प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २७ हरिवंशपुराणम्
अध्यायः २८
वेदव्यासः
अध्यायः २९ →
राज्ञा रजेः एवं तस्य पुत्राणां चरित्रं, इन्द्रस्य स्वस्थानात् च्युतिः एवं पुनः प्रतिष्ठापनम्

अष्टाविंशोऽध्यायः

वैशम्पायन उवाच
आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः ।
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप ।। १ ।।
नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।
रम्भो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ।। २ ।।
रजिः पुत्रशतानीह जनयामास पञ्च वै ।
राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम् ।। ३ ।।
यत्र देवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ।। ४ ।।
आवयोर्भगवन् युद्धे को विजेता भविष्यति ।
ब्रूहि नः सर्वभूतेश श्रोतुमिच्छामि ते वचः ।। ५ ।।
ब्रह्मोवाच
येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः ।
योत्स्यते ते जयिष्यन्ति त्रींल्लोकान्नात्र संशयः।।६।।
यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।
यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा ।। ७ ।।
ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये ।
अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभ ।। ८ ।।
स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।
राजा परमतेजस्वी सोमवंशप्रवर्धनः ।। ९ ।।
ते हृष्टमनसः सर्वे रजिं देवाश्च दानवाः ।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम् ।। 1.28.१० ।।
अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।
स्वार्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन्।। ११ ।।
रजिरुवाच
यदि दैत्यगणान् सर्वाञ्जित्वा शक्रपुरोगमाः ।
इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ।।१२ ।।
देवाः प्रथमतो भूयः प्रत्यूचुर्दृष्टमानसाः ।
एवं यथेष्टं नृपते कामः सम्पद्यतां तव ।। १३ ।।
श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तदा ।
पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत ।। १४ ।।
दानवा दर्पपूर्णास्तु स्वार्थमेवानुगम्य ह ।
प्रत्यूचुस्ते नृपवरं साभिमानमिदं वचः १५।।
अस्माकमिन्द्रः प्रह्लादो यस्यार्थे विजयामहे ।
अस्मिंस्तु समये राजंस्तिष्ठेथा राजसत्तम ।।१६ ।।
तथेति ब्रुवन्नेव देवैरप्यभिचोदितः ।
भविष्यसीन्द्रो जित्वैवं देवैरुक्तस्तु पार्थिवः ।
जघान दानवान् सर्वान् ये वध्या वज्रपाणिनः ।। १७ ।।
स विप्रणष्टां देवानां परमश्रीः श्रियं वशी ।
निहत्य दानवान् सर्वानाजहार रजिः प्रभुः ।। १८ ।।
ततो रजिं महावीर्यं देवैः सह शतक्रतुः ।
रजेः पुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः ।। १९ ।।
इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ।
यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः ।। 1.28.२० ।।
स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ।
तथेत्येवाब्रवीद् राजा प्रीयमाणः शतक्रतुम् ।। २१ ।।
तस्मिंस्तु देवसदृशे दिवं प्रान्ते महीपतौ ।
दायाद्यमिन्द्रादाजह्रुराचारात् तनया रजेः ।। २२ ।।
पञ्चपुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ।
समाक्रमन्त बहुधा स्वर्गलोकं त्रिविष्टपम् ।। २३ ।।
ततो बहुतिथे काले समतीते महाबलः ।
हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम् ।। २४ ।।
इन्द्र उवाच
बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं तेजसाऽऽप्यायितः सदा ।। २५ ।।
ब्रह्मन् कृशोऽहं विमना हृतराज्यो हृताशनः ।
हृतौजा दुर्बलो मूढो रजिपुत्रैः कृतः प्रभो ।। २६ ।।
बृहस्पतिरुवाच
यद्येवं चोदितः शक्र त्वयास्यां पूर्वमेव हि ।
नाभविष्यस्यत्प्रियार्थमकर्तव्यं ममानघ ।। २७ ।।
प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः ।
यथा भागं च राज्यं च नचिरात् प्रतिलप्स्यसे ।। २८ ।।
तथा तात करिष्यामि मा भूत्ते विक्लवं मनः ।
ततः कर्म चकारास्य तेजसो वर्धनं तदा ।। २९ ।।
तेषां च बुद्धिसम्मोहमकरोद् द्विजसत्तमः ।
नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम् ।। 1.28.३० ।
परमं तर्कशास्त्राणामसतां तन्मनोऽनुगम् ।
न हि धर्मप्रधानानां रोचते तत्कथान्तरे ।। ३१ ।।
ते तद् बृहस्पतिकृतं शास्त्रं श्रुत्वाल्पचेतसः ।
पूर्वोक्तधर्मशास्त्राणामभवन् द्वेषिणः सदा ।। ३२ ।।
प्रवक्तुर्न्यायरहितं तन्मतं बहु मेनिरे ।
तेनाधर्मेण ते पापाः सर्व एव क्षयं गताः ।। ३३ ।।
त्रैलोक्यराज्यं शक्रस्तु प्राप्य दुष्प्रापमेव च ।
बृहस्पतिप्रसादाद्धि परां निर्वृतिमभ्ययात् ।। ३४ ।।
ते यदा तु सुसम्मूढा रागोन्मत्ता विधर्मिणः ।
ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः ।। ३५ ।।
ततो लेभे सुरैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ।
हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान् ।। ३६ ।।
य इदं च्यावनं स्थानात् प्रतिष्ठां च शतक्रतोः ।
शृणुयाद् धारयेद्वापि न स दौरात्म्यमाप्नुयात्।। ३७ ।।
इति श्रीगहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि आयोर्वंशकीर्तनं नामाष्टाविंशोऽध्यायः ।। २८ ।।