हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः २७

← अध्यायः २६ हरिवंशपुराणम्
अध्यायः २७
वेदव्यासः
अध्यायः २८ →
पुरूरवसः द्वितीयपुत्रस्य अमावसोः वंशवर्णनम्, विश्वामित्रस्य एवं परशुरामस्य उत्पत्तिः

सप्तविंशोऽध्यायः

वैशम्पायन उवाच
ऐलपुत्रा बभूवुस्ते सर्वे देवसुतोपमाः ।
दिवि जाता महात्मान आयुर्धीमानमावसुः ।। १ ।।
विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ।। २ ।।
अमावसोश्च दायादो भीमो राजाथ नग्नजित्।
श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ।
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ।। ३ ।।
सौहोत्रिरभवज्जह्नुः केशिन्या गर्भसम्भवः ।
आजह्रे यो महत्सत्रं सर्वमेधमहामखम् ।। ४ ।।
पतिलोभेन यं गङ्गा पतित्वेऽभिससार ह ।
नेच्छतः प्लावयामास तस्य गङ्गां च तत्सदः ।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ।। ५ ।।
सौहित्रिरब्रवीद् गङ्गां क्रुद्धो भरतसत्तम ।। ६ ।।
एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ।
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ।। ७ ।।
राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा महर्षयः ।
उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम्।।८।।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत्।
युवनाश्वस्य शापेन गङ्गार्धेन विनिर्ममे ।
कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ।। ९ ।।
जह्नुस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् ।
कावेर्यां जनयामास अजकस्तस्य चात्मजः ।। 1.27.१० ।।
अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत् ।। ११ ।।
कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः ।
कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा ।। १२ ।।
पह्लवैः सह संवृद्धिं राजा वनचरैस्तदा ।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम्।
लभेयमिति तं शक्रस्त्रासादभ्येत्य जक्षिवान् ।। १३ ।।
पूर्णे वर्षसहस्रे वै तं तु शक्रो ह्यपश्यत ।
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरंदरः ।। १४ ।।
समर्थः पुत्रजनने स्वमेवांशमवासयत्।
पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ।। १५ ।।
स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्।
पौरुकुत्स्यभवद् भार्या गाधिस्तस्यामजायत ।। १६ ।।
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ।
तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः ।। १७ ।।
तस्याः प्रीतोऽभवद् भर्ता भार्गवो भृगुनन्दनः ।
पुत्रार्थं कारयामास चरुं गाधेस्तथैव च ।। १८ ।।
उवाचाहूय तां भर्ता ऋचीको भार्गवस्तदा ।
उपयोज्यश्चरुरयं त्वया मात्रा त्वयं तव ।। १९ ।।
तस्यां जनिष्यते पुत्रो दीप्तिमान् क्षत्रियर्षभः ।
अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ।। 1.27.२० ।।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोनिधिम्।
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ।। २१ ।।
एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ।
तपस्यभिरतो नित्यमरण्यं प्रविवेश ह ।। २२ ।।
गाधिः सदारस्तु तदा ऋचीकावासमभ्यगात्।
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं जनेश्वरः ।। २३ ।।
चरुद्वयं गृहीत्वा तद्ऋषेः सत्यवती तदा ।
चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् ।।२४ ।।
माता व्यत्यस्य दैवेन दुहित्रे स्वं चरुं ददौ ।
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ।। २५ ।।
अथ सत्यवती गर्भे क्षत्रियान्तकरं तदा ।
धारयामास दीप्तेन वपुषा घोरदर्शनम् ।। २६ ।।
तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च ।
तामब्रवीद् द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ।। २७ ।।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ।
जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः ।। २८ ।।
भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ।
विश्वं हि ब्रह्म तपसा मया तस्मिन्समर्पितम् ।। २९ ।।
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।
प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् ।
ब्राह्मणापसदस्तत्र इत्युक्तो मुनिरब्रवीत् ।। 1.27.३० ।।
नैष संकल्पितः कामो मया भद्रे तथास्त्विति ।
उग्रकर्मा भवेत् पुत्रः पितुर्मातुश्च कारणात्।
पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम् ।। ३१ ।।
इच्छँलोकानपि मुने सृजेथाः किं पुनः सुतम्।
शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि ।। ३२ ।।
काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ।
यद्यन्यथा न शक्यं वै कर्तुमेतद् द्विजोत्तम ।। ३३ ।।
ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ।
भद्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रं भविष्यति ।। ३४ ।।
ततः सत्यवती पुत्रं जनयामास भार्गवम्।
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम् ।। ३५ ।।
भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।
यजनाद् वैष्णवेऽथांशे जमदग्निरजायत ।। ३६ ।।
सा हि सत्यवती पुण्या सत्यधर्मपरायणा ।
कौशिकीति समाख्याता प्रवृत्तेयं महानदी ।। ३७ ।।
इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ।
तस्य कन्या महाभागा कामली नाम रेणुका ।। ३८ ।।
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ।
आर्चीको जनयामास जामदग्न्यं सुदारुणम् ।। ३९ ।।
सर्वविद्यानुगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम् ।। 1.27.४० ।।
और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ।
जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ।। ४१ ।।
मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः ।
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।। ४२ ।।
जनयामास पुत्रं तु तपोविद्याशमात्मकम् ।
प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः ।। ४३ ।।
विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
जज्ञे भृगुप्रसादेन कौशिकाद् वंशवर्धनः ।। ४४ ।।
विश्वामित्रस्य च सुता देवरातादयः स्मृताः ।
प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु ।। ४५ ।।
देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ।
शालावत्यां हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान् ।। ४६ ।।
सांकृतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः ।
मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः ।। ४७ ।।
कच्छपो हारितश्चैव विश्वामित्रस्य वै सुताः ।
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ।।४८।।
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ।
पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः ।। ४९ ।।
लोहिता यामदूताश्च तथा कारीषवः स्मृताः ।
सौश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः ।। 1.27.५०।।
देवला रेणवश्चैव याज्ञवल्क्याघमर्षणाः ।
औदुम्बरा ह्यभिष्णातास्तारकायनचुञ्चुलाः ।। ५१ ।।
शालावत्या हिरण्याक्षाः सांकृत्या गालवास्तथा ।
बादरायणिनश्चान्ये विश्वामित्रस्य धीमतः ।। ५२ ।।
ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः ।
पौरवस्य महाराज ब्रह्मर्षेः कौशिकस्य च ।
सम्बन्धोऽन्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ।। ५३ ।।
विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः ।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ।। ५४ ।।
विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽभवत्किल ।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ।। ५५ ।।
देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः ।
देवैर्दत्तः स वै यस्माद् देवरातस्ततोऽभवत् ।। ५६ ।।
देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।
दृषद्वतीसुतश्चापि विश्वामित्रात् तथाष्टकः ।। ५७ ।।
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ।
अत ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ।। ५८ ।।

इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वण्यमावसुवंशकीर्तनं नाम सप्तविंशोऽध्यायः ।। २७ ।।