हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ०५
← अध्यायः ०४ | हरिवंशपुराणम् अध्यायः ०५ वेदव्यासः |
अध्यायः ०६ → |
पृथोरुपाख्यानम् -- अत्याचारकरणेन वेनस्य नाशः, पृथोः जन्म एवं चरित्रम् |
वैशम्पायन उवाच
आसीद् धर्मस्य गोप्ता वै पूर्वमत्रिसमः प्रभुः ।
अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः ।। १ ।।
तस्य पुत्रोऽभवद् वेनो नात्यर्थं धर्मकोविदः ।
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ।। २ ।।
स मातामहदोषेण वेनः कालात्मजाऽऽत्मजः ।
स्वधर्मं पृष्ठतः कृत्वा कामाल्लोभेष्ववर्तत ।। ३ ।।
मर्यादां स्थापयामास धर्मापेतां स पार्थिवः ।
वेदधर्मानतिक्रम्य सोऽधर्मनिरतोऽभवत् ।। ४ ।।
निःस्वाध्यायवषट्कारास्तस्मिन् राजनि शासति।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः ।। ५ ।।
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।
आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ।। ६ ।।
अहमिज्यश्च यष्टा च यज्ञश्चेति कुरूद्वह ।
मयि यशो विधातव्यो मयि होतव्यमित्यपि ।। ७ ।।
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् ।
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ।। ८ ।।
वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान् बहून् ।
अधर्मं कुरु मा वेन नैष धर्मः सनातनः ।। ९ ।।
निधनेऽत्र प्रसूतस्त्वं प्रजापतिरसंशयम् ।
प्रजाश्च पालयिष्येऽहमिति ते समयः कृतः ।। 1.5.१० ।।
तांस्तदा ब्रुवतः सर्वान् महर्षीनब्रवीत् तदा ।
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित् ।। ११ ।।
वेन उवाच
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ।
श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि ।। १२ ।।
प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
सम्मूढा न विदुर्नूनं भवन्तो मामचेतसः ।। १३ ।।
इच्छन् दहेयं पृथिवीं प्लावयेयं तथा जलैः ।
खं भुवं चैव रुन्धेयं नात्र कार्या विचारणा ।। १४ ।।
यदा न शक्यते मोहादवलेपाच्च पार्थिवः ।
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः ।। १५ ।।
निगृह्य तं महात्मानो विस्फुरन्तं महाबलम् ।
ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः ।। १६ ।।
तस्मिंस्तु मथ्यमाने वै राज्ञ ऊरौ प्रजज्ञिवान् ।
ह्रस्वाऽतिमात्रः पुरुषः कृष्णश्चाति बभूव ह ।। १७ ।।
स भीतः प्राञ्जलिर्भूत्वा स्थितवाञ्जनमेजय ।
तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत् तदा ।। १८ ।।
निषादवंशकर्तासौ बभूव वदतां वर ।
धीवरानसृजच्चाथ वेनकल्मषसम्भवान् ।। १९ ।।
ये चान्ये विन्ध्यनिलयास्तुषारास्तुम्बरास्तथा ।
अधर्मरुचयो ये च विद्धि तान् वेनसम्भवान् ।। 1.5.२० ।।
ततः पुनर्महात्मानः पाणिं वेनस्य दक्षिणम् ।
अरणीमिव संरब्धा ममन्थुस्ते महर्षयः ।। २१ ।।
पृथुस्तस्मात्समुत्तस्थौ कराज्ज्वलनसंनिभः ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ।। २२ ।।
स धन्वी कवची जातः पृथुरेव महायशाः ।
आद्यमाजगवं नाम धनुर्गृह्य महारवम् ।
शरांश्च दिव्यान् रक्षार्थं कवचं च महाप्रभम् ।। २३ ।।
तस्मिञ्जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः ।
समापेतुर्महाराज वेनश्च त्रिदिवं गतः ।। २४ ।
समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना ।
त्रातः स पुरुषव्याघ्र पुन्नाम्नो नरकात्तदा ।। २५ ।।
तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे ।। २६ ।।
पितामहश्च भगवान् देवैराङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ।। २७ ।।
समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ।
महता राजराज्येन प्रजापालं महाद्युतिम् ।। २८।।
सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः ।
आदिराज्ये तदा राज्ञां पृथुर्वैन्यः प्रतापवान् ।। २९ ।।
पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।
अनुरागात् ततस्तस्य नाम राजेत्यजायत ।। 1.5.३०।।
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ।। ३१।।
अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु ।। ३२ ।।
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः।। ३३।।
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
पृथोः स्तवार्थे तौ तत्र समाहूतौ सुरर्थिभिः ।। ३४ ।।
तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः ।
कर्मैतदनुरूपं वां पात्रं चायं नराधिपः ।। ३५ ।।
तानूचतुस्तदा सर्वांस्तानृषीन् सूतमागधौ ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ।।३६।।
न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ।
स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः।। ३७ ।।
ऋषिभिस्तौ नियुक्तौ च भविष्यैः स्तूयतामिति ।
यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः ।। ३८ ।।
सत्यवाग् दानशीलोऽयं सत्यसंधो नरेश्वरः ।
श्रीमाञ्जैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः ।। ३९ ।।
धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषणः ।
मान्यो मानयिता यज्वा ब्रह्मण्यः सत्यसंगरः ।। 1.5.४० ।।
शमः शान्तश्च निरतो व्यवहारस्थितो नृपः ।
ततः प्रभृति लोकेषु स्तवेषु जनमेजय ।
आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः ।। ४१ ।।
तयोः स्तवैस्तैः सुप्रीतः पृथुः प्रादात् प्रजेश्वरः।
अनूपदेशं सूताय मगधान् मागधाय च ।। ४२ ।।
तं दृष्ट्वा परमप्रीताः प्रजाः प्राहुर्महर्षयः ।
वृत्तीनामेष वो दाता भविष्यति जनेश्वरः ।। ४३ ।।
ततो वैन्यं महाराज प्रजाः समभिदुद्रुवुः ।
त्वं नो वृत्तिविधत्स्वेति महर्षिवचनात् तदा ।। ४४ ।।
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ।
धनुर्गृह्य पृषत्कांश्च पृथिवीमाद्रवद् बली ।। ४५ ।।
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ।
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ।। ४६ ।।
सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात्तदा।
प्रददर्शाग्रतो वैन्यं प्रगृहीतशरासनम् ।। ४७ ।।
ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् ।
महायोगं महात्मानं दुर्धर्षममरैरपि ।। ४८ ।।
अलभन्ती तु सा त्राणं वैन्यमेवान्वपद्यत ।
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा ।। ४९ ।।
उवाच वैन्यं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि ।
कथं धारयिता चासि प्रजा राजन् विना मया ।। 1.5.५०।।
मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत्।
मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत्।। ५१ ।।
न त्वमर्हसि मां हन्तुं श्रेयश्चेत् त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल शृणु चेदं वचो मम ।। ५२ ।।
उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः ।
उपायं पश्य येन त्वं धारयेथाः प्रजा नृप ।। ५३ ।।
हत्वापि मां न शक्तस्त्वं प्रजा धारयितुं नृप ।
अनुभूता भविष्यामि यच्छ कोपं महाद्युते । ५४ ।।
अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि ।
सत्त्वेषु पृथिवीपाल न धर्मे त्यक्तुमर्हसि ।। ५५ ।
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।
कोपं निगृह्य धर्मात्मा वसुधामिदमव्रवीत् ।। ५६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पृथूपाख्याने पञ्चमोऽध्यायः ।। ५ ।।