प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २८ हरिवंशपुराणम्
अध्यायः २९
वेदव्यासः
अध्यायः ३० →
अनेनसः वंशवर्णनम्, धन्वन्तरेः काशिराजस्य धन्वस्य पुत्ररूपेण अवतरणम्, दिवोदास्य राज्यकाले शिवाज्ञया गणेश्वरेण निकुम्भेन वाराणसीं जनशून्यं कर्तुं प्रयत्नम्, तत्र शिवपार्वत्योः निवासं, दिवोदासस्य वाराणस्योपरि अधिकारः एवं अलर्कस्य प्रशंसा

एकोनत्रिंशोऽध्यायः

वैशम्पायन उवाच
रम्भोऽनपत्यस्तत्रासीद् वंशं वक्ष्याम्यनेनसः ।
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ।। १ ।।
प्रतिक्षत्रसुतश्चापि सृञ्जयो नाम विश्रुतः ।
सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः ।। २ ।।
विजयस्य कृतिः पुत्रस्तस्य हर्यश्वतः सुतः ।
हर्यश्वतसुतो राजा सहदेवः प्रतापवान् ।। ३ ।।
सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।
नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः ।। ४ ।।
संकृतेरपि धर्मात्मा क्षत्रधर्मा महायशाः ।
अनेनसः समाख्याताः क्षत्रवृद्धस्य मे शृणु ।। ५ ।।
क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः ।
सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः।।६।।
काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकाः ।। ७ ।।
ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च ।
शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काशकः ।। ८ ।।
काशस्य काशयो राजन् पुत्रो दीर्घतपास्तथा ।
धन्वस्तु दीर्घतपसो विद्वान् धन्वन्तरिस्ततः ।। ९ ।।
तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः ।
पुनर्धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ।। 1.29.१० ।।
जनमेजय उवाच
कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ।
एतद् वेदितुमिच्छामि तन्मे ब्रूहि यथातथम् ।। ११ ।।
वैशम्पायन उवाच
धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ ।
जातः स हि समुद्रात्तु मथ्यमाने पुरामृते ।। १२ ।।
उत्पन्नः कलशात् पूर्वं सर्वतश्च श्रिया वृतः ।
अभ्यसन्सिद्धिकार्ये हि विष्णुं दृष्ट्वा हि तस्थिवान्।।१३।।
अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः ।
अब्जः प्रोवाच विष्णुं वै तव पुत्रोऽस्मि वै प्रभो ।। १४ ।।
विधत्स्व भागं स्थानं च मम लोके सुरेश्वर ।
एवमुक्तः स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः ।। १५ ।।
कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ।
देवेषु विनियुक्तं हि विद्धि होत्रं महर्षिभिः ।। १६ ।।
न शक्यमुपहोमा वै तुभ्यं कर्तुं कदाचन ।
अर्वाग्भूतोऽसि देवानां पुत्र त्वं तु नहीश्वरः ।। १७ ।।
द्वितीयायां तु सम्भूत्यां लोके ख्यातिं गमिष्यसि ।
अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति ।। १८ ।।
तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो ।
चरुमन्त्रैर्व्रतैर्जाप्यैर्यक्ष्यन्ति त्वां द्विजातयः ।। १९ ।।
अष्टधा त्वं पुनश्चैवमायुर्वेदं विधास्यसि ।
अवश्यभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना ।। 1.29.२० ।।
द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः ।
इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः ।। २१ ।।
द्वितीये द्वापरं प्राप्ते सौनहोत्रिः स काशिराट् ।
पुत्रकामस्तपस्तेपे धन्यो दीर्घं तपस्तदा ।। २२ ।।
प्रपद्ये देवतां तां तु या मे पुत्रं प्रदास्यति ।
अब्जं देवं सुतार्थाय तदाऽऽराधितवान्नृपः ।। २३।।
ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् ।
यदिच्छसि वरं ब्रूहि तत् ते दास्यामि सुव्रत ।। २४ ।।
नृप उवाच
भगवन् यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान् भव ।
तथेति समनुज्ञाय तत्रैवान्तरधीयत ।। २५ ।।
तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
काशिराजो महाराज सर्वरोगप्रणाशनः।।२६।।
आयुर्वेदं भरद्वाजात्प्राप्येह भिषजां क्रियाम्।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत्।। २७।।
धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ।। २८ ।।
सुतो भीमरथस्यापि दिवोदासः प्रजेश्वरः ।
दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत् ।। २९ ।।
एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप ।
शून्यां निवासयामास क्षेमको नाम राक्षसः ।। 1.29.३० ।।
शप्ता हि सा मतिमता निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्री नात्र संशयः ।। ३१ ।।
तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ।। ३२ ।।
भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसीत्यभूत्।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ।। ३३ ।।
हत्वा निवेशयामास दिवोदासो नरर्षभः ।
भद्रश्रेण्यस्य तद् राज्यं हृतं तेन बलीयसा ।। ३४ ।।
जनमेजय उवाच
वाराणसीं निकुम्भस्तु किमर्थं शप्तवान् प्रभुः ।
निकुम्भकश्च धर्मात्मा सिद्धिक्षेत्रं शशाप यः ।।३५ ।।
वैशम्पायन उवाच
दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः ।
वसति स्म महातेजाः स्फीतायां तु नराधिपः ।। ३६ ।।
एतस्मिनेव काले तु कृतदारो महेश्वरः ।
देव्याः स प्रियकामस्तु न्यवसच्छ्वशुरन्तिके। ३७ ।।
देवाज्ञया पार्षदा ये त्वधिरूपास्तपोधनाः ।
पूर्वोक्तैरुपदेशैश्च तोषयन्ति स्म पार्वतीम् ।। ३८ ।।
हृष्यते वै महादेवी मेना नैव प्रहृष्यति ।
जुगुप्सत्यसकृत् तां वै दैवीं देवं तथैव सा ।। ३९ ।।
सपार्षदस्त्वनाचारस्तव भर्ता महेश्वरः ।
दरिद्रः सर्वदैवासौ शीलं तस्य न वर्तते ।। 1.29.४० ।।
मात्रा तथोक्ता वरदा स्त्रीस्वभावाच्च चुक्रुधे ।
स्मितं कृत्वा च वरदा भवपार्श्वमथागमत् ।। ४१ ।।
विवर्णवदना देवी महादेवमभाषत ।
नेह वत्स्याम्यहं देव नय मां स्वं निकेतनम् ।। ४२ ।।
तथा कर्तुं महादेवः सर्वलोकानवैक्षत ।
वासार्थं रोचयामास पृथिव्यां कुरुनन्दन ।। ४३ ।।
वाराणसीं महातेजाः सिद्धिक्षेत्रं महेश्वरः ।
दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः ।। ४४ ।।
पार्श्वे तिष्ठन्तमाहूय निकुम्भमिदमब्रवीत् ।
गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु ।। ४५ ।।
मृदुनैवाभ्युपायेन ह्यतिवीर्यः स पार्थिवः ।
ततो गत्वा निकुम्भस्तु पुरीं वाराणसीं तदा ।। ४६ ।।
स्वप्ने निदर्शयामास कण्डुकं नाम नापितम् ।
श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ ।। ४७ ।।
मद्रूपां प्रतिमां कृत्वा नगर्यन्ते तथैव च ।
ततः स्वप्ने यथोद्दिष्टं सर्वं कारितवान् नृप ।। ४८ ।।
पुरीद्वारे तु विज्ञाप्य राजानं च यथाविधि ।
पूजां तु महतीं तस्य नित्यमेव प्रयोजयत् ।। ४९ ।।
गन्धैश्च धूपमाल्यैश्च प्रोक्षणीयैस्तथैव च ।
अन्नपानप्रयोगैश्च अत्यद्भुतमिवाभवत् ।। 1.29.५० ।।
एवं सम्पूज्यते तत्र नित्यमेव गणेश्वरः।
ततो वरसहस्रं तु नागराणां प्रयच्छति।
पुत्रान्हिरण्यमायुश्च सर्वान् कामांस्तथैव च ।। ५१ ।।
राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता ।
पुत्रार्थमागता देवी साध्वी राज्ञा प्रचोदिता ।। ५२ ।।
पूजां तु विपुलां कृत्वा देवी पुत्रमयाचत ।
पुनः पुनरथागत्य बहुशः पुत्रकारणात्।।५३।।
न प्रयच्छति पुत्रं हि निकुम्भः कारणेन हि ।
राजा तु यदि नः कुप्येत्कार्यसिद्धिस्ततो भवेत्।। ५४ ।।
अथ दीर्घेण कालेन क्रोधो राजानमाविशत् ।
भूत एष महान्द्वारि नागराणां प्रयच्छति ।। ५५ ।।
प्रीतो वरान् वै शतशो मम किं न प्रयच्छति ।
मामकैः पूज्यते नित्यं नगर्यां मे सदैव हि ।। ५६ ।।
विज्ञापितो मयात्यर्थं देव्या मे पुत्रकारणात् ।
न ददाति च पुत्रं मे कृतघ्नः केन हेतुना ।। ५७ ।।
ततो नार्हति सत्कारं मत्सकाशाद् विशेषतः ।
तस्मात्तु नाशयिष्यामि स्थानमस्य दुरात्मनः ।। ५८ ।।
एवं स तु विनिश्चित्य दुरात्मा राजकिल्बिषी ।
स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः ।। ५९।।
भग्नमायतनं दृष्ट्वा राजानमशपत् प्रभुः ।
यस्मादनपराधस्य त्वया स्थानं विनाशितम् ।
पुर्यकस्मादियं शून्या तव नूनं भविष्यति ।। 1.29.६० ।।
ततस्तेन तु शापेन शून्या वाराणसी तदा ।
शप्त्वा पुरीं निकुम्भस्तु महादेवमथागमत्।। ६१ ।।
अकस्मात्तु पुरी सा तु विद्रुता सर्वतोदिशम्।
तस्यां पुर्यां ततो देवो निर्ममे पदमात्मनः ।। ६२ ।।
रमते तत्र वै देवो रममाणो गिरेः सुताम् ।
न रतिं तत्र वै देवी लभते गृहविस्मयात् ।
वसाम्यत्र न पुर्यां तु देवी देवमथाब्रवीत् ।। ६३ ।।
देव उवाच
नाहं वेश्मनि वत्स्यामि अविमुक्तं हि मे गृहम् ।
नाहं तत्र गमिष्यामि गच्छ देवि गृहं प्रति ।। ६४ ।।
सन्नुवाच भगवांस्त्र्यन्तकस्त्रिपुरान्तकः ।
तस्मात् तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ।। ६५ ।।
एवं वाराणसी शप्ता अविमुक्तं च कीर्तितम्।।६६ ।।
यस्मिन् वसति वै देवः सर्वदेवनमस्कृतः। ।
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः ।। ६७ ।।
अन्तर्धानं कलौ याति तत्पुरं हि महात्मनः ।
अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ।
एवं वाराणसी शप्ता निवेशं पुनरागता ।। ६८ ।।
भद्रश्रेण्यस्य पुत्रो वै दुर्दमो नाम विश्रुतः ।
दिवोदासेन बालेति घृणया स विवर्जितः ।। ६९ ।।
हैहयस्य तु दायाद्यं कृतवान् वै महीपतिः ।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्।।1.29.७०।।
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
वैरस्यान्तं महाराज क्षत्रियेण विधित्सता ।। ७१ ।
दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः।
तेन पुत्रेण बालेन प्रहतं तस्य वै पुनः ।। ७२ ।।
प्रतर्दनस्य पुत्रौ द्वौ वत्सभार्गौ बभूवतुः ।
वत्सपुत्रो ह्यलर्कस्तु संनतिस्तस्य चात्मजः ।। ७३ ।।
अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ।
अलर्कं प्रति राजर्षि श्लोको गीतः पुरातनैः ।। ७४ ।।
षष्टिवर्षसहस्राणि षष्टिं वर्षशतानि च ।
युवा रूपेण सम्पन्न आसीत् काशिकुलोद्वहः ।।
लोपामुद्राप्रसादेन परमायुरवाप सः ।
तस्यासीत् सुमहद्राज्यं रूपयौवनशालिनः ।। ७६ ।।
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
रम्यां निवेशयामास पुरीं वाराणसीं पुनः ।। ७७ ।।
संनतेरपि दायादः सुनीथो नाम धार्मिकः ।
सुनीथस्य तु दायादः क्षेम्यो नाम महायशाः ।। ७८ ।।
क्षेम्यस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः ।
सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ।। ७९ ।।
धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः ।
सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ।। 1.29.८० ।।
आनर्तस्तु विभोः पुत्रः सुकुमारस्तु तत्सुतः ।
सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ।
धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः ।। ८१ ।।
वेणुहोत्रसुतश्चापि भर्गो नाम प्रजेश्वरः ।
वत्सस्य वत्सभूमिस्तु भृगुभूमिस्तु भार्गवात्।। ८२ ।।
एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्यास्तयोः पुत्राः सहस्रशः ।
इत्येते काशयः प्रोक्ता नहुषस्य निबोध मे ।। ८३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि एकोनत्रिंशोऽध्यायः ।। २९ ।।