हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ००६

← अध्यायः ००५ हरिवंशपुराणम्
अध्यायः ००६
वेदव्यासः
अध्यायः ००७ →
शकटभञ्जनम् पूतनावधं च

षष्ठोऽध्यायः

वैशम्पायन उवाच
तत्र तस्यासतः कालः सुमहानत्यवर्तत ।
गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः ।। १ ।।
दारकौ कृतनामानौ ववृधाते सुखं च तौ ।
ज्येष्ठः संकर्षणो नाम कनीयान् कृष्ण एव तु ।। २ ।।
मेघकृष्णस्तु कृष्णोऽभूद् देहान्तरगतो हरिः ।
व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः ।। ३ ।।
शकटस्य त्वधः सुप्तं कदाचित् पुत्रगृद्धिनी ।
यशोदा तं समुत्सृज्य जगाम यमुनां नदीम् ।। ४ ।।
शिशुलीलां ततः कुर्वन्स हस्तचरणौ क्षिपन् ।
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ।। ५ ।।
स तत्रैकेन पादेन शकटं पर्यवर्तयत् ।
न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ।। ६ ।।
एतस्मिन्नन्तरे प्राप्ता यशोदा भयविक्लवा ।
स्नाता प्रस्रवदिग्धाङ्गी बद्धवत्सेव सौरभी ।। ७ ।।
सा ददर्श विपर्यस्तं शकटं वायुना विना ।
हाहेति कृत्वा त्वरिता दारकं जगृहे तदा ।। ८ ।।
न सा बुबोध तत्त्वेन शकटं परिवर्तितम् ।
स्वस्ति मे दारकायेति प्रीता भीता च साभवत्।। ९ ।।
किं तु वक्ष्यति ते पुत्र पिता परमकोपनः ।
त्वय्यधःशकटे सुप्ते अकस्माच्च विलोडिते ।। 2.6.१० ।।
किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम् ।
पर्यस्ते शकटे पुत्र या त्वां पश्याम्यपावृतम् ।। ११।।
एतस्मिन्नन्तरे गोभिराजगाम वनेचरः ।
काषायवाससी बिभ्रन् नन्दगोपो व्रजान्तिकम् ।। १२ ।।
स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम्।
अपास्तधूर्विभिन्नाक्षं शकटं चक्रमौलिनम्।। १३ ।।
भीतस्त्वरितमागत्य सहसा साधुलोचनः ।
अपि मे स्वस्तिपुत्रायेत्यसकृद् वचनं वदन् ।। १४ ।।
पिबन्तं स्तनमालक्ष्य पुत्रं स्वस्थोऽब्रवीत्पुनः ।
वृषयुद्धं विना केन पर्यस्तं शकटं मम ।। १५ ।।
प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी ।
न विजानाम्यहं केन शकटं परिवर्तितम् ।। १६ ।।
अहं नदी गता सौम्य चैलप्रक्षालनार्थिनी ।
आगता च विपर्यस्तमपश्यं शकटं भुवि ।। १७ ।।
तयोः कथयतोरेवमब्रुवंस्तत्र दारकाः ।
अनेन शिशुना यानमेतत् पादेन लोडितम्।। १८ ।।
अस्माभिः सम्पतद्भिश्च दृष्टमेतद् यदृच्छया ।
नन्दगोपस्तु तच्छ्रुत्वा विस्मयं परमं ययौ ।। १९ ।।
प्रहृष्टश्चैव भीतश्च किमेतदिति चिन्तयन् ।
न च ते श्रद्दधुर्गोपाः सर्वे मानुषबुद्धयः ।। 2.6.२० ।।
आश्चर्यमिति ते सर्वे विस्मयोत्फुल्ललोचनाः ।
स्वे स्थाने शकटं स्थाप्य चक्रबन्धमकारयन् ।। २१ ।।
वैशम्पायन उवाच
कस्यचित्त्वथ कालस्य शकुनी वेषधारिणी ।
धात्री कंसस्य भोजस्य पूतनेति परिश्रुता ।। २२।।
पूतना नाम शकुनी घोरा प्राणिभयंकरी ।
आजगामार्द्धरात्रे वै पक्षौ क्रोधाद् विधुन्वती ।। २३ ।।
ततोऽर्धरात्रसमये पूतना प्रत्यदृश्यत ।
व्याघ्रगम्भीरनिर्घोषं व्याहरन्ती पुनः पुनः ।। २४ ।।
निलिल्ये शकटस्याक्षे प्रस्रवोत्पीडवर्षिणी ।
ददौ स्तनं च कृष्णाय तस्मिन् सुप्ते जने निशि।। २५ ।।
तस्याः स्तनं पपौ कृष्णः प्राणैः सह विनद्य च ।
छिन्नस्तनी तु सहसा पपात शकुनी भुवि ।। २६ ।।
तेन शब्देन वित्रस्तास्ततो बुबुधिरे भयात्।
स नन्दगोपो गोपा वै यशोदा च सुविक्लवा ।। २७ ।।
ते तामपश्यन् पतितां विसंज्ञां विपयोधराम् ।
पूतनां पतितां भूमौ वज्रेणेव विदारिताम् ।। २८ ।।
इदं किं त्विति संत्रस्ताः कस्येदं कर्म चेत्यपि ।
नन्दगोपं पुरस्कृत्य गोपास्ते पर्यवारयन् ।। २९ ।।
नाध्यगच्छन्त च तदा हेतुं तत्र कदाचन ।
आश्चर्यमाश्चर्यमिति ब्रुवन्तोऽनुययुर्गृहान् ।। 2.6.३० ।।
गतेषु तेषु गोपेषु विस्मितेषु यथागृहम् ।
यशोदां नन्दगोपस्तु पप्रच्छ गतसम्भ्रमः ।। ३१ ।।
कोऽयं विधिर्न जानामि विस्मयो मे महानयम् ।
पुत्रस्य मे भयं तीव्रं भीरुत्वं समुपागतम् ।। ३२ ।।
यशोदा त्वब्रवीद् भीता नार्य जानामि किं त्विदम्।
दारकेण सहानेन सुप्ता शब्देन बोधिता ।। ३३ ।।
यशोदायामजानन्त्यां नन्दगोपः सबान्धवः ।
कंसाद् भयं चकारोग्रं विस्मयं च जगाम ह ।। ३४।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां शकटभङ्गपूतनावधे षष्ठोऽध्यायः ।। ६ ।।