर्वोक्तं वचनं तात नारदेनैव नोदिताः ।। २१ ।।
अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः ।
भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ।। २२ ।।
ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ।
एकाग्राः स्वस्थमनसा यथावदनुपूर्वशः ।। २३ ।।
तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।। २४ ।।
नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽवदद् वचः ।
नारदं नाशमेहीति गर्भवासं वसेति च ।। २५ ।।
तदाप्रभृति वै भ्राता भ्रातुरन्वेषणं नृप ।
प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता ।। २६ ।।
तांश्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
षष्टिं भूयोऽसृजत् कन्या वीरण्यामिति नः श्रुतम् ।।
तास्तदा प्रतिजग्राह भार्यार्थे कश्यपः प्रभुः।
सोमो धर्मश्च कौरव्य तथैवान्ये महर्षयः ।। २८ ।।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने ।। २९ ।।
द्वे चैव भृगुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ।। 1.3.३० ।।
अरुन्धती वसुर्यामी लभ्या भानुर्मरुत्वती ।
संकल्पा च मुहूर्ता च साध्या विश्वा च भारत ।
धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि मे शृणु ।। ३१ ।।
विश्वेदेवाश्च विश्वायाः साध्यान् साध्या व्यजायत ।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ।। ३२ ।।
भानोस्तु भानवस्तात मुहूर्ताया मुहूर्तजाः ।। ३३ ।।
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ।। ३४ ।।
संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ।
गवीथ्याश्च यामिन्या वृषलम्बा व्यजायत ।। ३५ ।।
राजन् सोमपत्न्यस्तु दक्षः प्राचेतसो ददौ।
सर्वा नक्षत्रनाम्न्यस्ता ज्यौतिषे परिकीर्तिताः ।। ३६।।
ये' त्वन्ये ख्यातिमन्तो वै देवा ज्योतिःपुरोगमाः ।
वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ।। ३७ ।।
आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ।। ३८ ।।
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ।। ३९ ।।
सोमस्य भगवान् वर्चा वर्चस्वी येन जायते ।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ।। 1.3.४० ।।
अनिलस्य शिवा भार्या यस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ।। ४१ ।।
अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियान्वितः ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ।। ४२ ।।
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ।
स्कन्दः सनत्कुमारश्च सृष्टः पादेन तेजसः ।। ४३ ।।
प्रत्यूषस्य विदुः पुत्रमृष्टिं नाम्ना च देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ तपस्विनौ ।। ४४ ।।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत् कृत्स्नमसक्ता विचचार ह ।। ४५ ।।
प्रभासस्य च सा भार्या वसूनामष्टमस्य च ।
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ।। ४६ ।।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ।
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।। ४७ ।।
यः सर्वासां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।। ४८ ।।
सुरभी कश्यपाद् रुद्रानेकादश विनिर्ममे ।
महादेवप्रसादेन तपसा भाविता सती ।। ४९ ।।
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्राश्च भारत ।
त्वष्टुश्चैवात्मजः श्रीमान् विश्वरूपो महायशाः ।। 1.3.५० ।।
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ।। ५१ ।।
मृगव्याधश्च सर्पश्च कपाली च विशाम्पते ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।। ५२ ।।
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
पुराणे भरतश्रेष्ठ यैर्व्याप्ताः सचराचराः ।। ५३ ।।
लोका भरतशार्दूल कश्यपस्य निबोध मे ।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खशा ।। ५४ ।।
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर्मुनिश्च राजेन्द्र तास्वपत्यानि मे शृणु ।। ५५।।
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः ।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ।। ५६ ।।
उपस्थितेऽतियशसि चाक्षुषस्यान्तरे मनोः ।
हितार्थं सर्वसत्त्वानां समागम्य परस्परम् ।। ५७ ।।
आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ।। ५८ ।।
वैशम्पायन उवाच
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात् कश्यपाज्जातास्तेऽदित्या दक्षकन्यया ।। ५९ ।।
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा च भारत ।। 1.3.६० ।।
विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ।। ६१ ।।
चाक्षुषस्यान्तरे पूर्वमासन् ये तुषिताः सुराः ।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ।। ६२।।
सप्तविंशतिर्याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः।
तासामपत्याभ्यभवन् दीप्तान्यमिततेजसाम् ।। ६३ ।।
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ।। ६४
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः।
कृशाश्वस्य तु राजर्षेर्देवप्रहरणानि च ।। ६५ ।।
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
सर्वदेवगणास्तात त्रयस्त्रिंशत् तु कामजाः ।। ६६ ।।
तेषामपि च राजेन्द्र निरोधोत्पत्तिरुच्यते ।। ६७।।
यथा सूर्यस्य गगने उदयास्तमने इह ।
एवं देवनिकायस्ते सम्भवन्ति युगे युगे ।। ६८ ।।
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान् ।। ६९ ।।
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः।
सैंहिकेया इति ख्यातास्तस्याः पुत्रा महाबलाः ।
गणैश्च सह राजेन्द्र दशसाहस्रमुच्यते ।। 1.3.७० ।।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
असंख्याता महाबाहो हिरण्यकशिपोः शृणु ।। ७१ ।।
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।
अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान् ।। ७२।।
संह्रादश्च चतुर्थोऽभूद्ध्रादपुत्रो ह्रदस्तथा ।
संह्रादपुत्रः सुन्दश्च निसुन्दस्तावुभौ स्मृतौ ।। ७३ ।
अनुह्रादसुतौ ह्यायुः शिबिकालस्तथैव ह ।
विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।। ७४ ।।
बले पुत्रशतं त्वासीद् बाणज्येष्ठं नराधिप ।
धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चेन्द्रतापनः ।। ७५ ।।
कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः ।
बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ।। ७६ ।।
पुराकल्पे हि बाणेन प्रसाद्योमापतिं प्रभुम् ।
पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ।। ७७ ।।
बाणस्य चेन्द्रदमनो लोहित्यामुपपद्यत ।
गणास्तथासुरा राजञ्छतसाहस्रसम्मिताः ।। ७८ ।।
हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः ।
झर्झरः शकुनिश्चैव भूतसंतापनस्तथा ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च ।। ७९ ।।
अभवन् दनुपुत्राश्च शतं तीव्रपराक्रमाः ।
तपस्विनो महावीर्याः प्राधान्येन निबोध तान् ।। 1.3.८०।।
द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरा विभुः।
शङ्कुकर्णो विराधश्च गवेष्ठी दुन्दुभिस्तथा ।
अयोमुखः शम्बरश्च कपिलो वामनस्तथा ।। ८१ ।।
मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः ।
विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ ।। ८२ ।।
इन्द्रजित् सत्यजिच्चैव वज्रनाभस्तथैव च ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च ।। ८३ ।।
एकचक्रो महाबाहुस्तारकश्च महाबलः ।
वैश्वानरः पुलोमा च विद्रावणमहासुरौ ।। ८४ ।।
स्वर्भानुर्वृषपर्वा च तुहुण्डश्च महासुरः ।
सूक्ष्मश्चैवातिचन्द्रश्च ऊर्णनाभो महागिरिः ।। ८५।।
असिलोमा च केशी च शठश्च बलको मदः ।
तथा गगनमूर्धा च कुम्भनाभो महासुरः ।। ८६ ।।
प्रमदो मयश्च कुपथो हयग्रीवश्च वीर्यवान् ।
वैसृपः सविरूपाक्षः सुपथोऽथ हराहरौ ।। ८७ ।।
हिरण्यकशिपुश्चैव शतमायश्च शम्बरः ।
शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान् ।। ८८ ।।
एते सर्वे दनोः पुत्राः कश्यपादभिजज्ञिरे ।
विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः ।। ८९ ।।
एतेषां यदपत्यं तु तन्न शक्यं नराधिप ।
प्रसंख्यातुं महीपाल पुत्रपौत्राद्यनन्तकम् ।। 1.3.९० ।।
स्वर्भानोस्तु प्रभा कन्या पुलोम्नश्च सुतात्रयम् ।
उपदानवी हयशिराः शर्मिष्ठा वार्षपर्वणी ।। ९१ ।।
पुलोमा कालिका चैव वैश्वानरसुते उभे ।
बह्वपत्ये महावीर्ये मारीचेस्तु परिग्रहः ।। ९२ ।।
तयोः पुत्रसहस्राणि षष्टिं दानवनन्दनान् ।
चतुर्दशशतानन्यान् हिरण्यपुरवासिनः ।। ९३।।
मारीचिर्जनयामास महता तपसान्वितः ।
पौलोमाः कालकेयाश्च दानवास्ते महाबलाः ।। ९४ ।।
अवध्या देवतानां च हिरण्यपुरवासिनः ।
कृताः पितामहेनाजौ निहताः सव्यसाचिना ।। ९५ ।।
प्रभाया नहुषः पुत्रः सृंजयश्च शचीसुतः ।
पूरुं जज्ञेऽथ शर्मिष्ठा दुष्यन्तमुपदानवी ।। ९६ ।।
ततोऽपरे महावीर्या दानवास्त्वतिदारुणाः ।
सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तदा।। ९७४
दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।
सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः।।९८।।
व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः ।
वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा ।। ९९ ।।
आञ्जिको नरकश्चैव कालनाभस्तथैव च ।
शुकः पोतरणश्चैव वज्रनाभश्च वीर्यवान् ।।1.3.१००।।
राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रविमर्दनः ।
मूकश्चैव तुहुण्डश्च ह्रादपुत्रौ बभूवतुः ।१०१।
मारीचः सुन्दपुत्रश्च ताडकायां व्यजायत ।
शिवमाणस्तथा चैव सुरकल्पश्च वीर्यवान् ।१०२।
एते वै दानवाः श्रेष्ठा दनुवंशविवर्द्धनाः ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।। १०३।।
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ।
समुत्पन्नाः सुतपसा महान्तो भावितात्मनः ।।१०४।।
तिस्रः कोट्यः सुतास्तेषां मणिमत्यां निवासिनाम्।
तेऽप्यवध्यास्तु देवानामर्जुनेन निपातिताः ।।१०५।।
षट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः ।
काकी श्येनी च भासी च सुग्रीवी शुचि गृध्रिका ।। १०६ ।।
काकी काकानजनयदुलूकी प्रत्युलूककान् ।
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि ।।१०७।।
शुचिरौदकान् पक्षिगणान् सुग्रीवी तु परंतप।
अश्वानुष्ट्रान् गर्दभांश्च ताम्रावंशः प्रकीर्तितः ।। १०८ ।।
विनतायास्तु पुत्रौ द्वावरुणो गरुडस्तथा ।
सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा ।। १०९।।
सुरसायाः सहस्रं तु सर्पाणाममितौजसाम्।
अनेकशिरसां तात खेचराणां महात्मनाम् ।।1.3.११०।
काद्रवेयाश्च बलिनः सहस्रममितौजसः ।
सुपर्णवशगा नागा जङिरेऽनेकमस्तकाः ।। १११।।
तेषां प्रधानाः सततं शेषवासुकितक्षकाः ।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।।११२।।
एलापत्रस्तथा शंखः कर्कोटकधनंजयौ ।
महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ ।।११३।।
कुहरः पुष्पदष्ट्रश्च दुर्मुखः सुमुखस्तथा ।
शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा ।११४।
नहुषः शङ्खरोमा च मणिरित्येवमादयः ।
तेषां पुत्राश्च पौत्राश्च गरुडेन निपातिताः ।।११५।।
चतुर्दश सहस्राणि क्रूराणां पवनाशिनाम् ।
गणं क्रोधवशं विद्धि तस्य सर्वे च दंष्ट्रिणः ११६।।
स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः।
गास्तु वै जनयामास सुरभिर्महिषांस्तथा ।।११७।
इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ।
कशा तु यक्षरक्षांसि मुनिरप्सरसस्तथा।। ११८।।
अरिष्टा तु महासत्त्वान् गन्धर्वानमितौजसः ।
एते कश्यपदायादाः कीर्तिताः स्थाणुजंगमाः ।।११९।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः ।। 1.3.१२०।।
वैवस्वते तु महति वारुणे वितते क्रतौ ।
जुह्वानस्य ब्रह्मणो वै प्रजासर्गं इहोच्यते ।। १२१।।
पूर्वं यत्र तु ब्रह्मर्षीनुत्पन्नान् सप्त मानसान् ।
पुत्रत्वे कल्पयामास स्वयमेव पितामहः ।। १२२।।
ततो विरोधे देवानां दानवानां च भारत ।
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम् ।। १२३ ।।
तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ।
वरेण च्छन्दयामास सा च वव्रे वरं ततः ।।१२४।।
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ।
स च तस्यै वरं प्रादात् प्रार्थितं सुमहातपाः ।। १२५।।
दत्त्वा च वरमव्यग्रो मारीचस्तामभाषत ।
भविष्यति सुतस्तेऽयं यद्येवं धारयिष्यसि ।।१२६।।
इन्द्रं सुतो निहन्ता ते गर्भं वै शरदां शतम् ।
यदि धारयसे शौचं तत्परा व्रतमास्थिता ।।१२७।।
तथेत्यभिहितो भर्ता तया देव्या महातपाः ।
धारयामास गर्भं तु शुचिः सा वसुधाधिप ।।१२८।।
ततोऽभ्युपागमद् दित्यां गर्भमाधाय कश्यपः ।
रोचयन् वै गणश्रेष्ठं देवानाममितौजसाम् ।।१२९।।
तेजः सम्भृत्य दुर्धर्षमवध्यममरैरपि ।
जगाम पर्वतायैव तपसे शंसितव्रतः ।। 1.3.१३०।।
तस्याश्चैवान्तरप्रेप्सुरभवत् पाकशासनः ।
ऊने वर्षशते चास्या ददर्शान्तरमच्युतः ।। १३१।।
अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।
निद्रां च कारयामास तस्याः कुक्षिं प्रविश्य सः ।। १३२।।
वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तत ।
स पाट्यमानो वज्रेण गर्भस्तु प्ररुरोद ह ।। १३३।।
मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत्।
सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः।।१३४।।
एकैकं सप्तधा चक्रे वज्रेणैवारिकर्शनः ।
मरुतो नाम देवास्ते बभूवुर्भरतर्षभ ।। १३५।।
यथैवोक्तं मघवता तथैव मरुतोऽभवन् ।
देवा एकोनपञ्चाशत् सहाया वज्रपाणिनः ।।१३६।।
तेषामेवं प्रवृद्धानां भूतानां जनमेजय ।
रोचयन् वै गणश्रेष्ठं देवानाममितौजसाम् ।।१३७।।
निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् ।
क्रमशस्तानि राज्यानि पृथुपूर्वाणि भारत ।।१३८।।
स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।
पर्जन्यस्तपनोऽव्यक्तस्तस्य सर्वमिदं जगत् ।।१३९।।
भूतसर्गमिमं सम्यग्जानतो भरतर्षभ ।
मरुतां च शुभं जन्म शृण्वतः पठतोऽपि वा ।
नावृत्तिभयमस्तीह परलोकभयं कुतः ।। 1.3.१४०।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि मरुदुत्पत्तिकथने तृतीयोऽध्यायः ।। ३ ।।