प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३ हरिवंशपुराणम्
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →
पृथोरुपाख्यानम्, राज्यवितरणं एवं दिक्पालानां प्रतिष्ठा

वैशम्पायन उवाच
अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे।।१।।
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ।। २ ।।
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम्।
बृहस्पतिं तु विश्वेषां ददावाङ्गिरसं पतिम् ।। ३ ।।
भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेचयत् ।
आदित्यानां तथा विष्णुं वसूनामथ पावकम् । ४ ।।
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां च प्रह्लादममितौजसम् ।। ५ ।।
वैवस्वतं च पितॄणां यमं राज्येऽभ्यषेचयत् ।
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम्।। ६।।
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।
नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ।। ७ ।।
विप्रचित्तिं तु राजानं दानवानामथादिशत्।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ।। ८ ।
शैलानां हिमवन्तं च नदीनामथ सागरम् ।
गन्धानां मरुतां चैव भूतानामशरीरिणाम् ।
शब्दाकाशवतां चैव वायुं च बलिनां वरम् ।। ९ ।।
गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् ।
नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ।। 1.4.१० ।।
कारणानां च राजानमैरावतमथादिशत् ।
उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ।। १ १।।
मृगाणामथ शार्दूलं गोवृषं च गवां पतिम् ।
वनस्पतीनां राजानं प्लक्षमेवादिशत् प्रभुम् ।। १२ ।।
सागराणां नदीनां च मेघानां वर्षणस्य च ।
आदित्यानामधिपतिं पर्जन्यमभिषिक्तवान् ।। १३ ।।
सर्वेषां दंष्ट्रिणां शेषं राजानमभ्यषेचयत् ।
सरीसृपाणां सर्पाणां राजानं चैव तक्षकम् ।। १४ ।।
गन्धर्वाप्सरसां चैव कामदेवं तथा प्रभुम् ।
ऋतूनामथ मासानां दिवसानां तथैव च ।। १५ ।।
पक्षाणां च क्षपाणां च मुहूर्ततिथिपर्वणाम् ।
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ।। १६ ।।
गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।
एवं विभज्य राज्यानि क्रमेण स पितामहः ।। १७ ।।
दिशापालानथ ततः स्थापयामास भारत ।
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ।। १८ ।।
दिशापालं सुधन्वानं राजानं चाभ्यषेचयत् ।
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ।। १९ ।।
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ।। 1.4.२० ।।
केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।। २१ ।।
उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत्।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।। २२
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ।
राजसूयाभिषिक्तस्तु पृथुरेभिर्नराधिपैः ।
वेददृष्टेन विधिना राजराज्ये नराधिप ।। २३ ।।
ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।
वैवस्वताय मनवे ब्रह्मा राज्यमथादिशत्।
तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ।। २४।।
तवानुकूल्याद् राजेन्द्र यदि शुश्रूषसेऽनघ ।
महद्ध्येतदधिष्ठानं पुराणं परिकीर्तितम् ।
धन्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् ।। २५ ।।
जनमेजय उवाच
विस्तरेण पृथोर्जन्म वैशम्पायन कीर्तय।
यथा महात्मना तेन दुग्धा चेयं वसुंधरा।।२६।।
यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः ।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ।। २७ ।।
यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः ।
राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुंधरा ।। २८ ।।
तेषां पात्रविशेषांश्च वैशम्पायन कीर्तय ।
वत्सान् क्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ।। २९ ।।
यस्माच्च कारणात् पाणिर्वेनस्य मथितः पुरा ।
क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ।। 1.4.३० ।।
वैशम्पायन उवाच
हन्त ते कथयिष्यामि पृथोर्वैन्यस्य विस्तरम् ।
एकाग्रः प्रयतश्चैव शृणुष्व जनमेजय ।। ३१ ।।
नाशुचेः क्षुद्रमनसः कुशिष्यायाव्रताय च ।
कीर्तनीयमिदं राजन् कृतघ्नायाहिताय वा ।। ३२ ।।
स्वर्यं यशस्यमायुष्यं धर्म्य वेदेन सम्मितम् ।
रहस्यमृषिभिः प्रोक्तं शृणु राजन् यथातथम् ।। ३३ ।।
यश्चैनं कथयेन्नित्यं पृथोर्वैन्यस्य विस्तरम्।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतैः।। ३४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने चतुर्थोऽध्यायः ।। ४ ।।