← अध्यायः ४१ हरिवंशपुराणम्
अध्यायः ४२
वेदव्यासः
अध्यायः ४३ →
भगवतः विष्णोः ईशित्वस्य वर्णनम्, अद्भुततारकामयस्य संग्रामस्य कथा

द्विचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
विश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे ।
वैकुण्ठत्वं च देवेषु कृप्णत्वं मानुषेषु च ।। १ ।।
ईश्वरत्वं च तस्येदं गहनां कर्मणां गतिम् ।
अव्यक्तो व्यक्तलिङ्गस्थो यत्रैव भगवान् प्रभुः ।
नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च ।। ३ ।।
एष नारायणो भूत्वा हरिरासीत्कृते युगे ।
ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः ।। ४ ।।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ।
एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत् ।। ५ ।।
प्रसादजं ह्यस्य विभोरदित्याः पुत्रजन्म तत् ।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।। ६।।
प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत् प्रभुः ।
सोऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् ।। ७ ।।
ते तन्वानास्तनूस्तत्र ब्रह्मवंशाननुत्तमान् ।
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ।। ८ ।।
एतदाश्चर्यभूतस्य विष्णोर्नामानुकीर्तनम् ।
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ।। ९ ।।
वृत्ते वृत्रवधे तात वर्तमाने कृते युगे ।
आसीत् त्रैलोक्यविख्यातः संग्रामस्तारकामयः ।। 1.42.१०।।
तत्रासन् दानवा घोराः सर्वे संग्रामदर्पिताः ।
घ्नन्ति देवगणान्सर्वान् सयक्षोरगराक्षसान् ।। ११ ।।
ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे ।
त्रातारं मनसा जग्मुर्देवं नारायणं हरिम् ।। १२ ।।
एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्षिणः ।
सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ।। १३ ।।
चञ्चद्विद्युद्गणाविद्धा घोरा निर्ह्रादकारिणः ।
अन्योन्यवेगाभिहताः प्रववुः सप्त मारुताः ।। १४ ।।
दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
ररास घोरैरुत्पातैर्दह्यमानमिवाम्बरम् ।।१५ ।।
पेतुरुलेकैसहस्राणि मुहुराकाशगान्यपि ।
न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च ।। १६ ।।
चतुर्युगान्तपर्याये लोकानां यद् भयं भवेत् ।
तादृशान्येव रूपाणि तस्मिन्नुत्पातलक्षणे ।। १७ ।।
तमसा निष्प्रभं सर्वं न प्राज्ञायत किंचन ।
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ।। १८ ।।
निशेव रूपिणी काली कालमेघावगुण्ठिता ।
द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता ।। १९ ।।
तान्घनौघान्सतिमिरान्दोर्भ्यामुत्क्षिप्य स प्रभुः ।
वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः।। 1.42.२० ।।
बलाहकाञ्जननिभं बलाहकतनूरुहम् ।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ।। २१।।
दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम् ।
धूमान्धकारवपुषा युगान्ताग्निमिवोत्थितम् ।। २२ ।।
चतुर्द्विगुणपीनांसं बलाकापङ्क्तिभूषणम् ।
चामीकरकराकारैरायुधैरुपशोभितम् ।। २३ ।।
चन्द्रार्ककिरणोद्द्योतं गिरिकूटं शिलोच्चयम् ।
नन्दकानन्दितकरं शराशीविषधारिणम् ।। २४ ।।
शक्तिचित्रं हलोदग्रं शङ्खचक्रगदाधरम् ।
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम् ।। २५ ।।
हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते ।
चन्द्रार्कचक्ररुचिरे मन्दराक्षधृतान्तरे ।।२६ ।।
अनन्तरश्मिसंयुक्ते ददृशे मेरुकूबरे ।
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे ।। २७ ।।
भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ।
ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे ।। २८ ।।
ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः ।। २९ ।।
स तेषां ता गिरः श्रुत्वा विष्णुर्दयितदेवतः ।
मनश्चक्रे विनाशाय दानवानां महामृधे ।। 1.42.३० ।।
आकाशे तु स्थितो विष्णुः सोत्तमे पुरुषोत्तमः ।
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः ।। ३१ ।।
शान्तिं भजत भद्रं वो मा भैष्ट मरुतां गणाः ।
जिता मे दानवाः सर्वे त्रैलोक्यं प्रतिगृह्यताम् ।। ३२ ।।
ते तस्य सत्यसंधस्य विष्णोर्वाक्ये न तोषिताः ।
देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्थितम् ।। ३३ ।।
ततस्तमः संह्रियते विनेशुश्च बलाहका ।
प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश ।। ३४ ।।
सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् ।
दीप्तिमन्ति च तेजांसि चक्रुरर्के प्रदक्षिणम् ।। ३५ ।।
न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिन्धवः ।
नीरजस्का बभुर्मार्गा नाकमार्गादयस्त्रयः ।। ३६।।
यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः ।
आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु । ३७ ।।
महर्षयो वीतशोका वेदानुच्चैरधीयते ।
यज्ञेषु च हविः स्वादु शिवमश्नाति पावकः।।३८।।
प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः ।
प्रीत्या परमया युक्ता देवदेवस्य भूपते ।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ।। ३९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि द्विचत्वारिंशोऽध्यायः ।। ४२ ।।