प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ००६ हरिवंशपुराणम्
अध्यायः ००७
वेदव्यासः
अध्यायः ००८ →
श्रीकृष्णबलरामाभ्यां व्रजे जानुभ्यां रिङ्गणम् एवं श्रीकृष्णेन आत्मानं उलूखले बद्ध्वा यमलार्जुनभङ्गकरणम्

सप्तमोऽध्यायः

वैशम्पायन उवाच
काले गच्छति तौ सौम्यौ दारकौ कृतनामकौ ।
कृष्णसंकर्षणौ चोभौ रिङ्गिणौ समपद्यताम् ।। १ ।।
तावन्योन्यगतौ बालौ बाल्यादेवैकतां गतौ ।
एकमूर्तिधरौ कान्तौ बालचन्द्रार्कवर्चसौ ।। २ ।।
एकनिर्माणनिर्मुक्तावेकशय्यासनाशनौ ।
एकवेषधरावेकं पुष्यमाणौ शिशुव्रतम् ।। ३ ।।
एककार्यान्तरगतावेकदेहौ द्विधाकृतौ ।
एकचर्यौ महावीर्यावेकस्य शिशुतां गतौ ।। ४ ।।
एकप्रमाणौ लोकानां देववृत्तान्तमानुषौ ।
कृत्स्नस्य जगतो गोपौ संवृत्तौ गोपदारकौ ।। ५ ।।
अन्योन्यव्यतिषक्ताभिः क्रीडाभिरभिशोभितौ ।
अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवाम्बरे ।। ६ ।।
विसर्पन्तौ तु सर्वत्र सर्पभोगभुजावुभौ ।
रेजतुः पांसुदिग्धाङ्गौ दृप्तौ कलभकाविव ।। ७ ।।
क्वचिद् भस्मप्रदीप्ताङ्गौ करीषप्रोक्षितौ क्वचित्।
तौ तत्र पर्यधावेतां कुमाराविव पावकी ।। ८ ।।
क्वचिज्जानुभिरुद्घृष्टैः सर्पमाणौ विरेजतुः ।
क्रीडन्तौ वत्सशालासु शकृद्दिग्धाङ्गमूर्धजौ ।। ९ ।।
शुशुभाते श्रिया जुष्टावानन्दजननौ पितुः ।
जनं च विप्रकुर्वाणौ विहसन्तौ क्वचित्क्वचित्।। 2.7.१० ।।
तौ तत्र कौतूहलिनौ मूर्धजव्याकुलेक्षणौ ।
रेजतुश्चन्द्रवदनौ दारकौ सुकुमारकौ ।। ११ ।।
अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ ।
नाशकत् तौ वारयितुं नन्दगोपः सुदुर्मदौ ।। १२ ।।
ततो यशोदा संक्रुद्धा कृष्णं कमललोचनम् ।
आनाय्य शकटीमूले भर्त्सयन्ती पुनः पुनः ।। १३ ।।
दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुलूखले ।
यदि शक्तोऽसि गच्छेति तमुक्त्वा कर्म साकरोत्।।१४।।
व्यग्रायां तु यशोदायां निर्जगाम ततोऽङ्गणात् ।
शिशुलीलां ततः कुर्वन्कृष्णो विस्मापयन्व्रजम्।
सोऽङ्गणान्निःसृतः कृष्णः कर्षमाण उलूखलम्।। १५ ।।
यमलाभ्यां प्रवृद्धाभ्यामर्जुनाभ्यां चरन् वने ।
मध्यान्निश्चक्राम तयोः कर्षमाण उलूखलम् ।। १६ ।।
तत्तस्य कर्षतो बद्धं तिर्यग्गतमुलूखलम् ।
लग्नं ताभ्यां समूलाभ्यामर्जुनाभ्यां चकर्ष च ।। १७ ।।
तावर्जुनौ कृष्यमाणौ तेन बालेन रंहसा ।
समूलविटपौ भग्नौ स तु मध्ये जहास वै ।। १८ ।।
निदर्शनार्थं गोपानां दिव्यं स्वबलमास्थितः ।
तद्दाम तस्य बालस्य प्रभावादभवद् दृढम् ।। १९ ।।
यमुनातीरमार्गस्था गोप्यस्तं ददृशुः शिशुम् ।
क्रन्दन्योर् विस्मयन्त्यश्च यशोदां ययुरङ्गनाः ।। 2.7.२० ।।
तास्तु सम्भ्रान्तवदना यशोदामूचुरङ्गनाः ।
एह्यागच्छ यशोदे त्वं सम्भ्रमात् किं विलम्बसे ।।२१।।
यौ तावर्जुनवृक्षौ तु व्रजे सत्योपयाचनौ ।
पुत्रस्योपरि तावेतौ पतितौ ते महीरुहौ ।। २२ ।।
दृढेन दाम्ना तत्रैव बद्धो वत्स इवोदरे ।
जहास वृक्षयोर्मध्ये तव पुत्रः स बालकः ।। २३ ।।
उत्तिष्ठ गच्छ दुर्मेधे मूढे पण्डितमानिनि ।
पुत्रमानय जीवन्तं मुक्तं मृत्युमुखादिव ।। २४ ।।
सा भीता सहसोत्थाय हाहाकारं प्रकुर्वती ।
तं देशमगमद् यत्र पातितौ तावुभौ द्रुमौ ।। २५ ।।
सा ददर्श तयोर्मध्ये द्रुमयोरात्मजं शिशुम्।
दाम्ना निबद्धमुदरे कर्षमाणमुलूखलम्। २६ ।।
सगोपीगोपवृद्धश्च समुवाच व्रजस्तदा ।
पर्यागच्छन्त ते द्रष्टुं गोपेषु महदद्भुतम् ।। २७ ।।
जजल्पुस्ते यथाकामं गोपा वनविचारिणः ।
केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ । २८ ।।
विना वातं विना वर्षं विद्यत्प्रपतनं विना ।
विना हस्तिकृतं दोष केनेमौ पातितौ द्रुमौ ।। २९।।
अहो बत न शोभेतां विमूलावर्जुनाविमौ ।
भूमौ निपतितौ वृक्षौ वितोयौ जलदाविव ।। 2.7.३० ।।
यदीमौ घोषरचितौ घोषकल्याणकारिणौ ।
नन्दगोप प्रसन्नौ ते द्रुमावेवं गतावपि ।
यच्च ते दारको मुक्तो विपुलाभ्यामपि क्षितौ ।। ३१ ।।
औत्पातिकमिदं घोषे तृतीयं वर्तते त्विह ।
पूतनाया विनाशश्च द्रुमयोः शकटस्य च ।। ३२ ।।
अस्मिन् स्थाने च वासोऽयं घोषस्यास्य न युज्यते ।
उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ।। ३३ ।।
नन्दगोपस्तु सहसा मुक्त्वा कृष्णमुलूखलात् ।
निवेश्य चाङ्के सुचिरं मृतं पुनरिवागतम् ।। ३४ ।।
नातृप्यत् प्रेक्षमाणो वै कृष्णं कमललोचनम् ।
ततो यशोदां गर्हन् वै नन्दगोपो विवेश ह ।।३५ ।।
स च गोपजनः सर्वो व्रजमेव जगाम ह ।
स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् ।
गोष्ठे दामोदर इति गोपीभिः परिगीयते ।। ३६ ।।
एतदाश्चर्यभूतं हि बालस्यासीद् विचेष्टितम् ।
कृष्णस्य भरतश्रेष्ठ घोषे निवसतस्तदा ।। ३७ ।।
इति श्रीमहाभारते खिलमागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां यमलार्जुनभङ्गो नाम सप्तमोऽध्यायः ।। ७ ।।