प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ००४ हरिवंशपुराणम्
अध्यायः ००५
वेदव्यासः
अध्यायः ००६ →
वसुदेवेन नन्दाय व्रजे प्रत्यागमनस्य सम्मतिः, नन्दस्य गोव्रजस्य शोभायाः अवलोकनम् तत्रागमनम् च।

पञ्चमोऽध्यायः

वैशम्पायन उवाच
प्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम् ।
प्रज्ञातां पुत्रमेवाग्रे चन्द्रात् कान्ततराननम्।। १ ।।
स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा।
गच्छानया सहैव त्वं व्रजमेव यशोदया।।२।।
तत्र तौ दारकौ गत्वा जातकर्मादिभिर्गुणैः ।
योजयित्वा व्रजे तात संवर्धय यथासुखम् ।। ३ ।।
रौहिणेयं च पुत्रं मे परिरक्ष शिशुं व्रजे ।
अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम् ।। ४ ।।
योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् ।
ह्रियते हि बलात्प्रज्ञा प्राज्ञस्यापि सतो मम ।। ५ ।।
अस्माद्धि मे भयं कंसान्निर्घृणाद् वै शिशोर्वधे ।
तद्यथा रौहिणेयं त्वं नन्दगोप ममात्मजम् ।। ६ ।।
गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु ।
विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि ।। ७।।
स च पुत्रो मम ज्यायान् कनीयांश्च तथाप्ययम् ।
उभावपि समं नाम्ना निरीक्षस्व यथासुखम् ।। ८ ।।
वर्धमानामुभावेतौ समानवयसौ यथा ।
शोभेतां गोव्रजे तस्मिन् नन्दगोप तथा कुरु ।।९ ।।
बाल्ये केलिकिलः सर्वो बाल्ये मुह्यति मानवः ।
बाल्ये चण्डतमः सर्वस्तत्र यत्नपरो भव ।। 2.5.१० ।।
न च वृन्दावने कार्यो गवां घोषः कथंचन ।
भेतव्यं तत्र वसतः केशिनः पापदर्शिनः ।। ११ ।।
सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस्तथैव च ।
गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाविमौ शिशू।। १२।।
नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः ।
इमे त्वां व्याहरन्तीव पक्षिणः सव्यदक्षिणाः ।। १३ ।।
रहस्यं वसुदेवेन सोऽनुज्ञातो महात्मना ।
यानं यशोदया सार्धमारुरोह मुदान्वितः ।।१४ ।।
कुमारस्कन्धवाह्यायां शिबिकायां समाहितः ।
संवेशयामास शिशुं शयनीयं महामतिः ।। १५ ।।
जगाम च विविक्तेन शीतलानिलसर्पिणा ।
बहूदकेन मार्गेण यमुनातीरगामिना ।। १६ ।।
स ददर्श शुभे देशे गोवर्धनसमीपगे ।
यमुनातीरसम्बद्धं शीतमारुतसेवितम् ।। १७ ।।
विरुतश्वापदै रम्यं लतावल्लीमहाद्रुमम्।
गोभिस्तृणविलग्नाभिः स्यन्दन्तीभिरलंकृतम् ।। १८ ।।
समप्रचारं च गवां समतीर्थजलाशयम् ।
वृषाणां स्कन्धघातैश्च विषाणोद्घृष्टपादपम् ।। १९ ।।
भासामिषादानुसृतैः श्येनैश्चामिषगृध्नुभिः ।
सृगालमृगसिंहैश्च वसामेदाशिभिर्वृतम् ।। 2.5.२० ।।
शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम् ।
स्वादुवृक्षफलं रम्यं पर्याप्ततृणवीरुधम् ।। २१ ।।
गोव्रजं गोरुतं रम्यं गोपनारीभिरावृतम् ।
हम्भारवैश्च वत्सानां सर्वतः कृतनिःस्वनम् ।। २२ ।।
शकटावर्तविपुलं कण्टकीवाटसंकुलम् ।
पर्यन्तेष्वावृतं वन्यैर्बृहद्भिः पतितैर्द्रुमैः ।। २३ ।।
वत्सानां रोपितैः कीलैर्दामभिश्च विभूषितम् ।
करीषाकीर्णवसुधं कटच्छन्नकुटीमठम् ।। २४ ।।
क्षेम्यप्रचारबहुलं हृष्टपुष्टजनावृतम् ।
दामनीपाशबहुलं गर्गरोद्गारनिःस्वुनम् ।। २५ ।।
तक्रनिःस्रावबहुलं दधिमण्डार्द्रमृत्तिकम् ।
मन्थानवलयोद्गारैर्गोपीनां जनितस्वनम् ।। २६ ।।
काकपक्षधरैर्बालैर्गोपालक्रीडनाकुलम् ।
सार्गलद्वारगोवाटं मध्ये गोस्थानसंकुलम् ।। २७ ।।
सर्पिषा पच्यमानेन सुरभीकृतमारुतम् ।
नीलपीताम्बराभिश्च तरुणीभिरलंकृतम् ।। २८ ।।
वन्यपुष्पावतंसाभिर्गोपकन्याभिरावृतम् ।
शिरोभिर्धृतकुम्भाभिर्बद्धैरग्रस्तनाम्बरैः ।। २९ ।।
यमुनातीरमार्गेण जलहारीभिरावृतम् ।
स तत्र प्रविशन् हृष्टो गोव्रजं गोपनादितम् ।। 2.5.३० ।।
प्रत्युद्गतो गोपवृद्धैः स्त्रीभिर्वृद्धाभिरेव च ।
निवेशं रोचयामास परिवर्ते सुखाश्रये ।। ३१ ।।
सा यत्र रोहिणी देवी वसुदेवसुखावहा ।
तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् ।। ३२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोव्रजगमनं नाम पञ्चमोऽध्यायः ।। ५ ।।