हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ४१

← अध्यायः ४० हरिवंशपुराणम्
अध्यायः ४१
वेदव्यासः
अध्यायः ४२ →
भगवतः विष्णोः वाराहः, नृसिंहः, वामनः, दत्तात्रेयः, परशुरामः, श्रीरामः, श्रीकृष्णः, व्यासः एवं कल्कि अवताराणां संक्षिप्त कथा

एकचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
प्रश्नभारो महांस्तात त्वयोक्तः शार्ङ्गधन्वनि ।
यथाशक्ति तु वक्ष्यामि श्रूयतां वैष्णवं यशः ।। १ ।।
विष्णोः प्रभावश्रवणे दिष्ट्या ते मतिरुत्थिता ।
हन्त विष्णोः प्रवृत्तिं च शृणु दिव्या मयेरिताम् ।।२।।
सहस्राक्षं सहस्रास्यं सहस्रचरणं च यम् ।
सहस्रशिरसं देवं सहस्रकरमव्ययम् ।। ३ ।।
सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् ।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम् ।। ४ ।।
सवनं हवनं चैव हव्यं होतारमेव च ।
पात्राणि च पवित्राणि वेदिं दीक्षां चरुं स्रुवम् ।। ५ ।।
स्रुक्सोमं शूर्पमुसलं प्रोक्षणं दक्षिणायनम् ।
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः ।। ६ ।।
यूपं समित्कुशं दर्वीं चमसोलूखलानि च ।
प्राग्वंशं यज्ञभूमिं च होतारं चयनं च यत् ।। ७ ।।
ह्रस्वान्यतिप्रमाणानि चराणि स्थावराणि च ।
प्रायश्चित्तानि चार्थं च स्थण्डिलानि कुशांस्तथा ।। ८।।
मन्त्रं यज्ञवहं वह्निं भागं भागवहं च यत् ।
अग्रेभुजं सोमभुजं घृतार्चिषमुदायुधम् ।। ९ ।।
आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं विभुम् ।
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः ।। 1.41.१० ।।
प्रादुर्भावसहस्राणि अतीतानि न संशयः ।
भूयश्चैव भविष्यन्तीत्येवमाह प्रजापतिः ।। ११ ।।
यत्पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम् ।
यदर्थं भगवान् विष्णुः सुरेशो रिपुसूदनः ।
देवलोकं समुत्सृज्य वसुदेवकुलेऽभवत् ।। १२ ।।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु सर्वमशेषतः ।
वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः ।। १३ ।।
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ।
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः ।। १४ ।।
प्रादुर्भावांश्च वक्ष्यामि पुण्यान् दिव्यगुणैर्युतान् ।
छान्दसीभिरुदाराभिः श्रुतिभिः समलंकृतान् ।। १५।।
शुचिः प्रयतवाग् भूत्वा निबोध जनमेजय ।
इदं पुराणं परमं पुण्यं वेदैश्च सम्मितम् ।। १६।।
हन्त ते कथयिष्यामि विष्णोर्दिव्यां कथां शृणु ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
धर्मसंस्थापनार्थाय तदा सम्भवति प्रभुः।।१७।।
तस्य ह्येका महाराज मूर्तिर्भवति सत्तमा ।
नित्यं दिविष्ठा या राजंस्तपश्चरति दुश्चरम् ।। १८ ।।
द्वितीया चास्य शयने निद्रायोगमुपाययौ ।
प्रजासंहारसर्गार्थं किमध्यात्मविचिन्तकम् ।। १९ ।।
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान् ।
पूर्णे युगसहस्रे तु देवदेवो जगत्पतिः ।। 1.41.२० ।।
पितामहो लोकपालाश्चन्द्रादित्यौ हुताशनः ।
ब्रह्मा च कपिलश्चैव परमेष्ठी तथैव च ।। २१ ।।
देवाः सप्तर्षयश्चैव त्र्यम्बकश्च महायशाः ।
वायुः समुद्राः शैलाश्च तस्य देहं समाश्रिताः ।। २२ ।।
सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान् प्रजाकरः ।
पुराणदेवोऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजाः ।। २३ ।।
येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ।। २४ ।।
योद्धुकामौ सुदुर्धर्षौ दानवौ मधुकैटभौ ।
हतौ प्रभवता तेन तयोर्दत्त्वामितं वरम् ।। २५ ।।
पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे यत्र सम्भूता देवाः सर्षिगणाः पुरा ।। २६ ।।
एष पौष्करको नाम प्रादुर्भावो महात्मनः ।
पुराणे कथ्यते यत्र वेदः श्रुतिसमाहितः ।। २७ ।।
वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ।
महीं सागरपर्यन्तां सशैलवनकाननाम् ।। २८ ।।

वराह प्रतिमा - खजुराहो

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।। २९ ।।

वराह मुख - खजुराहो

अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ।
आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान् ।1.41.३०।।
धर्मसत्यमयः श्रीमान् क्रमविक्रमसत्कृतः ।
प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजः ।। ३१ ।।
उद्गात्रन्त्रो होमलिङ्गः फलबीजमहौषधिः ।
वाय्वन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ।। ३२ ।।
वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिराचितः ।। ३३ ।।
दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ।। ३४ ।।
नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मेरुशृङ्ग इवोच्छ्रितः ।। ३५ ।।
महीं सागरपर्यन्तां सशैलवनकाननाम्।
एकार्णवजले भ्रष्टामेकार्णवगतः प्रभुः ।। ३६ ।।
दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया ।
सहस्रशीर्षो देवादिश्चकार पृथिवीं पुनः ।। ३७ ।।
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृथिवी सर्वा सागराम्बुधरा पुरा ।। ३८ ।।
वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ।। ३९ ।।
पुरा कृतयुगे राजन् सुरारिर्बलदर्पितः ।
दैत्यानामादिपुरुषश्चचार तप उत्तमम् ।1.41.४० ।।
दश वर्षसहस्राणि शतानि दश पञ्च च ।
जपोपवासनिरतः स्थानमौनदृढव्रतः ।। ४१ ।।
ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतोऽभवत् तस्य तपसा नियमेन च ।। ४२ ।।
तं वै स्वयम्भूर्भगवान् स्वयमागत्य भूपते ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ।। ४३ ।।
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिंनरैः ।। ४४ ।।
दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ।। ४५ ।।
देवर्षिभिस्तपोवृद्धैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैश्चाप्सरोगणैः ।। ४६ ।।
चराचरगुरुः श्रीमान् वृतः सर्वैः सुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ।। ४७ ।।
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ।। ४८ ।।
हिरण्यकशिपुरुवाच
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च निहन्युर्मां कथंचन ।। ४९ ।।
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वरमेतं वृणोम्यहम् ।। 1.41.५० ।।
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः ।। ५१ ।।
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति ।। ५२ ।।
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ।। ५३ ।।
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ।। ५४ ।।
एवमुक्तस्तु दैत्येन स्वयम्भूर्भगवांस्तदा ।
उवाच दैत्यराजं तं प्रहसन् नृपसत्तम ।। ५५ ।।
ब्रह्मोवाच
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वान् कामानिमांस्तात प्राप्स्यसि त्वं न संशयः ।। ५६।।
एवमुक्त्वा तु भगवाञ्जगामाकाशमेव हि ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ।। ५७ ।।
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वा ते पितामहमुपस्थिताः ।। ५८ ।।
विभुं विज्ञापयामासुर्देवा इन्द्रपुरोगमाः ।। ५९॥
देवा ऊचुः
वरेणानेन भगवन् बाधयिष्यति नोऽसुरः ।
ततः प्रसीद भगवन्वधोऽप्यस्य विचिन्त्यताम्।। 1.41.६० ।।
भवान् हि सर्वभूतानां स्वयम्भूरादिकृद् विभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ।। ६१ ।।
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच भगवान् वाक्यं सर्वान् देवगणांस्तदा ।। ६२ ।।
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति ।।६३।।
एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजसम्भवात् ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ।। ६४ ।।
लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः । ६५ ।।
आश्रमेषु महाभागान् मुनीन् वै शंसितव्रतान् ।
सत्यधर्मरतान् दान्तान् पुरा धर्षितवांस्तु सः ।। ६६ ।।
देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।। ६७ ।।
यदा वरमदोन्मत्तो न्यवसद् दानवो दिवि ।
यज्ञियान् कृतवान्दैत्यान्देवांश्चैवाप्ययज्ञियान् ।६८।
आदित्याश्च ततो रुद्रा विश्वे च मरुतस्तथा ।
शरण्यं शरणं विश्वमुपाजग्मुर्महाबलम् ।। ६९ ।
वेदयज्ञमयं ब्रह्म ब्रह्मदेवं सनातनम् ।
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् ।
नारायणं विभुं देवाः शरणं शरणागताः ।। 1.41.७० ।।
देवा ऊचुः
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात्।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम ।। ७१ ।।
त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः ।
उत्फुल्लाम्बुजपत्राक्षः शत्रुपक्षभयंकरः ।
क्षयाय दितिवंशस्य शरण्यस्त्वं भवस्व नः ।। ७२ ।
विष्णुरुवाच
भयं त्यजध्वममरा ह्यभयं वो ददाम्यहम् ।
तथैवं त्रिदिवं देवाः प्रतिपत्स्यथ माचिरम् ।। ७३ ।।
एष तं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ।। ७४ ।।
वैशम्पायन उवाच
एवमुक्त्वा स भगवान् विसृज्य त्रिदशेश्वरान् ।
हिरण्यकशिपो राजन्नाजगाम् हरिः सभाम् ।। ७५।।
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः ।
नारसिंहेण वपुषा पाणिं निष्पिष्य पाणिना ।। ७६।।
जीमूतघनसंकाशो जीमूतघननिःस्वनः ।
जीमूतघनदीप्तौजा जीमूत इव वेगवान् ।। ७७ ।।
दैत्यं सोऽतिबलं दीप्तं दृप्तशार्दूलविक्रमम् ।
दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना ।। ७८ ।।
नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमाश्रित्य रूपं दैत्यविनाशकृत् ।। ७९ ।।
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ।। 1.41.८० ।।
पर्वकालब्धं सबशक्तिमान्भगवान्वाझारूपधाण-
विप्रचित्तिः शिबिः शङ्कुरयःशङ्कुस्तथैव च ।
अयःशिरा शङ्कुशिरा हयग्रीवश्च वीर्यवान् ।। ८१ ।।
वेगवान् केतुमानुग्रः सोमव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव वेपनश्च महारथः ।। ८२ ।।
बृहत्कीर्तिर्महाजिह्वः साश्वोऽश्वपतिरेव च ।
प्रह्लादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वराहः शंकरो रुजः ।। ८३ ।।
शरभः शलभश्चैव कुपनः कोपनः क्रथः ।
बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः ।। ८४ ।।
दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः ।
बायुर्यविष्ठो नमुचिः शम्बरो विज्वरो महान् ।। ८५ ।।
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।
कालकः कालकेयश्च वृत्रः क्रोधो विरोचनः ।। ८६ ।।
गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ ।
इन्द्रतापनवातापी केतुमान् बलदर्पितः ।। ८७ ।।
असिलोमा पुलोमा च वाक्कलः प्रमदो मदः ।
खसृमः कालवदनः करालः कैशिकः शरः ।। ८८ ।।
एकाक्षश्चन्द्रहा राहुः संह्रादः सृमरः खनः ।
शतघ्नीचक्रहस्ताश्च तथा परिघपाणयः ।। ८९ ।।
महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ।
अस्मयन्त्रायुधोपेता भिन्दिपालायुधास्तथा ।। 1.41.९० ।।
शूलोलूखलहस्ताश्च परश्वधधरास्तथा ।
पाशमुद्गरहस्ता वै तथा मुसलपाणयः ।। ९१
नानाप्रहरणा घोरा नानावेषा महाजवाः ।
कृर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ।। ९२ ।।
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।
भीमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ।
आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा ।। ९३ ।।
मार्जारगजवक्त्राश्च महावक्त्रास्तथापरे ।
नक्रमेषाननाः शूरा गोऽजाविमहिषाननाः ।। ९४ ।।
गोधाशल्यकवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ।
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ।। ९५ ।।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।
चीरसंवृतदेहाश्च तथा वल्कलवाससः ।। ९६ ।।
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ।
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।
नानावेषधरा दैत्या नानामाल्यसुलेपनाः ।। ९७ ।।
स्वान्यायुधानि संगृह्य प्रदीप्तान्यतितेजसा ।
क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः ।। ९८ ।।
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः ।
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ।।९९ ।।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य नाभ्यां किल समास्थितौ ।।1.41.१००।।
परं प्रक्रममाणस्य जानुदेशे स्थितावुभौ ।
विष्णोरतुलवीर्यस्य वदन्त्येवं द्विजातयः ।।१०१।।
हृत्वा स पृथिवीं कृत्स्नां जित्वा चासुरपुंगवान् ।
ददौ शक्राय त्रिदिवं विष्णुर्बलवतां वरः ।।१०२।।
एष ते वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिद्विजैरेव कथ्यते वैष्णवं यशः ।।१०३।।
भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यातः क्षमया परया युतः ।।१०४।।
तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च ।
चातुर्वर्ण्ये तु संकीर्णे धर्मे शिथिलतां गते ।। १०५।।
अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ।
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ।।१०६।।
सहयज्ञक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्ण्यमसंकीर्णं कृतं तेन महात्मना ।। १०७।।
तेन हैहयराजस्य कार्तवीर्यस्य धीमतः ।
वरदेन वरो दत्तो दत्तात्रेयेण धीमता ।। १०८।।
एतद् वाहुद्वयं यत्ते मृधे मम कृतेऽनघ ।
शतानि दश बाहूनां भविष्यन्ति न संशयः ।। १०९।।
पालयिष्यसि कृत्स्नां च वसुधां वसुधाधिप ।
दु्र्निरीक्ष्योऽरिवृन्दानां धर्मज्ञश्च भविष्यसि ।। 1.41.११०।।
एष ते वैष्णवः श्रीमान् प्रादुर्भावोऽद्भुतः शुभः ।
कथितो वै महाराज यथाश्रुतमरिंदम ।।। १११ ।।
भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः ।
यत्र बाहुसहस्रेण विस्मितं दुर्जयं रणे ।
रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः ।।११२।।
रथस्थं पार्थिवं रामः पातयित्वार्जुनं भुवि ।
धर्षयित्वा यथाकामं क्रोशमानं च मेघवत् ।। ११३।।
कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ।
परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै ।। ११४।।
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा ।
त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ।। ११५।।
कृत्वा निःक्षत्रियां चैव भार्गवः सुमहातपाः ।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान् ।। ११६।।
तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
मारीचाय ददौ प्रीतः कश्यपाय वसुंधराम् ।। ११७।
वारुणांस्तुरगाञ्छीघ्रान् रथं च रथिनां वरः ।
हिरण्यमक्षयं धेनूर्गजेन्द्रांश्च महामनाः ।
ददौ तस्मिन् महायज्ञे वाजिमेधे महायशाः ।। ११८।।
अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ।
चरमाणस्तपो दीप्तं जामदग्न्यः पुनः पुनः ।
तिष्ठते देववद् धीमान् महेन्द्रे पर्वतोत्तमे ।।११९।।
एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च ।
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः ।। 1.41.१२० ।।
चतुर्विंशे युगे चापि विश्वामित्रपुरस्सरः ।
राज्ञो दशरथस्याथ पुत्रः पद्मायतेक्षणः ।। १२१।।
कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः ।
लोके राम इति ख्यातस्तेजसा भास्करोपमः ।। १२२।।
प्रसादनार्थं लोकस्य रक्षसां निधनाय च ।
धर्मस्य च विवृद्धद्यर्थं जज्ञे तत्र महायशाः ।। १२३।।
तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ।
यस्मै दत्तानि चास्त्राणि विश्वामित्रेण धीमता ।। १२४।।
वधार्थं देवशत्रूणां दुर्धराणि सुरैरपि ।
यज्ञविध्नकरो येन मुनीनां भावितात्मनाम् ।। १२५।।
मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ।
निहतौ च निराशी च कृतौ तेन महात्मना ।। १२६।।
वर्तमाने मखे येन जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा ।। १२७।
यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् ।
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः ।। १२८।।
रूपिणी यस्य पार्श्वस्था सीतेति प्रथिता जनैः ।
पूर्वोचिता तस्य लक्ष्मीर्भर्तारमनुगच्छति ।। १२९।।
चतुर्दश तपस्तप्त्वा वने वर्षाणि राघवः ।
जनस्थाने वसन् कार्यं त्रिदशानां चकार ह ।। 1.41.१३०।।
सीतायाः पदमन्विच्छल्लँक्ष्मणानुचरो विभुः ।
विराधं च कबन्धं च राक्षसौ भीमविक्रमौ ।
जघान पुरुषव्याघ्रौ गन्धर्वौ शापवीक्षितौ ।। १३१।।
हुताशनार्केन्दुतडिद्घनाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः ।
महेन्द्रवज्राशनितुल्यसारैः शरैः शरीरेण वियोजितौ बलात् ।। १३२।।
सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः ।
वाली विनिहतो युद्धे सुग्रीवश्चाभिषेचितः ।। १३३।।
देवासुरगणानां हि यक्षगन्धर्वभोगिनाम् ।
अवध्यं राक्षसेन्द्रं तं रावणं युद्धदुर्मदम् ।। १३४।।
युक्तं राक्षसकोटीभिर्नीलाञ्जनचयोपमम् ।
त्रैलोक्यरावणं घोरं रावणं राक्षसेश्वरम् ।। १३५।।
दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ।
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् ।।१३६।।
जघान सचिवैः सार्द्धं ससैन्यं रावणं युधि ।
महाभ्रघनसंकाशं महाकायं महाबलम् ।। १३७।।
तमागस्कारिणं घोरं पौलस्त्यं युधि दुर्जयम् ।
सभ्रातृपुत्रसचिवं ससैन्यं क्रूरनिश्चयम् ।। १३८ ।।
रावणं निजघानाशु रामो भूतपतिः पुरा ।
मधोश्च तनयो दृप्तो लवणो नाम दानवः ।।१३९।।
हतो मधुवने वीरो वरदृप्तो महासुरः ।
समरे युद्धशौण्डेन तथा चान्येऽपि राक्षसाः ।।1.41.१४०।।
एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ।।१४१।।
नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ ।
न वित्तहरणं त्वासीद् रामे राज्यं प्रशासति ।। १४२।।
पर्यदेवन्न विधवा नानर्थास्ताभवंस्तदा ।
सर्वमासीज्जगद् दान्तं रामे राज्यं प्रशासति ।। १४३ ।।
न प्राणिनां भयं चापि जलानलनिघातजम् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ।। १४४।।
ब्रह्म पर्यचरत् क्षत्र विशः क्षत्रमनुव्रताः ।
शूद्राश्चैव हि वर्णांस्त्रीञ्छुश्रूषन्त्यनहंकृताः ।
नार्यो नात्यचरन्भर्तॄन् भार्यां नात्यचरत् पतिः।। १४५।।
सर्वमासीञ्जगद् दान्तं निर्दस्युरभवन्मही ।
राम एकोऽभवद् भर्त्ता रामः पालयिताभवत्।।१४६।।
आयुर्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
अरोगाः प्राणिनश्चासन् रामे राज्यं प्रशासति ।।१४७।।
देवतानामृषीणां च मनुष्याणां च सर्वशः ।
पृथिव्यां समवायोऽभूद्रामे राज्यं प्रशासति ।। १४८।।
गाथा अप्यत्र गायन्ति ये पुराणविदो जनाः ।
रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः ।।१४९।।
श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।। 1.41.१५०।।
दश वर्षसहस्राणि दश वर्षशतानि च ।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ।। १५१।।
ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः ।
अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति ।। १५२।।
सत्त्ववान् गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
अति चन्द्रं च सूर्यं च रामो दाशरथिर्बभौ ।।१५३।।
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
हित्वायोध्यां दिवं यातो राघवः समहाबलः ।।१५४।।
एवमेष महाबाहुरिक्ष्वाकुकुलनन्दनः ।
रावणं सगणं हत्वा दिवमाचक्रमे प्रभुः ।। १५५।।
वैशम्पायन उवाच
अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै ।। १५६।।
यत्र शाल्वं च मैन्दं च द्विविदं कंसमेव च ।
अरिष्टमृषभं केशिं पूतनां दैत्यदारिकाम् ।।१५७।।
नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
दैत्यान् मानुषदेहस्थान्सूदयामास वीर्यवान् ।।१५८।।
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः ।
नरकश्च हतः संख्ये यवनश्च महाबलः ।।१५९।।।
हृतानि च महीपानां सर्वरत्नानि तेजसा ।
दुराचाराश्च निहताः पार्थिवाश्च महीतले ।।1.41.१६०।।
नवमे द्वापरे विष्णुरष्टाविंशे पुराभवत् ।
वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरस्सरः ।।१६१।।
एको वेदश्चतुर्धा तु कृतस्तेन महात्मना ।
जनितो भारतो वंशः सत्यवत्याः सुतेन च ।। १६२।।
एते लोकहितार्थाय प्रादुर्भावा महात्मनः ।
अतीताः कथिता राजन्कथ्यन्ते चाप्यनागताः ।। १६३।।
कल्किर्विष्णुयशा नाम शम्भले ग्रामके द्विजः ।
सर्वलोकहितार्थाय भूयश्चोत्पत्स्यते प्रभुः ।। १६४।।
दशमे भाव्यसम्पन्नो याज्ञवल्क्यपुरस्सरः ।
क्षपयित्वा च तान्सर्वान्भाविनार्थेन चोदितान् ।।१६५।।
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ।
ततः कुले व्यतीते तु सामात्ये सहसैनिके ।।१६६।।
नृपेष्वथ प्रणष्टेषु तदा त्वप्रग्रहाः प्रजाः ।
रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे ।।१६७।।
परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः ।
एवं कष्टमनुप्राप्ताः कलिसंध्यांशके तदा ।
प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन ह ।। १६८।।
क्षीणे कलियुगे तस्मिंस्ततः कृतयुगं पुनः ।
प्रपत्स्यते यथान्यायं स्वभावादेव नान्यथा ।।१६९।।
एते चान्ये च बहवो दिव्या देवगुणैर्युताः ।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः ।।1.41.१७०।।
यत्र देवाश्च मुह्यन्ति प्रादुर्भावानुकीर्तने ।
पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् ।। १७१।।
एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ।
कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः ।।१७२।।
प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ।
विष्णोरतुलवीर्यस्य यः शृणोति कृताञ्जलिः ।। १७३।।
एतास्तु योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः ।
ऋद्धिं समृद्धिं विपुलांश्च भोगान् प्राप्नोति सर्वं भगवत्प्रसादात् ।। १७४।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि प्रादुर्भावानुसंग्रहो नामैकचत्वारिंशोऽध्यायः ।। ४१ ।।