हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः ५२

← अध्यायः ५१ हरिवंशपुराणम्
अध्यायः ५२
वेदव्यासः
अध्यायः ५३ →
भगवतः विष्णोः सर्वैः देवेभिः सह मेरुपर्वतस्य दिव्यां सभायां उपस्थानम्, तत्र पृथिव्या भगवन्तं भारस्य उद्धरणाय प्रार्थनम्

द्विपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
बाढमित्येव सह तैर्दुर्दिनाम्भोदनिःस्वनः ।
प्रतस्थे दुर्दिनाकारः सदुर्दिन इवाचलः ।। १ ।।
समुक्तामणिविद्योतं सचन्द्राम्भोदवर्चसम् ।
सजटामण्डलं कृत्स्नं स बिभ्रच्छ्रीधरो हरिः।। २ ।।
स चास्योरसि विस्तीर्णे रोमाञ्चोद्गतराजिमान् ।
श्रीवत्सो राजते श्रीमांस्तनद्वयमुखाञ्चितः ।। ३ ।।
पीते वसानो वसने लोकानां गुरुरव्ययः ।
हरिः सोऽभवदालक्ष्यः स संध्याभ्र इवाचलः।। ४ ।।
तं व्रजन्तं सुपर्णेन पद्मयोनिगतानुगम् ।
अनुजग्मुः सुराः सर्वे तद्गतासक्तचक्षुषः ।। ५ ।।
नातिदीर्घेण कालेन सम्प्राप्ता रत्नपर्वतम् ।
दडशुर्देवतास्तत्र तां सभां कामरूपिणीम् ।। ६ ।।
मेरोः शिखरविन्यस्तां संयुक्तां सूर्यवर्चसा ।
काञ्चनस्तम्भरचितां वज्रसंधानतोरणाम् ।। ७ ।।
मनोनिर्माणचित्राढ्यां विमानशतमालिनीम् ।
रत्नजालान्तरवतीं कामगां रत्नभूषिताम् ।। ८ ।।
क्लृप्तरत्नसमाकीर्णां सर्वर्तुकुसुमोत्कटाम् ।
देवमायाधरां दिव्यां विहितां विश्वकर्मणा ।। ९।।
तां हृष्टमनसः सर्वे यथास्थानं यथाविधि ।
यथानिदेशं त्रिदशा विविशुस्ते सभां शुभाम् ।। 1.52.१० ।।
ते निषेदुर्यथोक्तेषु विमानेष्वासनेषु च ।
भद्रासनेषु पीठेषु कुथास्वास्तरणेषु च ।।११ ।।
ततः प्रभञ्जनो वायुर्ब्रह्मणा साधु चोदितः ।
मा शब्दमिति सर्वत्र प्रचक्रामाथ तां सभाम् ।। १२ ।।
निःशब्दस्तिमिते तस्मिन्समाजे त्रिदिवौकसाम्।
बभाषे धरणी वाक्यं खेदात् करुणभाषिणी ।। १३ ।।
धरण्युवाच
त्वया धार्या त्वहं दैव त्वया वै धार्यते जगत् ।
त्वं धारयसि भूतानि भुवनानि बिभर्षि च ।।१४ ।।
यत् त्वया धार्यते किञ्चित्तेजसा च बलेन च ।
ततस्तव प्रसादेन मया यत्नाच्च धार्यते ।। १५ ।।
त्वया धृतं धारयामि नाधृतं धारयाम्यहम् ।
न हि तद् विद्यते भूतं यत् त्वया नानुधार्यते ।। १६ ।।
त्वमेव कुरुषे देव नारायण युगे युगे ।
मम भारावतरणं जगतो हितकाम्यया ।। १७ ।।
तवैव तेजसाऽऽक्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ।। १८ ।।
दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपयास्ये सनातनम् ।। १९ ।।
तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशो ह्युपलक्षये ।। 1.52.२० ।।
अहमादौ पुराणस्य संक्षिप्ता पद्मयोनिना ।
मां च बद्ध्वा कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ ।। २१ ।।
कर्णस्रोतोद्भवौ तौ हि विष्णोरस्य महात्मनः ।
महार्णवे प्रस्वपतः काष्ठकुण्ड्यसमौ स्थितौ ।। २२ ।।
तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः ।
दिवं प्रच्छादयन्तौ तु ववृधाते महासुरौ ।। २३ ।।
वायुप्राणौ तु तौ गृह्य ब्रह्मा पर्यमृशच्छनैः ।
एकं मृदुतरं मेने कठिनं वेद चापरम् ।। २४ ।।
नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः ।
मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत् ।। २५ ।।
तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पिंतौ ।
सर्वमेकार्णवं लोकं योद्धुकामौ सुदुर्जयौ ।। २६ ।।
तावागतौ समालोक्य ब्रह्मा लोकपितामहः ।
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत ।। २७ ।।
स पद्मे पद्मनाभस्य नाभिमध्यात् समुत्थिते ।
रोचयामास वसतिं गुह्यां ब्रह्मा चतुर्मुखः ।। २८ ।।
तावुभौ जलगर्भस्थौ नारायणपितामहौ ।
बहून् वर्षगणानप्सु शयानौ न चकम्पतुः ।। २९ ।।
अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ ।
आजग्मतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः ।। 1.52.३० ।।
दृष्ट्वा तावसुरौ घोरौ महाकायौ दुरासदौ ।
ब्रह्मणा ताडितो विष्णुः पद्मनालेन वै तदा ।
उत्पपाताथ शयनात् पद्मनाभो महाद्युतिः ।। ३१ ।।
तद् युद्धमभवद् घोरं तयोस्तस्य च वै तदा ।
एकार्णवे तदा लोके त्रैलोक्ये जलतां गते ।। ३२ ।।
तदाभूत् तुमुलं युद्धं वर्षसंख्या सहस्रशः ।
न च तावसुरौ युद्धे तदा श्रममवापतुः ।। ३३ ।।
अथातो दीर्घकालस्य तौ दैत्यौ युद्धदुर्मदौ ।
ऊचतुः प्रीतमनसौ देवं नारायणं हरिम् ।। ३४ ।।
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ।। ३५ ।।
हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम ।
यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ।। ३६ ।।
स तु गृह्य मृधे दोर्भ्यां दैत्यौ तावभ्यपीडयत् ।
जग्मतुर्निधनं चापि तावुभौ मधुकैटभौ ।। ३७ ।।
तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ।
मेदो मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः ।। ३८ ।।
मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे ततः ।
नारायणश्च भगवानसृजत् स पुनः प्रजाः ।। ३९ ।।
दैत्ययोर्मेदसाच्छना मेदिनीति ततः स्मृता ।
प्रभावात्पद्मनाभस्य शाश्वती जगती कृता ।। 1.52.४० ।।
वराहेण पुरा भूत्वा मार्कण्डेयस्य पश्यतः ।
विषाणेनाहमेकेन तोयमध्यात् समुद्धृता ।। ४१ ।।
हृताहं क्रमता भूयस्तदा युष्माकमग्रतः ।
बलेः सकाशाद्दैत्यस्य विष्णुना प्रभविष्णुना ।। ४२ ।।
साम्प्रतं खिद्यमानाहमेनमेव गदाधरम् ।
अनाथा जगतो नाथ शरण्यं शरणं गता ।। ४३ ।।
अग्निः सुवर्णस्य गुरुर्गवां सूर्यो गुरुः स्मृतः ।
नक्षत्राणां गुरुः सोमो मम नारायणो गुरुः ।। ४४ ।।
यदहं धारयाम्येका जगत् स्थावरजङ्गमम् ।
मया धृतं धारयते सर्वमेतद् गदाधरः ।। ४५ ।।
जामदग्न्येन रामेण भारावतरणेप्सया ।
रोषात् त्रिःसप्तकृत्वोऽहं क्षत्रियैर्विप्रयोजिता ।। ४६ ।।
सास्मि वेद्यां समारोप्य तर्पिता नृपशोणितैः ।
भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता ।। ४७ ।।
मांसमेदोऽस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः ।
रजस्वलेव युवतिः कश्यपं समुपस्थिता ।। ४८ ।।
स मां ब्रह्मर्षिरप्याह किमुर्वि त्वमवाङ्मुखी।
वीरपत्नीव्रतमिदं धारयन्ती विषीदसि ।। ४९ ।।
साहं विज्ञापितवती कश्यपं लोकभावनम् ।
पतयो मे हता ब्रह्मन् भार्गवेण महात्मना ।। 1.52.५० ।।
साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः ।
विधवा शून्यनगरा न धारयितुमुत्सहे ।। ५१ ।।
तन्मह्यं दीयतां भर्ता भगवंस्त्वत्समो नृपः ।
रक्षेत् सग्रामनगरां यो मां सागरमालिनीम् ।। ५२ ।।
स श्रुत्वा भगवान्वाक्यं बाढमित्यब्रवीत्प्रभुः ।
ततो मां मानवेन्द्राय मनवे स प्रदत्तवान् ।। ५३ ।।
सा मनुप्रभवं दिव्यं प्राप्येक्ष्वाकुकुलं नृपम् ।
विपुलेनास्मि कालेन पार्थिवात् पार्थिवं गता ।। ५४ ।।
एवं दत्तास्मि मनवे मानवेन्द्राय धीमते ।
भुक्ता राजसहस्रैश्च महर्षिकुलसम्मितैः ।। ५५ ।।
बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः ।
ते च कालवशं प्राप्य मय्येव प्रलयं गताः ।। ५६ ।ऽ।
मत्कृते विग्रहा लोके वृत्ता वर्तन्त एव च ।
क्षत्रियाणां बलवतां संग्रामेष्वनिवर्तिनाम् ।। ५७ ।।
एतद् युष्मत्प्रवृत्तेन दैवेन परिपाल्यते ।
जगद्धितार्थं कुरुत राज्ञां हेतुं रणक्षये ।। ५८ ।।
यद्यस्ति मयि कारुण्यं भारशैथिल्यकारणात् ।
एकश्चक्रधरः श्रीमानभयं मे प्रयच्छतु ।। ५९ ।।
यमहं भारसंतप्ता सम्प्राप्ता शरणार्थिनी ।
भारो यद्यवरोप्तव्यो विष्णुरेष ब्रवीतु माम् ।। 1.52.६० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि धरणीवाक्ये द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।