प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २५ हरिवंशपुराणम्
अध्यायः २६
वेदव्यासः
अध्यायः २७ →
पुरूरवसः चरित्र एवं वंश वर्णनम्, राज्ञा पुरूरवसेन त्रेताग्नेः सर्जनम्, गन्धर्वाणां लोकप्राप्तिः।

षडविंशोऽध्यायः

वैशम्पायन उवाच
बुधस्य तु महाराज विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ।। १ ।।
ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।
आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ।। २ ।।
सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः ।
अतीव त्रिषु लोकेषु यशसाप्रतिमस्तदा ।। ३ ।।
तं ब्रह्मवादिनं क्षान्तं धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयामास हित्वा मानं यशस्विनी ।। ४ ।।
तया सहावसद् राजा वर्षाणि दश पञ्च च ।
पञ्च षट्सप्त चाष्टौ च दश चाष्टौ च भारत ।। ५ ।।
वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे ।। ६ ।।
उत्तरान् स कुरून् प्राप्य मनोरथफलद्रुमान् ।
गन्धमादनपादेषु मेरुपृष्ठे तथोत्तरे ।। ७ ।।
एतेषु वनमुख्येषु सुरैराचरितेषु च ।
उर्वश्या सहितो राजा रेमे परमया मुदा ।।८ ।।
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।
राज्यं च कारयामास प्रयागं पृथिवीपतिः ।। ९ ।।
तस्य पुत्रा बभूवुस्ते सप्त देवसुतोपमाः ।
दिवि जाता महात्मान आयुर्धीमानमावसुः ।। 1.26.१० ।।
विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ।। ११ ।।
जनमेजय उवाच
गान्धर्वी चोर्वशी देवी राजानं मानुषं कथम् ।
देवानुत्सृज्य सम्प्राप्ता तन्नो ब्रूहि बहुश्रुत ।। १२ ।।
वैशम्पायन उवाच
ब्रह्मशापाभिभूता सा मानुषं समपद्यत ।
ऐलं तु सा वरारोहा समयात्समुपस्थिता ।। १३ ।।
आत्मनः शापमोक्षार्थं समयं सा चकार ह ।
अनग्नदर्शनं चैव सकामायां च मैथुनम् ।। १४ ।।
द्वौ मेषौ शयनाभ्याशे सदा बद्धौ च तिष्ठतः ।
घृतमात्रो तथाऽऽहारः कालमेकं तु पार्थिव ।। १५ ।।
यद्येष समयो राजन् यावत्कालं च ते दृढः ।
तावत्कालं तु वत्स्यामि त्वत्तः समय एष नः ।। १६ ।।
तस्यास्तं समयं सर्वं स राजा समपालयत् ।
एवं सा वसते तत्र पुरूरवसि भामिनी ।। १७ ।।
बर्षाण्येकोनषष्टिस्तु तत्सक्ता शापमोहिता ।
उर्वश्यां मानुषस्थायां गन्धर्वाश्चिन्तयान्विताः ।। १८ ।।
गन्धर्वा ऊचुः
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।
समागच्छेत् पुनर्देवानुर्वशी स्वर्गभूषणम् ।। १९ ।।
ततो विश्वावसुर्नाम तत्राह वदतां वरः ।
मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा ।। 1.26.२० ।।
व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा।
तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः ।। २१ ।।
ससहायो गमिष्यामि युष्माकं कार्यसिद्धये ।
एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ।। २२ ।।
निशायामथ चागम्य मेषमेकं जहार सः ।
मातृवद् वर्तते सा तु मेषयोश्चारुहासिनी ।। २३ ।।
गन्धर्वागमनं श्रुत्वा शापान्तं च यशस्विनी ।
राजानमब्रवीत् तत्र पुत्रो मेऽह्रियतेति सा ।। २४ ।।
एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।
नग्नं मां द्रक्ष्यते देवी समयो वितथो भवेत् ।। २५ ।।
ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः ।
द्वितीये तु हृते मेषे ऐलं देव्यब्रवीदिदम् ।। २६ ।।
पुत्रो मेऽपहृतो राजन्ननाथाया इव प्रभो ।
एवमुक्तस्तथोत्थाय नग्नो राजा प्रधावितः ।। २७ ।।
मेषयोः पदमन्विच्छन् गन्धर्वैर्विद्युदप्यथ ।
उत्पादिता सुमहती ययौ तद्भवनं महत् ।। २८ ।।
प्रकाशितं वै सहसा ततो नग्नमवैक्षत ।
नग्नं दृष्ट्वा तिरोभूता साप्सरा कामरूपिणी ।। २९ ।।
उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतो गृहे ।
अपश्यन्नुर्वशीं तत्र विललाप सुदुःखितः .।। 1.26.३० ।।
चचार पृथिवीं सर्वां मार्गमाण इतस्ततः ।
अथापश्यत् स तां राजा कुरुक्षेत्रे महाबलः ।। ३१ ।।
प्लक्षतीर्थे पुष्करिण्यां हैमवत्यां समाप्लुताम् ।
क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ।। ३२ ।।
तां क्रीडन्तीं ततो दृष्ट्वा विललाप सुदुःखितः ।
सा चापि तत्र तं दृष्ट्वा राजानमविदूरतः ।। २३ ।।
उर्वशी ताः सखीः प्राह स एष पुरुषोत्तमः ।
यस्मिन्नहमवात्सं वै दर्शयामास तं नृपम् ।। ३४ ।।
समाविग्नास्तु ताः सर्वाः पुनरेव नराधिपः ।
जाये ह तिष्ठ मनसा घोरे वचसि तिष्ठ ह ।। ३५ ।।
एवमादीनि सूक्तानि परस्परमभाषत ।
उर्वशी चाब्रवीदैलं सगर्भाहं त्वया प्रभो ।। ३६ ।।
संवत्सरात् कुमारास्ते भविष्यन्ति न संशयः ।
निशामेकां च नृपते निवत्स्यसि मया सह ।। ३७ ।।
हृष्टो जगाम राजाथ स्वपुरं तु महायशाः ।
गते संवत्सरे भूय उर्वशी पुनरागमत् ।। ३८ ।।
उषितश्च तया सार्द्धमेकरात्रं महायशाः ।
उर्वश्यथाब्रवीदैलं गन्धर्वा वरदास्तव ।। ३९ ।।
तान् वृणीष्व महाराज ब्रूहि चैनांस्त्वमेव हि ।
वृणीष्व समतां राजन् गन्धर्वाणां महात्मनाम् ।। 1.26.४० ।।
तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ।
पूरयित्वाग्निना स्थालीं गन्धर्वाश्च तमब्रुवन् ।। ४१ ।।
अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप ।
तानादाय कुमारांस्तु नगरायोपचक्रमे ।। ४२ ।।
निक्षिप्याग्निमरण्ये तु सपुत्रस्तु गृहं ययौ ।
स त्रेताग्निं तु नापश्यदश्वत्थं तत्र दृष्टवान् ।। ४३ ।।
शमीजातं तु तं दृष्ट्वा अश्वत्थं विस्मितस्तदा ।
गन्धर्वेभ्यस्तदाशंसदग्निनाशं ततस्तु सः ।। ४४ ।।
श्रुत्वा तमर्थमखिलमरणीं तु समादिशन् ।
अश्वत्थादरणीं कृत्वा मथित्वाग्निं यथाविधि ।। ४५ ।।
मथित्वाग्निं त्रिधा कृत्वा अयजत्स नराधिपः ।
इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम् ।। ४६ ।।
गन्धर्वेभ्यो वरं लब्ध्वा त्रेताग्निं समकारयत् ।
एकोऽग्निः पूर्वमेवासीदैलस्त्रेतामकारयत् ।। ४७ ।।
एवंप्रभावो राजासीदैलस्तु नरसत्तम ।
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।। ४८ ।।
राज्यं स कारयामास प्रयागे पृथिवीपतिः ।
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः ।। ४९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि ऐलोत्पत्तिर्नाम षड्विंशोऽध्यायः ।। २६ ।।