प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १९ हरिवंशपुराणम्
अध्यायः २०
वेदव्यासः
अध्यायः २१ →
पितृकल्पः - ब्रह्मदत्त एवं उग्रायुधस्य वंशाः, पूजनीया चटकया शुक्रनीतिवर्णनम्

विंशोऽध्यायः

मार्कण्डेय उवाच
तस्मिन्नन्तर्हिते देवे वचनात् तस्य वै प्रभोः ।
चक्षुर्दिव्यं सविज्ञानं प्रादुरासीत् तदा मम ।। १ ।।
ततोऽहं तानपश्यं वै ब्राह्मणान् कौशिकात्मजान् ।
आपगेय कुरुक्षेत्रे यानुवाच विभुर्मम ।। २ ।।
ब्रह्मदत्तोऽभवद् राजा यस्तेषां सप्तमो द्विजः ।
पितृवर्तीति विख्यातो नाम्ना शीलेन कर्मणा ।। ३ ।।
शुकस्य कन्या कृत्वी तं जनयामास पार्थिवम्।
अणुहात् पार्थिवश्रेष्ठात् काम्पिल्ये नगरोत्तमे ।। ४ ।।
भीष्म उवाच
यथोवाच महाभागो मार्कण्डेयो महातपाः ।
तस्य वंशमहं राजन् कीर्तयिष्यामि तच्छृणु ।। ५ ।।
युधिष्ठिर उवाच
अणुहः कस्य वै पुत्रः कस्मिन्काले बभूव ह ।
राजा धर्मभृतां श्रेष्ठो यस्य पुत्रो महायशाः ।। ६ ।।
ब्रह्मदत्तो नरपतिः किंवीर्यः स बभूव ह ।
कथं च सप्तमस्तेषां स बभूव नराधिपः ।। ७ ।।
न ह्यल्पवीर्याय शुको भगवाँल्लोकपूजितः ।
कन्याप्रदद्याद्योगात्मा कृर्त्वी कीर्तिमतीं प्रभुः।। ८ ।।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
ब्रह्मदत्तस्य चरितं तद् भवान् वक्तुमर्हति ।। ९ ।।
यथा च वर्तमानास्ते संसारे च द्विजातयः ।
मार्कण्डेयेन कथितास्तद् भवान् प्रब्रवीतु मे ।। 1.20.१० ।।
भीष्म उवाच
प्रतीपस्य तु राजर्षेस्तुल्यकालो नराधिपः ।
पितामहस्य मे राजन् बभूवेति मया श्रुतम् ।। ११ ।।
ब्रह्मदत्तो महाभागो योगी राजर्षिसत्तमः ।
रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः ।। १२ ।।
सखाऽऽस गालवो यस्य योगाचार्यो महायशाः।
शिक्षामुत्पाद्य तपसा क्रमो येन प्रवर्तितः ।
कण्डरीकश्च योगात्मा तस्यैव सचिवो महान् ।। १३ ।।
जात्यन्तरेषु सर्वेषु सखायः सर्व एव ते ।
सप्तजातिषु सप्तैव बभूवुरमितौजसः ।
यथोवाच महाभागो मार्कण्डेयो महातपाः ।। १४ ।।
तस्य वंशमहं राजन् कीर्तयिष्यामि तच्छृणु ।
ब्रह्मदत्तस्य पौराणां पौरवस्य महात्मनः ।। १५ ।।
बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः ।
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ।। १६ ।।
तेनेदं निर्मितं पूर्वं हस्तिनापुरमुत्तमम्।
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः ।। १७ ।।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ।
अजमीढस्य धूमिन्यां जज्ञे बृहदिषुर्नृप ।
बृहद्धनुर्बृहदिषोः पुत्रस्तस्य महायशाः ।। १८ ।।
बृहद्धर्मेति विख्यातो राजा परमधार्मिकः ।
सत्यजित्तनयस्तस्य विश्वजित्तस्य चात्मजः ।। १९ ।।
पुत्रो विश्वजितश्चापि सेनजित्पृथिवीपतिः ।
पुत्राः सेनजितश्चासंश्चत्वारो लोकविश्रुताः ।। 1.20.२० ।।
रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च ।
वत्सश्चावन्तको राजा यस्यैते परिवत्सकाः ।। २१।।
रुचिरस्य तु दायादः पृथुसेनो महायशाः ।
पृथुसेनस्य पारस्तु पारान्नीपस्तु जज्ञिवान् ।। २२ ।।
नीपस्यैकशतं तात पुत्राणाममितौजसाम्।
महारथानां राजेन्द्र शूराणां बाहुशालिनाम्।
नीपा इति समाख्याता राजानः सर्व एव ते ।। २३ ।।
तेषां वंशकरो राजा नीपानां कीर्तिवर्द्धनः ।
काम्पिल्ये समरो नाम सचेष्टसमरोऽभवत् ।। २४ ।।
समरस्य परः पारः सदश्व इति ते त्रयः ।
पुत्राः परमधर्मज्ञाः परपुत्रः पृथुर्बभौ ।। २५ ।।
पृथोस्तु सुकृतो नाम सुकृतेनेह कर्मणा ।
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः ।। २६ ।।
विभ्राजस्य तु पुत्रोऽभूदणुहो नाम पार्थिवः ।
बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः ।। २७ ।।
पुत्रोऽणुहस्य राजर्षिर्ब्रह्मदत्तोऽभवत् प्रभुः ।
योगात्मा तस्य तनयो विष्वक्सेनः परंतपः ।। २८ ।।
विभ्राजः पुनरायातः स्वकृतेनेह कर्मणा ।
ब्रह्मदत्तस्य पुत्रोऽन्यः सर्वसेन इति श्रुतः ।। २९ ।।
चक्षुषी तस्य निर्भिन्ने पक्षिण्या पूजनीयया ।
सुचिरोषितया राजन् ब्रक्षदत्तस्य वेश्मनि ।। 1.20.३० ।।
अथास्य पुत्रस्त्वपरो ब्रह्मदत्तस्य जज्ञिवान् ।
विष्वक्सेन इति ख्यातो महाबलपराक्रमः ।। ३१
विश्वक्सेनस्य पुत्रोऽभूद् दण्डसेनो महीपतिः ।
भल्लाटोऽस्य कुमारोऽभूद् राधेयेन हतः पुरा ।। ३२ ।।
दण्डसेनात्मजः शूरो महात्मा कुलवर्द्धनः ।
भल्लाटपुत्रो द्रुर्वुद्धिरभवच्च युधिष्ठिर ।। ३३ ।।
स तेषामभवद् राजा नीपानामन्तकृन्नृप ।
तेन उग्रायुधस्यार्थे सर्वे नीपा विनाशिताः । ३४ ।।
उग्रायुधो मदोत्सिक्तो मया विनिहतो युधि ।
दर्पान्वितो दर्परुचिः सततं चानये रतः ।। ३५ ।।
युधिष्ठिर उवाच
उग्रायुधः कस्य सुतः कस्मिन्वंशेऽथ जज्ञिवान् ।
किमर्थं चैव भवता निहतस्तद् ब्रवीहि मे।। ३६ ।।
भीष्म उवाच
अजमीढस्य दायादो विद्वान् राजा यवीनरः ।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः ।। ३७ ।।
जज्ञे सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ।
दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः ।। ३८ ।।
आसीत् सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः ।
सार्वभौम इति ख्यातः पृथिव्यामेकराड् विभुः ।। ३९ ।।
तस्यान्ववाये महति महान् पौरवनन्दनः ।
महतश्चापि पुत्रस्तु राजा रुक्मरथः स्मृतः ।। 1.20.४० ।।
पुत्रो रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः ।
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः ।। ४१ ।।
सुमतेरपि धर्मात्मा संनतिर्नाम वीर्यवान् ।
तस्य वै संनतेः पुत्रः कृतो नाम महाबलः ।। ४२ ।।
शिष्यो हिरण्यनाभस्य कौशलस्य महात्मनः ।
चतुर्विंशतिधा तेन सप्राच्याः सामसंहिताः ।। ४३ ।।
स्मृतास्ते प्राच्यसामानः कार्तयो नाम सामगाः ।
कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः ।। ४४ ।।
बभूव येन विक्रम्य पृषतस्य पितामहः ।
नीपो नाम महातेजाः पञ्चालाधिपतिर्हतः ।। ४५ ।।
उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः ।
क्षेम्यात् सुवीरो नृपतिः सुवीरात्तु नृपंजयः ।। ४६ ।।
नृपंजयाद् बहुरथ इत्येते पौरवाः स्मृताः ।
स चाप्युग्रायुधस्तात दुर्बुद्धिरभवत् तदा ।। ४७ ।।
प्रवृद्धचक्रो वलवान् नीपान्तकरणो महान् ।
सदर्पपूर्णो हत्वाऽऽजौ नीपानन्यांश्च पार्थिवान् ।। ४८ ।।
पितर्युपरते मह्यं श्रावयामास किल्बिषम्।
माममात्यैः परिवृतं शयानं धरणीतले ।। ४९ ।।
उग्रायुधस्य राजेन्द्र दूतोऽभ्येत्य वचोऽब्रवीत् ।
अद्य त्वं जननीं भीष्म गन्धकालीं यशस्विनीम् ।
स्त्रीरत्नं मय भार्यार्थे प्रयच्छ कुरुपुङ्गव ।। 1.20.५० ।।
एवं राज्यं च ते स्फीतं धनानि च न संशयः ।
प्रदास्यामि यथाकाममहं वै रत्नभाग् भुवि ।। ५१ ।।
मम प्रज्वलितं चक्रं निशम्येदं सुदुर्जयम् ।
शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत ।। ५२ ।।
राष्ट्रस्येच्छसि चेत्स्वस्ति प्राणानां वा कुलस्य वा।
शासने मम तिष्ठस्व न हि ते शान्तिरन्यथा ।। ५३ ।।
अधः प्रस्तारशयने शयानस्तेन चोदितः ।
दूतान्तर्हितमेतद् वै वाक्यमग्निशिखोपमम् ।। ५४ ।।
ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत ।
आज्ञापयं वै संग्रामे सेनाध्यक्षांश्च सर्वशः ।।५५ ।।
विचित्रवीर्यं बालं च मदुपाश्रयमेव च ।
दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनो दधे ।। ५६ ।।
निगृहीतस्तदाहं तैः सचिवैर्मन्त्रकोविदैः ।
ऋत्विग्भिर्वेदकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः ।। ५७ ।
स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्तने ।
कारणं भावितश्चास्मि युक्तरूपं तदानघ ।। ५८ ।।
मन्त्रिण ऊचुः
प्रवृत्तचक्रः पापोऽसौ त्वं चाशौचगतः प्रभो ।
न चैष प्रथमः कल्पो युद्धं नाम कदाचन ।। ५९ ।।
ते वयं सामपूर्वं वै दानं भेदं तथैव च ।
प्रयोक्ष्यामस्ततः शुद्धो दैवतान्यभिवाद्य च ।। 1.20.६० ।।
कृतस्वस्त्ययनो विप्रैर्वह्नीन्सम्पूज्य च द्विजान् ।
ब्राह्मणैरभ्यनुज्ञातः प्रयास्यसि जयाय वै ।। ६१ ।।
अस्त्राणि न प्रयोज्यानि न प्रवेश्यश्च संगरः ।
अशौचे वर्तमाने तु वृद्धानामिति शासनम् ।। ६२ ।।
सामदानादिभिः पूर्वमपि भेदेन वा ततः ।
तं हनिष्यसि विक्रम्य शम्बरं मघवानिव ।। ६३ ।।
प्राज्ञानां वचनं काले वृद्धानां च विशेषतः ।
श्रोतव्यमिति तच्छ्रुत्वा निवृत्तोऽस्मि नराधिप ।। ६४ ।।
ततस्तैः संक्रमः सर्वैः प्रयुक्तः शास्त्रकोविदैः ।
तस्मिन् काले कुरुश्रेष्ठ कर्म चारब्धमुत्तमम् ।। ६५ ।।
स सामादिभिरेवादावुपायैः प्राप्तचिन्तितैः ।
अनुनीयमानो दुर्बुद्धिरनुनेतुं न शक्यते ।। ६६ ।।
प्रवृत्तं तस्य तच्चक्रमधर्मनिरतस्य वै ।
परदाराभिलाषेण सद्यस्तात निवर्तितम् ।। ६७ ।।
न त्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम् ।
हतं स्वकर्मणा तं तु पूर्वं सद्भिश्च निन्दितम् ।। ६८ ।।
कृतशौचः शरी चापी रथौ निष्क्रम्य वै पुरात् ।
कृतस्वस्त्ययनो विप्रैः प्रायोधयमहं रिपुम् ।। ६९ ।।
ततः संसर्गमागम्य बलेनास्त्रबलेन च ।
त्र्यहमुन्मत्तवद् युद्धं देवासुरमिवाभवत् ।। 1.20.७० ।।
स मयास्त्रप्रतापेन निर्दग्धो रणमूर्धनि ।
पपाताभिमुखः शूरस्त्यक्त्वा प्राणानरिंदम ।। ७१ ।।
एतस्मिन्नन्तरे तात काम्पिल्ये पृषतोऽभ्ययात् ।
हते नीपेष्वरे चैव हते चोग्रायुधे नृपे ।। ७२ ।।
आहिच्छत्रं स्वकं राज्यं पित्र्यं प्राप महाद्युतिः ।
द्रुपदस्य पिता राजन् ममैवानुमते तदा ।। ७३ ।।
ततोऽर्जुनेन तरसा निर्जित्य द्रुपदं रणे ।
आहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम् ।। ७४ ।।
प्रतिगृह्य ततो द्रोण उभयं जयतां वरः ।
काम्पिल्यं द्रुपदायैव प्रायच्छद् विदितं तव ।। ७५ ।।
एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह ।
वंशः कार्त्स्न्येन वै प्रोक्तो नीपस्योग्रायुधस्य च ।। ७६ ।।
युधिष्ठिर उवाच
किमर्थं ब्रह्मदत्तस्य पूजनीया शकुन्तिका ।
अन्धं चकार गाङ्गेय ज्येष्ठं पुत्रं पुरा विभो ।। ७७ ।।
चिरोषिता गृहे चापि किमर्थं चैव यस्य सा ।
चकार विप्रियमिदं तस्य राज्ञो महात्मनः ।। ७८ ।।
पूजनीया चकारासौ किं सख्यं तेन चैव ह ।
एतन्मे संशयं छिन्धि सर्वमुक्त्वा यथातथम् ।। ७९ ।।
भीष्म् उवाच
शृणु सर्वं महाराज यथावृत्तमभूत् पुरा ।
ब्रह्मदत्तस्य भवने तन्निबोध युधिष्ठिर ।। 1.20.८० ।।
काचिच्छकुन्तिका राजन् ब्रह्मदत्तस्य वै सखी ।
शितिपक्षा शोणशिराः शितिपृष्ठा शितोदरी ।। ८१ ।।
सखी सा ब्रह्मदत्तस्य सुदृढं बद्धसौहृदा ।
तस्याः कुलायमभवद् गेहे तस्य नरोत्तम ।। ८२ ।।
सा सदाहनि निर्गत्य तस्य राज्ञो गृहोत्तमात् ।
चचाराम्भोधितीरेषु पल्लवेषु सरस्सु च ।। ८३ ।।ऽ
नदीपर्वतकुञ्जेषु वनेषूपवनेषु च ।
प्रफुल्लेषु तडागेषु कह्लारेषु सुगन्धिषु ।। ८४ ।।
कुमुदोत्पलकिञ्जल्कसुरभीकृतवायुषु ।
हंससारसघुष्टेषु कारण्डवरुतेषु च ।। ८५ ।।
चरित्वा तेषु सा राजन् निशि काम्पिल्यमागमत् ।
नृपतेर्भवनं प्राप्य ब्रह्मदत्तस्य धीमतः ।। ८६ ।।
राज्ञा तेन सदा राजन् कथायोगं चकार सा ।
आश्चर्याणि च दृष्टानि यानि वृत्तानि कानिचित् ।। ८७ ।।
चरित्वा विविधान् देशान् कथयामास सा निशि ।
कदाचित् तस्य नृपतेर्ब्रह्मदत्तस्य कौरव ।। ८८ ।।
पुत्रोऽभूद् राजशार्दूल सर्वसेनेति विश्रुतः ।
पूजनीयाथ सा तस्मिन्प्रासूताण्डमथापि च ।। ८९ ।।
तस्मिन्नीडे पुरा ह्येकं तत्किल प्रास्फुटत् तदा ।
स्फुटितो मांसपिण्डस्तु बाहुपादास्यसंयुतः ।। 1.20.९० ।।
बभ्रुवक्त्रश्चक्षुहीनो बभूव पृथिवीपते ।
चक्षुष्मानप्यभूत् पश्चादीषत्पक्षोत्थितश्च ह ।। ९१ ।।
अथ सा पूजनीया वै राजपुत्रस्वपुत्रयोः ।
मुख्यस्नेहात्प्रीतिमती दिवसे दिवसेऽभवत्।। ९२ ।।
आजहार सदा सायं चञ्च्वामृतफलद्वयम् ।
अमृतास्वादसदृशं सर्वसेनतनूजयोः ।। ९३ ।।
स बालो ब्रह्मदत्तस्य पूजनीयासुतश्च ह ।
ते फले भक्षयित्वा च पृथुकौ प्रीतमानसौ ।। ९४ ।।
अभूतां नित्यमेवेह खादेतां तौ च ते फले ।
तस्यां गतायामथ च पूजन्यां वै सदाहनि ।। ९५ ।।
शिशुना चटकेनाथ धात्री तं तु शिशुं नृप ।
तेन प्रक्रीडयामास ब्रह्मदत्तात्मजं सदा ।। ९६ ।।
नीडात्तमाकृष्य तदा पूजनीयाकृतात्ततः ।
क्रीडता राजपुत्रेण कदाच्चिच्चटकः स तु ।। ९७ ।।
निगृहीतः कन्धरायां शिशुना दृढमुष्टिना ।
दुर्भङ्गमुष्टिना राजन्नसून् सद्यस्त्वजीजहत्।। ९८ ।।
तं तु पञ्चत्वमापन्नं व्यात्तास्यं बालघातितम् ।
कथंचिन्मोचितं दृष्ट्वा नृपतिर्दुःखितोऽभवत् ।। ९९ ।।
धात्रीं तस्य जगर्हे तां तदाश्रुपरमो नृपः ।
तस्थौ शोकान्वितो राजञ्छोचंस्तं चटकं तदा ।। 1.20.१००।।
पूजनीयापि तत्काले गृहीत्वा तु फलद्वयम् ।
ब्रह्मदत्तस्य भवनमाजगाम वनेचरी ।।१०१।।
अथापश्यत्तमागम्य गृहे तस्मिन् नराधिप ।
पञ्चभूतपरित्यक्तं शावं तं स्वतनूद्भवम् ।। १०२।।
मुमोह दृष्ट्वा तं पुत्रं पुनः संज्ञामथालभत् ।
लब्धसंज्ञा च सा राजन् विललाप तपस्विनी ।। १०३।।
पूजनीयोवाच
न तु त्वमागतां पुत्र वाशन्ती परिसर्पसि ।
कुर्वंश्चाटुसहस्राणि अव्यक्तकलया गिरा ।।१०४।।
व्यादितास्यः क्षुधार्तश्च पीतेनास्येन पुत्रक ।
शोणेन तालुना पुत्र कथमद्य न सर्पसि ।।१०५।।
पक्षाभ्यां त्वां परिष्वज्य ननु वाशामि चाप्यहम् ।
चीचीकूचीति वाशन्तं त्वामद्य न शृणोमि किम्।। १०६।।
मनोरथो यस्तु मम पश्येयं पुत्रकं कदा ।
व्यात्तास्यं वारि याचन्तं स्फुरत्पक्षं ममाग्रतः ।।१०७।।
स मे मनोरथो भग्नस्त्वयि पञ्चत्वमागते ।
विलप्यैवं बहुविधं राजानमथ साब्रवीत् ।। १०८।।
ननु मूर्धाभिषिक्तस्त्वं धर्मं वेत्सि सनातनम् ।
अथ कस्मान्मम सुतं धात्र्या घातितवानसि ।।१०९।।
तव पुत्रेण चाकृष्य क्षत्रियाधम शंस मे ।
न च नूनं श्रुता तेऽभूदियमाङ्गिरसी श्रुतिः ।।1.20.११०।।
शरणागतः क्षुधार्तश्च शत्रुभिश्चाप्युपद्रुतः ।
चिरोषितश्च स्वगृहे पातव्यः सर्वदा भवेत् ।।१११।।
अपालयन्नरो याति कुम्भीपाकमसंशयम् ।
कथमस्य हविर्देवा गृह्णन्ति पितरः स्वधाम् ।।११२।।
एवमुक्त्वा महाराज दशधर्मगता सती। -हंसं, -ऽ, अं-,
शोकार्ता तस्य बालस्य चक्षुषी निर्बिभेद सा ।।११३।।
कराभ्यां राजपुत्रस्य ततस्तच्चक्षुरस्फुटत्।
कृत्वा चान्धं चृपसुतमुत्पपात ततोऽम्बरम्।।११४।।
अथ राजा सुतं दृष्ट्वा पूजनीयामुवाच ह ।
विशोका भव कल्याणि कृतं ते भीरु शोभनम्।। ११५।।
गतशोका निवर्तस्व अजर्यं सख्यमस्तु ते ।
पुरेव वस भद्रं ते निवर्तस्व रमस्व च ।। ११६।।
पुत्रपीडोद्भवश्चापि न कोपः परमस्त्वयि ।
ममास्ति सखि भद्रं ते कर्तव्यं च कृतं त्वया ।। ११७।।
पूजनीयोवाच
आत्मौपम्येन जानामि पुत्रस्नेहं तवाप्यहम् ।
न चाहं वस्तुमिच्छामि तव पुत्रमचक्षुषम् ।
कृत्वा वै राजशार्दूल त्वद् गृहे कृतकिल्बिषा ।। ११८।।
गाथाश्चाप्युशनोगीता इमाः शृणु मयेरिताः ।
कुमित्रं च कुदेशं च कुराजानं कुसौहृदम्।
कुपुत्रं च कुभार्यां च दूरतः परिवर्जयेत्।।११९।।
कुमित्रे सौहृदं नास्ति कुभार्यायां कुतो रतिः ।
कुतः पिण्डः कुपुत्रे वै नास्ति सत्यं कुराजनि ।। 1.20.१२० ।।
कुसौहृदे क विश्वासः कुदेशे न तु जीव्यते ।
कुराजनि भयं नित्यं कुपुत्रे सर्वतोऽसुखम्।।१२१।।
अपकारिणि विस्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ।।१२२।।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद् भयमुत्पन्नं मूलान्यपि निकृन्तति ।। १२३ ।।
राजसेविषु विश्वासं गर्भसंकरितेषु च ।
यः करोति नरो मूढो न चिरं स तु जीवति ।। १२४।।
अप्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
स विनश्यत्यसंदेहमाहैवमुशना नृप ।।१२५।।
अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
अरिं नाशयते नित्यं यथा वल्लिर्महाद्रुमम् ।।१२६।।
मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
वल्मीक इव वृक्षस्य पश्चान्मूलानि कृन्तति ।। १२७।।
अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः ।
जघान नमुचिं पश्चादपां फेनेन पार्थिव ।।१२८।।
सुप्तं मत्तं प्रमत्तं वा घातयन्ति रिपुं नराः ।
विषेण वह्निना वापि शस्त्रेणाप्यथ मायया ।। १२९।।
न च शेषं प्रकुर्वन्ति पुनर्वैरभयान्नरा ।
घातयन्ति समूलं हि श्रुत्वेमामुपमां नृप ।।1.20.१३०।।
शत्रुशेषमृणाच्छेषं शेषमग्नेश्च भूमिप ।
पुनर्वर्धेत सम्भूय तस्माच्छेषं न शेषयेत्।।१३१।।
हसते जल्पते वैरी एकपात्रे भुनक्ति च ।
एकासनं चारोहति स्मरते तच्च किल्बिषम् ।।१३२।।
कृत्वा सम्बन्धकं चापि विश्वसेच्छत्रुणा न हि ।
पुलोमानं जघानाजौ जामाता सञ्शतक्रतुः ।। १३३।।
निधाय मनसा वैरं प्रियं वक्तीह यो नरः ।
उपसर्पेन्न तं प्राज्ञः कुरङ्ग इव लुब्धकम् ।। १३४।।
न चासन्ने निवस्तव्यं सवैरे वर्धिते रिपौ ।
पातयेत् तं समूलं हि नदीरय इव द्रुमम् ।। १३५।।
अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
तस्मात् प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः ।। १३६।।
इत्येता ह्युशनोगीता गाथा धार्या विपश्चिता ।
कुर्वता चात्मरक्षां वै नरेण पृथिवीपते ।। १३७।।
मया सकिल्बिषं तुभ्यं प्रयुक्तमतिदारुणम्।
पुत्रमन्धं प्रकुर्वन्त्या तस्मान्नो विश्वसे त्वयि ।। १३८।।
एवमुक्त्वा प्रदुद्राव तदाऽऽकाशं पतङ्गिनी ।
इत्येतत् ते मयाख्यातं पुराभूतमिदं नृप ।।१३९।।
ब्रह्मदत्तस्य राजेन्द्र यद् वृत्तं पूजनीयया ।
श्राद्धं च पृच्छसे यन्मां युधिष्ठिर महामते ।। 1.20.१४०।।
अतस्ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ।।१४१।।
श्राद्धस्य फलमुद्दिश्य नियतं सुकृतस्य च ।
तन्निबोध महाराज सप्तजातिषु भारत ।।१४२।।
सगालवस्य चरितं कण्डरीकस्य चैव हि ।
ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम् ।।१४३।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पूजनीयोपाख्याने चटकाख्यानं नाम विंशोऽध्यायः ।। २०।।