हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ३६

← अध्यायः ३५ हरिवंशपुराणम्
अध्यायः ३६
वेदव्यासः
अध्यायः ३७ →
क्रोष्टोः वंशवर्णनम्, पुरोहितगोत्रेण क्षत्रियस्य गोत्रस्य प्रतिस्थापनम्

षट्त्रिंशोऽध्यायः

वैशम्पायन उवाच
क्रोष्टोरेवाभवत् पुत्रो वृजिनीवान्महायशाः ।
वृजिनीवत्सुतश्चापि स्वाहिः स्वाहाकृतां वरः ।। १ ।।
स्वाहिपुत्रोऽभवद् राजा रुषद्गुर्वदतां वरः ।
महाक्रतुभिरीजे यो विविधैभूरिदक्षिणैः ।। २ ।।
सुतप्रसूतिमन्विच्छन् रुषद्गुः सोऽग्र्यमात्मजम्।
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ।। ३ ।।
आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः ।
शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ।। ४ ।।
पृथुश्रवाः पृधुयशा राजाऽऽसीच्छशबिन्दुजः ।
शंसन्ति च पुराणज्ञाः पार्थश्रवसमुत्तरम् ।। ५ ।।
अनन्तरं सुयज्ञस्तु सुयज्ञतनयोऽभवत्।
उशतो यज्ञमखिलं स्वधर्ममुशतां वरः ।। ६ ।।
शिनेयुरभवत् सूनुरुशतः शत्रुतापनः ।
मरुत्तस्तस्य तनयो राजर्षिरभवन्नृप ।। ७ ।।
मरुत्तोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् ।
चचार विपुलं धर्मममर्षात् प्रेत्यभागपि ।। ८ ।।
सुतप्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः ।
बभूव रुक्मकवचः शतप्रसवतः सुतः ।। ९ ।।
निहत्य रुक्मकवचः शतं कवचिनां रणे ।
धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ।। 1.36.१०।।
जज्ञेऽथ रुक्मकवचात् पराजित् परवीरहा ।
जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजितः ।। ११ ।।
रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः ।
पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ।। १२।।
रुक्मेषुरभवद् राजा पृथुरुक्मस्य संश्रितः ।
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोऽवसदाश्रमे ।। १३ ।।
प्रशान्तः स वनस्थस्तु ब्राह्मणैश्चावबोधितः ।
जिगाय रथमास्थाय देशमन्यं ध्वजी रथी ।। १४ ।।
नर्मदाकूलमेकाकी नगरीं मृत्तिकावतीम् ।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ।। १५ ।।
ज्यामघस्याभवद् भार्या शैब्या बलवती सती ।
अपुत्रोऽपि च राजा स नान्यां भार्यामविन्दत ।। १६ ।।
तस्यासीद् विजयो युद्धे तत्र कन्यामवाप सः ।
भार्यामुवाच संत्रस्तः स्नुषेति स नरेश्वरः ।। १७ ।।
एतच्छ्रुत्वाब्रवीद् देवी कस्य चेयं स्नुषेति वै ।
अब्रवीत् तदुपश्रुत्य ज्यामघो राजसत्तमः ।। १८।।
यस्ते जनिष्यते पुत्रस्तस्य भार्योपदानवी ।
उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ।। १९ ।।
राजपुत्र्यां तु विद्वांसौ स्तुषायां क्रथकौशिकौ ।
पश्चाद् विदर्भोऽजनयच्छूरौ रणविशारदौ ।। 1.36.२० ।।
लोमपादं तृतीयं तु पुत्रं परमधार्मिकम् ।
लोमपादात्मजो बभ्रुराह्वतिस्तस्य चात्मजः ।। २१ ।।
आह्वतेः कौशिकश्चैव विद्वान् परमधार्मिकः ।
चेदिः पुत्रः कौशिकस्य तस्माच्चैद्या नृपाः स्मृताः।।२२।।
भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत्
कुन्तेर्धृष्टसुतो जज्ञे रणधृष्टः प्रतापवान् ।
धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः ।। २३।।
आवन्तश्च दशार्हश्च बली विषहरश्च यः ।
दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते।। २४ ।
जीमूतपुत्रो बृहतिस्तस्य भीमरथः सुतः ।
अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा ।। २५ ।।
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ।
तस्मात् करम्भः कारम्भिर्देवरातोऽभवन्नृपः।। २६ ।।
देवक्षत्रोऽभवत् तस्य दैवक्षत्रिर्महायशाः ।
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ।। २७ ।।
मधूनां वंशकृद् राजा मधुर्मधुरवागपि ।
मधोर्जज्ञेऽथ वैदर्भो पुत्रो मरुवसास्तथा ।। २८ ।।
आसीन्मरुवसः पुत्रः पुरुद्वान् पुरुषोत्तमः ।
मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वहः ।। २९ ।।
ऐक्ष्वाकी चाभवद्भार्या सत्त्वांस्तस्यामजायत ।
सत्त्वान् सर्वगुणोपेतः सात्त्वतां कीर्तिवर्धनः ।। 1.36.३० ।।
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
युज्यते परया कीर्त्या प्रजावांश्च भवेन्नरः ।। ३१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि षट्त्रिंशोऽध्यायः ।। ३६ ।।