प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५३ हरिवंशपुराणम्
अध्यायः ५४
वेदव्यासः
अध्यायः ५५ →
भगवतः विष्णोः प्रति देवर्षेः नारदस्य वचनम् - भूर्लोकस्य वर्तमानावस्थायाः परिचयं दत्त्वा भगवन्तं अवतारग्रहणाय प्रेरणम्

चतुष्पञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
कृतकार्ये गते काले जगत्यां च यथानयम् ।
अंशावतरणे वृत्ते सुराणां भारते कुले ।। १ ।।
भागेऽवतीर्णे धर्मस्य शक्रस्य पवनस्य च ।
अश्विनोर्देवभिषजोर्भागे वै भास्करस्य च ।। २ ।।
पूर्वमेवावनिगते भागे देवपुरोधसः ।
वसूनामष्टमे भागे प्रागेव धरणीं गते ।। ३ ।।
मृत्योर्भागे क्षितिगते कलेर्भागे तथैव च ।
भागे शुक्रस्य सोमस्य वरुणस्य च गां गते ।। ४ ।।
शङ्करस्य गते भागे मित्रस्य धनदस्य च ।
गन्धर्वोरगयक्षाणां भागांशेषु गतेषु च ।। ५ ।।
भागेष्वेतेषु गगनादवतीर्णेषु मेदिनीम् ।
तिष्ठन्नारायणस्यांशे नारदः समदृश्यत ।। ६ ।।
ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः ।
सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन् ।। ७ ।।
चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषितः ।
वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव ।। ८ ।।
कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान् ।
दण्डी कमण्डलुधरः साक्षाच्छक्र इवापरः ।। ९ ।।
भेत्ता जगति गुह्यानां विग्रहाणां ग्रहोपमः ।
गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् ।
महर्षिर्विग्रहरुचिर्विद्वान् गान्धर्वकोविदः ।। 1.54.१० ।।
वैरिकेलिकिलो विप्रो ब्राह्मः कलिरिवापरः ।
देवगन्धर्वलोकानामादिवक्ता महामुनिः ।। ११ ।।
स नारदोऽथ ब्रह्मर्षिर्ब्रह्मलोकचरोऽव्ययः ।
स्थितो देवसभामध्ये संरब्धो विष्णुमब्रवीत् ।। १२
अंशावतरणं विष्णो यदिदं त्रिदशैः कृतम् ।
क्षयार्थे पृथिवीन्द्राणां सर्वमेतदकारणम् ।। १३ ।।
यदेतत् पार्थिवं क्षत्रं स्थितं त्वयि यदीश्वर ।
नृनारायणयुक्तोऽयं कार्यार्थः प्रतिभाति मे ।। १४ ।।
न युक्तं जानता देव त्वया तत्त्वार्थदर्शिना ।
देवदेव पृथिव्यर्थे प्रयोक्तुं कार्यमीदृशम् ।। १५ ।।
त्वं हि चक्षुष्मतां चक्षुः श्लाघ्यः प्रभवतां प्रभुः ।
श्रेष्ठो योगवतां योगी गतिर्गतिमतामपि ।। १६ ।।
देवभागान् गतान्दृष्ट्वा किं त्वं सर्वाश्रयो विभुः ।
वसुन्धरायाः साह्यार्थमंशं स्वं नानुयुञ्जसे ।। १७ ।।
त्वया सनाथा देवांशास्त्वन्मयास्त्वत्परायणाः ।
जगत्यां संचरिष्यन्ति कार्यात् कार्यान्तरं गताः।। १८ ।।
तदहं त्वरया विष्णो प्राप्तः सुरसभामिमाम् ।
तव संचोदनार्थं वै शृणु चाप्यत्र कारणम् ।। १९ ।।
ये त्वया निहता दैत्याः संग्रामे तारकामये ।
तेषां शृणु गतिं विष्णो ये गताः पृथिवीतलम् ।।1.54.२० ।।
पुरी पृथिव्यां मुदिता मथुरानामतः श्रुता ।
निविष्टा यमुनातीरे स्फीता जनपदायुता ।। २१ ।।
मधुर्नाम महानासीद् दानवो युधि दुर्जयः ।
त्रासनः सर्वभूतानां बलेन महतान्वितः ।। २२ ।।
तस्य तत्र महच्चासीन्महापादपसंकुलम् ।
घोरं मधुवनं नाम यत्रासौ न्यवसत् पुरा ।। २३ ।।
तस्य पुत्रो महानासील्लवणो नाम दानवः ।
त्रासनः सर्वभूतानां महाबलपराक्रमः ।। २४ ।।
स तत्र दानवः क्रीडन् वर्षपूगाननेकशः ।
स दैवतगणाँल्लोकानुद्वासयति दर्पितः ।। २५ ।।
अयोध्यायामयोध्यायां रामे दाशरथौ स्थिते ।
राज्यं शासति धर्मज्ञे राक्षसानां भयावहे ।। २६ ।।
स दानवो बलश्लाघी घोरं वनमुपाश्रितः ।
प्रेषयामास रामाय दूतं प्ररुषवादिनम् ।। २७ ।।
विषयासन्नभूतोऽस्मि तव राम रिपुश्च ह ।
न च सामन्तमिच्छन्ति राजानो बलदर्पितम् ।। २८ ।।
राज्ञा राज्यव्रतस्थेन प्रजानां हितकाम्यया ।
जेतव्या रिपवः सर्वे स्फीतं विषयमिच्छता ।। २९ ।।
अभिषेकार्द्रकेशेन राज्ञा रञ्जनकाम्यया ।
जेतव्यानीन्द्रियाण्यादौ तज्जये हि ध्रुवो जयः ।। 1.54.३० ।।
सम्यग् वर्तितुकामस्य विशेषेण महीपतेः ।
नयानामुपदेशेन नास्ति लोकसमो गुरुः ।। ३१ ।।
व्यसनेषु जघन्यस्य धर्ममध्यस्य धीमतः ।
बलज्येष्ठस्य नृपतेर्नास्ति सामन्तजं भयम् ।। ३२ ।।
सहजैर्बाध्यते सर्वः प्रवृद्धैरिन्द्रियादिभिः ।
अमित्राणां प्रियकरैर्मोहैरधृतिरीश्वरः ।। ३३ ।।
यत् त्वया स्त्रीकृते मोहात्सगणो रावणो हतः ।
नैतदौपयिकं मन्ये महद् वै कर्म कुत्सिनम्।। ३४ ।।
वनवासप्रवृत्तेन यत् त्वया व्रतशालिना ।
प्रहृतं राक्षसानीके नैव दृष्टः सतां विधिः ।। ३५ ।।
सतामक्रोधजो धर्मः शुभां नयति सद्गतिम् ।
यत् त्वया निहता मोहाद् दूषिताश्चाश्रमौकसः।। ३६ ।।
स एष रावणो धन्यो यस्त्वया व्रतचारिणा ।
स्त्रीनिमित्ते हतो युद्धे ग्राम्यान् धर्मानवेक्षता ।। ३७ ।।
यदि ते निहतः संख्ये दुर्बुद्धिरजितेन्द्रियः ।
युध्यस्वाद्य मया सार्धं मृधे यद्यसि वीर्यवान् ।। ३८ ।।
तस्य दूतस्य तच्छ्रुत्वा भाषितं रूक्षवादिनः ।
धैर्यादसम्भ्रान्तवपुः सस्मितं राघवोऽब्रवीत् ।। ३९ ।।
असदेतत् त्वया दूत भाषितं तस्य गौरवात् ।
यन्मां क्षिपसि दोषेण वेदात्मानं च सुस्थिरम्।। 1.54.४० ।।
यद्यहं सत्पथे मूढो यदि वा रावणो हतः ।
यदि वा मे हृता भार्या का तत्र परिदेवना ।। ४१ ।।
न वाङ्मात्रेण दुष्यन्ति साधवः सत्पथे स्थिताः ।
जागर्ति च यथा देवः सदा सत्स्वितरेषु च ।। ४२ ।।
कृतं दूतेन यत्कार्यं गच्छ त्वं दूत मा चिरम् ।
नात्मश्लाघिषु नीचेषु दृढे प्रहरन्तीह मद्विधाः ।। ४३ ।।
अयं ममानुजो भ्राता शत्रुघ्नः शत्रुतापनः ।
तस्य दैत्यस्य दुर्बुद्धेर्मृधे प्रतिकरिष्यति ।। ४४ ।।
एवमुक्तः स दूतस्तु ययौ सौमित्रिणा सह ।
अनुज्ञातो नरेन्द्रेण राघवेण महात्मना ।। ४५ ।।
स शीघ्रयानः सम्प्राप्तस्तद् दानवपुरं महत् ।
चक्रे निवेशं सौमित्रिर्वनान्ते युद्धलालसः ।। ४६ ।।
ततो दूतस्य वचनात् स दैत्यः क्रोधमूर्च्छितः ।
पृष्ठतस्तद्वनं कृत्वा युद्धायाभिमुखः स्थितः ।। ४७ ।।
तद् युद्धमभवद् घोरं सौमित्रेर्दानवस्य च ।
उभयोरेव बलिनोः शूरयो रणमूर्धनि ।। ४८ ।।
तौ शरैः साधु निशितैरन्योन्यमभिजघ्नतुः ।
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः ।। ४९ ।।
अथ सौमित्रिणा बाणैः पीडितो दानवो युधि ।
ततः स शूलरहितः पर्यहीयत दानवः ।। 1.54.५० ।।
स गृहीत्वाङ्कुशं चैव दैवैर्दत्तवरं रणे ।
कर्षणं सर्वभूतानां लवणो विररास ह ।। ५१ ।।
शिरोधरायां जग्राह सोऽङ्कुशेन चकर्ष ह ।
प्रवेशयितुमारब्धो लवणो राघवानुजम् ।। ५२ ।।
स रुक्मत्सरुमुद्यम्य शत्रुघ्नः खड्गमुत्तमम्।
शिरश्चिच्छेद खङ्गेन लवणस्य महामृधे ।। ५३ ।।
स हत्वा दानवं संख्ये सौमित्रिर्मित्रवत्सलः ।
तद् वनं तस्य दैत्यस्य चिच्छेदास्त्रेण बुद्धिमान् ।। ५४ ।।
छित्त्वा वनं तत् सौमित्रिर्निवेशं सोऽभ्यरोचयत् ।
भवाय तस्य देशस्य पुर्याः प्ररूमधर्मवित् ।। ५५ ।।
तस्मिन् मधुवनस्थाने मथुरा नाम सा पुरी ।
शत्रुघ्नेन पुरा सृष्टा हत्वा तं दानवं रणे ।। ५६ ।।
सा पुरी परमोदारा साट्टप्राकारतोरणा ।
स्फीता राष्ट्रसमाकीर्णा समृद्धबलवाहना ।।५७ ।।
उद्यानवनसम्पन्ना सुसीमा सुप्रतिष्ठिता ।
प्रांशुप्राकारवसना परिखाकुलमेखला ।। ५८।।
चयाट्टालककेयूरा प्रासादवरकुण्डला ।
सुसंवृतद्वारमुखा चत्वरोद्गारहासिनी ।। ५९ ।।
अरोगवीरपुरुषा हस्त्यश्वरथसंकुला ।
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।। 1.54.६० ।।
पुण्यापणवती दुर्गा रत्नसंचयगर्विता ।
क्षेत्राणि सस्यवन्त्यस्याः काले देवश्च वर्षति ।। ६१ ।।
नरनारीप्रमुदिता सा पुरी स्म प्रकाशते ।
निविष्टविषयश्चैव शूरसेनस्ततोऽभवत् ।। ६२ ।।
तस्य पुर्यां महावीर्यो राजा भोजकुलोद्वहः ।
उग्रसेन इति ख्यातो महासेनपराक्रमः ।। ६३ ।।
तस्य पुत्रत्वमापन्नो योऽसौ विष्णो त्वया हतः ।
कालनेमिर्महादैत्यः संग्रामे तारकामये ।। ६४ ।।
कंसो नाम विशालाक्षो भोजवंशविवर्धनः ।
राजा पृथिव्यां विख्यातः सिंहविस्पष्टविक्रमः ।। ६५ ।।
राज्ञां भयकरो घोरः शङ्कनीयो महीक्षिताम् ।
भयदः सर्वभूतानां सत्पथाद् बाह्यतां गतः।।६६।।
दारुणाभिनिवेशेन दारुणेनान्तरात्मना ।
युक्तस्तेनैव दर्पेण प्रजानां रोमहर्षणः ।।६७ ।।
न राजधर्माभिरतो नात्मपक्षसुखावहः ।
नात्मराज्ये प्रियकरश्चण्डः कररुचिः सदा ।। ६८ ।।
स कंसस्तत्र सम्भूतस्त्वया युद्धे पराजितः ।
क्रव्यादो बाधते लोकानासुरेणान्तरात्मना ।। ६९ ।।
योऽप्यसौ हयविक्रान्तो हयग्रीव इति स्मृतः ।
केशी नाम हयो जातः स तस्यैव जघन्यजः ।। 1.54.७०।।
स दुष्टो ह्रेषितपटुः केसरी निरवग्रहः ।
वृन्दावने वसत्येको नृणां मांसानि भक्षयन् ।। ७१ ।।
अरिष्टो बलिपुत्रश्च ककुद्मी वृषरूपधृक् ।
गवामरित्वमापन्नः कामरूपी महासुरः ।। ७२ ।।
रिष्टो नाम दितेः पुत्रो वरिष्ठो दानवेषु यः ।
स कुञ्जरत्वमापन्नो दैत्यः कंसस्य वाहनः ।। ७३।।
लम्बो नामेति विख्यातो योऽसौ दैत्येषु दर्पितः ।
प्रलम्बो नाम दैत्योऽसौ वटं भाण्डीरमाश्रितः ।। ७४।।
खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः ।
घोरं तालवनं दैत्यश्चरत्युद्वासयन् प्रजाः ।। ७५ ।।
वाराहश्च किशोरश्च दानवौ यो महाबलौ ।
मल्लौ रङ्गगतौ तौ तु जातौ चाणूरमुष्टिकौ ।। ७६ ।।
यौ तौ मयश्च तारश्च दानवौ दानवान्तक ।
प्राग्ज्योतिषे तौ भौमस्य नरकस्य पुरे रतौ ।। ७७ ।।
एते दैत्या विनिहतास्त्वया विष्णो निराकृताः ।
मानुषं वपुरास्थाय बाधन्ते भुवि मानुषान् ।। ७८।।
त्वत्कथाद्वेषिणः सर्वे त्वद्भक्तान् घ्नन्ति मानुषान् ।
तव प्रसादात् तेषां वै दानवानां क्षयो भवेत् ।। ७९ ।।
त्वत्तस्ते बिभ्यति दिवि त्वत्तो बिभ्यति सागरे ।
पृथिव्यां तव बिभ्यन्ति नान्यतस्तु कदाचन ।। 1.54.८० ।।
दुर्वृत्तस्य हतस्यापि त्वया नान्येन श्रीधर ।
दिवश्च्युतस्य दैत्यस्य गतिर्भवति मेदिनी ।। ८१ ।।
व्युत्थितस्य च मेदिन्यां हतस्य नृशरीरिणः ।
दुर्लभं स्वर्गगमनं त्वयि जाग्रति केशव ।। ८२ ।।
तदागच्छ स्वयं विष्णो गच्छामः पृथिवीतलम् ।
दानवानां विनाशाय विसृजात्मानमात्मना ।। ८३ ।।
मूर्तयो हि तवाव्यक्ता दृश्यादृश्याः सुरोत्तमैः ।
तासु सृष्टास्त्वया देवाः सम्भविष्यन्ति भूतले ।। ८४ ।।
तवावतरणे विष्णो कंसः स विनशिष्यति ।
सेत्स्यते च स कार्यार्थो यस्यार्थे भूमिरागता ।। ८५ ।।
त्वं भारते कार्यगुरुस्त्वं चक्षुस्त्वं परायणम् ।
तदागच्छ हृषीकेश क्षितौ ताञ्जहि दानवान् ।। ८६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि नारदवाक्ये चतुष्पञ्चाशत्तमोऽऽध्यायः ।। ५४ ।।