हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः २१

← अध्यायः २० हरिवंशपुराणम्
अध्यायः २१
वेदव्यासः
अध्यायः २२ →
पितृकल्पः - मार्कण्डेयेन श्राद्धस्य महिमा वर्णनं, श्राद्धफलेन कौशिकपुत्रेभ्यः उत्तमजन्मप्राप्तिः

एकविंशोऽध्यायः

मार्कण्डेय उवाच
श्राद्धे प्रतिष्ठितो लोकः श्राद्धे योगः प्रवर्तते ।
हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम् ।। १ ।।
ब्रह्मदत्तेन यत् प्राप्तं सप्तजातिषु भारत ।
त एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः ।। २ ।।
पीडयाप्यथ धर्मस्य कृते श्राद्धे परानघ ।
यत् प्राप्तं ब्राह्मणैः पूर्वं तन्निबोध महामते ।। ३ ।।
ततोऽहं तानधर्मिष्ठान् कुरुक्षेत्रे पितृव्रतान् ।
सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान् ।। ४ ।।
दिव्येन चक्षुषा तेन यानुवाच पुरा विभुः ।
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।
खसृमः पितृवर्ती च नामभिः कर्मभिस्तथा ।। ५ ।।

कौशिकपुत्राः वाग्दुष्ट क्रोधनः हिंस्रः पिशुनः कविः खसृमः पितृवर्ती
व्याधजन्म निर्वैरो निर्वृतिः शान्तः निर्मन्युः कृतिः वैधसः मातृवर्ती
मृगजन्म उन्मुखः नित्यवित्रस्तः स्तब्धकर्णः विलोचनः पण्डितः घस्मरः नादी
शकुनजन्म निस्पृहः निर्ममः शान्तः निर्द्व्न्द्वः निष्परिग्रहः निर्वृत्ति निर्भृत
हंसजन्म सुमना शुचिवाक् शुद्धः पञ्चमः छिद्रदर्शनः सुनेत्र स्वतन्त्र
x x x x पाञ्चिकः कण्डरीकः ब्रह्मदत्त

मार्कण्डेय उवाच
कौशिकस्य सुतास्तात शिष्या गार्ग्यस्य भारत ।
पितर्युपरते सर्वे व्रतवन्तस्तदाभवन् ।। ६ ।।
विनियोगाद् गुरोस्तस्य गां दोग्ध्रीं समकालयन्।
समानवत्सां कपिलां सर्वे न्यायागतां तदा ।। ७ ।।
तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।
क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा ।। ८ ।।
तान् कविः खसृमश्चैव याचेते नेति वै तदा ।
न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः ।। ९ ।।
पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।
स सर्वानब्रवीद् भ्रातॄन् कोपाद्धर्मे समाहितः ।। 1.21.१० ।।
यद्यवश्यं प्रहन्तव्या पितॄनुद्दिश्य साध्विमाम् ।
प्रकुर्वीमहि गां सम्यक् सर्व एव समाहिताः ।। ११ ।।
एवमेषापि गौर्धर्मे प्राप्स्यते नात्र संशयः ।
पितॄनभ्यर्च्य धर्मेण नाधर्मोऽस्मान् भविष्यति ।।१२ ।।
तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः ।
पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत ।। १३ ।।
उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।
शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति ।। १४ ।।
आर्जवात् स तु तं वत्सं प्रतिजग्राह वै द्विजः ।
मिथ्योपचर्य ते तं तु गुरुमन्यायतो द्विजाः ।
कालेन समयुज्यन्त सर्व एवायुषः क्षये ।। १५ ।।
ते वै क्रूरतया हिंस्रा अनार्यत्वाद् गुरौ तथा ।
उग्रा हिंसाविहाराश्च सप्ताजायन्त सोदराः ।। १६ ।।
लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः ।
पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा ।। १७ ।।
स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् ।
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ।। १८ ।।
स्वकर्मनिरताः सर्वे लोभानृतविवर्जिताः ।
तावन्मात्रं प्रकुर्वन्ति यावता प्राणधारणम् ।। १९ ।।
शेषं ध्यानपराः कालमनुध्यायन्ति कर्म तत्।
नामधेयानि चाप्येषामिमान्यासन्नराधिप ।। 1.21.२० ।।
निर्वैरो निर्वृतिः शान्तो निर्मन्युः कृतिरेव च ।
वैधसो मातृवर्ती च व्याधाः परमधार्मिकाः ।। २१ ।।
तैरवमुषितैस्तात हिंसाधर्मरतैः सदा ।
माता च पूजिता वृद्धा पिता च परितोषितः ।। २२ ।।
यदा माता पिता चैव संयुक्तौ कालधर्मणा ।
तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन् ।। २३ ।।
शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः ।
त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ ।। २४ ।।
उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः ।
पण्डितो घस्मरो नादी नामतस्तेऽभवन् मृगाः ।। २५ ।।
तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम् ।
आसन् वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ।। २६ ।।
ते सर्वे शुभकर्माणः सधर्माणो वनेचराः ।
योगधर्ममनुप्राप्ता विहरन्ति स्म तत्र ह ।। २७ ।।
जहुः प्राणान्मरुं साध्य लघ्वाहारास्तपस्विनः ।
तेषां मरुं साधयतां पदस्थानानि भारत ।
तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप ।। २८ ।।
कर्मणा तेन ते तात शुभेनाशुभवर्जिताः ।
शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः ।। २९ ।।
शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ।
त्यक्त्वा सहचरीधर्मं मुनयो ब्रह्मचारिणः ।। 1.21.३० ।।
निःस्पृहो निर्ममः क्षान्तो निर्द्वन्द्वो निष्परिग्रहः ।
निर्वृत्तिर्निभृतश्चैव शकुना नामतः स्मृताः ।। ३१ ।।
ते तत्र पक्षिणः सर्वे शकुना धर्मचारिणः ।
निराहारा जहुः प्राणांस्तपोयुक्ताः सरित्तटे।।३२।।
अथ ते सोदरा जाता हंसा मानसचारिणः ।
जातिस्मराः सुसंयुक्ताः सप्तैव ब्रह्मचारिणः ।। ३३ ।।
विप्रयोनौ यतो मोहान्मिथ्योपचरितो गुरुः ।
तिर्यग्योनौ ततो जाताः संसारे परिबभ्रमुः ।। ३४ ।।
यतश्च पितृवाक्यार्थः कृतः स्वार्थे व्यवस्थितैः ।
ततो ज्ञानं च जातिं च ते हि प्रापुर्गुणोत्तराम् ।। ३५ ।।
सुमनाः शुचिवाक्छुद्धः पञ्चमश्छिद्रदर्शनः ।
सुनेत्रश्च स्वतन्त्रश्च शकुना नामतः स्मृताः ।। ३६ ।।
पञ्चमः पाञ्चिकस्तत्र सप्तजातिष्वजायत ।
षष्ठस्तु कण्डरीकोऽभूद् ब्रह्मदत्तस्तु सप्तमः ।। ३७ ।।
तेषां तु तपसा तेन सप्तजातिकृतेन वै ।
योगस्य चापि निर्वृत्या प्रतिभानाच्च शोभनात् ।। ३८ ।।
पूर्वजातिषु यद् ब्रह्म श्रुतं गुरुकुलेषु वै ।
तथैवावस्थिता बुद्धिः संसारेष्वपि वर्तताम् ।। ३९ ।।
ते ब्रह्मचारिणः सर्वे विहङ्गा ब्रह्मवादिनः ।
योगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह ।।1.21.४० ।।
तेषां तत्र विहङ्गानां चरतां सहचारिणाम् ।
नीपानामीश्वरो राजा विभ्राजः पौरवान्वयः ।। ४१ ।।
विभ्राजमानो वपुषा प्रभावेन समन्वितः ।
श्रीमानन्तःपुरवृतो वनं तत्प्रविवेश ह ।। ४२ ।।
स्वतन्त्रश्च विहङ्गोऽसौ स्पृहयामास तं नृपम् ।
दृष्ट्वाऽऽयान्तं श्रियोपेतं भवेयमहमीदृशः ।। ४३ ।।
यद्यस्ति सुकृतं किञ्चित्तपो वा नियमोऽपि वा ।
खिन्नोऽऽस्मि ह्युपवासेन तपसा निष्फलेन च ।। ४४ ।।
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे एकविंशोऽध्यायः ।। २१ ।।