हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ४३

← अध्यायः ४२ हरिवंशपुराणम्
अध्यायः ४३
वेदव्यासः
अध्यायः ४४ →
देवेभिः सार्द्धं युद्धाय उद्यतस्य दैत्यसैन्यस्य वर्णनम्

त्रिचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः ।
उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः ।। १ ।।
मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् ।
चतुश्चक्रं विक्रमन्तं सुकल्पितमहायुधम् ।। २ ।।
किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् ।
खचितं रत्नजालैश्च हेमजालैश्च भूषितम् ।। ३ ।।
स्वक्षं रथवरोदग्रं सूपस्थानमगोपमम् ।
ईहामृगगणाकीर्णं पक्षिभिश्च विराजितम् ।
दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् ।। ४ ।।
गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ।
हेमकेयूरवलयं स्वर्णमण्डलकूबरम् ।। ५ ।।
सपताकध्वजोदग्रं सादित्यमिव मन्दरम् ।
गजेन्द्राम्भोदसदृशं लम्बकेसरवर्चसम् ।। ६ ।।
युक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् ।
दीप्तमाकाशगं दिव्यं रथं पररथारुजम् ।। ७ ।।
अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ।
तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ।। ८ ।।
शैलोत्करसमाकीर्णं नीलाञ्जनचयोपमम् ।
काललोहाष्टचरणं लोहेषायुगकूबरम् ।
तिमिराङ्गारकिरणं गर्जन्तमिव तोयदम् ।। ९ ।।
लोहजालेन महता सगवाक्षेण दंशितम् ।
आयसैः परिघैः कीर्णं क्षेपणीयैस्तथाश्मभिः ।। 1.43.१० ।।
प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः ।
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः ।। ११ ।।
उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् ।
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ।। १२ ।।
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः ।
प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ।। १३ ।।
युक्तं हयसहस्रेण हयग्रीवस्तु दानवः ।
स्यन्दनं वाहयामास सपत्नानीकमर्दनः ।। १४ ।।
व्यायतं बहुसाहस्रं धनुर्विस्फारयन्महत्।
वराहः प्रमुखे तस्थौ सावरोह इवाचलः ।। १५ ।।
खरस्तु विक्षरन् दर्पान्नेत्राभ्यां रोषजं जलम् ।
स्फुरद्दन्तौष्ठवदनः संग्रामं सोऽभ्यकाङ्क्षत ।। १६ ।।
त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः ।
व्यूहितो दानवैर्व्यूहैः परिचक्राम वीर्यवान् ।। १७ ।।
विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः ।
श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः ।। १८ ।।
अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधैः ।
युद्धायातिष्ठदायस्तो धराधर इवापरः ।। १९ ।।
किशोरस्त्वतिसंहर्षात् किशोर इव चोदितः ।
अभवद् दैत्यसैन्यस्य मध्ये रविरिवोदितः ।। 1.43.२० ।।
लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः ।
दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ।। २१ ।।
स्वर्भानुर्वक्रयोधी तु दशनौष्ठेक्षणायुधः ।
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः ।। २२ ।।
अन्ये हयगता भान्ति नागस्कन्धगताः परे ।
सिंहव्याघ्रगताश्चान्ये वराहर्क्षगताः परे ।। २३ ।।
केचित् खरोष्ट्रयातारः केचित् तोयदवाहनाः ।
नानापक्षिगताश्चान्ये केचित् पवनवाहनाः ।। २४ ।।
पत्तयश्चापरे दैत्या भीषणा विकृताननाः ।
एकपादा द्विपादाश्च नर्दन्तो युद्धकाङ्क्षिणः ।। २५ ।।
प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च ते भुजान् ।
दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः ।। २६ ।।
ते गदापरिघैरुग्रैर्धनुर्व्यायामशालिनः ।
बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः ।। २७ ।।
प्रासैः पाशैश्च खड्गैश्च तोमराङ्कुशपट्टिशैः ।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ।। २८ ।।
गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायुधैः ।
चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलम् ।। २९ ।।
एवं तद् दानवं सैन्यं सर्वे युद्धबलोत्कटम् ।
देवताभिमुखं तस्थौ मेघानीकमिवोत्थितम् ।। 1.43.३० ।।
तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नितोयाम्बुदशैलकल्पम् ।
बलं रणौघाभ्युदयावकीर्णं युयुत्सयोन्मत्तमिवावभासे ।। ३१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।