प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०१० हरिवंशपुराणम्
अध्यायः ०११
वेदव्यासः
अध्यायः ०१२ →
श्रीकृष्णस्य अङ्गच्छटा, भाण्डीर वटः, यमुना एवं कालियदहस्य वर्णनम्, श्रीकृष्णेन कालियनागस्य निग्रहविचारणम्

एकादशोऽध्यायः

वैशम्पायन उवाच
कदाचित् तु तदा कृष्णो विना संकर्षणेन वै ।
चचार तद् वनं रम्यं कामरूपी वराननः ।।१।।
काकपक्षधरः श्रीमाञ्छ्यामः पद्मदलेक्षणः ।
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ।। २ ।।
साङ्गदेनाग्रहस्तेन पङ्कजोद्भिन्नवर्चसा ।
सुकुमाराभिताम्रेण क्रान्तविक्रान्तगामिना ।। ३ ।।
पीते प्रीतिकरे नॄणां पद्मकिञ्जल्कसप्रभे ।
सूक्ष्मे वसानो वसने ससंध्य इव तोयदः ।। ४ ।।
वत्सव्यापारयुक्ताभ्यां व्यग्राभ्यां गण्डरज्जुभिः ।
भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः ।। ५ ।।
सदृशं पुण्डरीकस्य गन्धेन कमलस्य च ।
रराज चास्य तद् बाल्ये रुचिरौष्ठपुटं मुखम् ।। ६ ।।
शिखाभिस्तस्य मुक्ताभी रराज मुखपङ्कजम् ।
वृतं षट्पदपंक्तीभिर्यथा स्यात् पद्ममण्डलम् ।। ७ ।।
तस्यार्जुनकदम्बाख्या नीपकन्दलमालिनी ।
रराज माला शिरसि नक्षत्राणां यथा दिवि ।। ८ ।।
स तया मालया वीरः शुशुभे कण्ठसक्तया ।
मेघमालाम्बुदश्यामो नभस्य इव मूर्तिमान् ।। ९ ।।
एकेनामलपत्रेण कण्ठसूत्रावलम्बिना ।
रराज बर्हिपत्रेण मन्दमारुतकम्पिना ।। 2.11.१० ।।
क्वचिद्गायन्क्वचित्क्रीडंश्चञ्चूर्यंश्च क्वचित्क्वचित्।
पर्णवाद्यं श्रुतिसुखं वादयंश्च क्वचिद् वने ।। ११ ।।
गोपवेणुं सुमधुरं कामात् तमपि वादयन् ।
प्रह्लादनार्थं च गवां क्वचिद् वनगतो युवा ।। १२ ।
गोकुलेऽम्बुधरश्यामश्चचार द्युतिमान् प्रभुः ।
रेमे च तत्र रम्यासु चित्रासु वनराजिषु ।। १३ ।।
मयूररवघुष्टासु मदनोद्दीपनीषु च ।
मेघनादप्रतिव्यूहेर्नादितासु समन्ततः ।। १४ ।।
शाद्वलच्छत्रमार्गासु शिलीन्ध्राभरणासु च ।
कन्दलामलपत्रासु स्रवन्तीषु नवं जलम् ।। १५ ।।
केसराणां नवैर्गन्धैर्मदनिःश्वसितोपमैः ।
अभीक्ष्णं निःश्वसन्तीषु कामिनीष्विव नित्यशः ।। १६ ।।
सेव्यमानो नवैर्वातैर्द्रुमसंघातनिःसृतैः ।
तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु ।। १७ ।।
स कदाचिद् वने तस्मिन्गोभिः सह परिभ्रमन् ।
ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ।। १८ ।।
स्थितं धरण्यां मेघाभं निबिडं पत्रसंचयैः ।
गगनार्धोच्छ्रिताकारं पर्वताभोगधारिणम् ।। १९ ।।
नीलचित्राङ्गवर्णैश्च सेवितं बहुभिः खगैः ।
फलैः प्रवालैश्च घनैः सेन्द्रचापघनोपमम् ।। 2.11.२० ।।
भवनाकारविटपं लतापुष्पसुमण्डितम् ।
विशालमूलावनतं पवनाम्भोदधारिणम् ।। २१ ।।
आधिपत्यमिवान्येषां तस्य देशस्य शाखिनाम्।
कुर्वाणं शुभकर्माणं निरावर्षमनातपम् ।। २२ ।।
न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः ।
दृष्ट्वा तत्र मतिं चक्रे निवासाय ततः प्रभुः ।। २३ ।।
स तत्र वयसा तुल्यैर्वत्सपालैः सहानघ ।
रेमे वै वासरं कृष्णः पुरा स्वर्गगतो यथा ।। २४ ।।
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनम् ।
रमयन्ति स्म बहवो वन्यैः क्रीडनकैस्तदा ।। २५ ।।
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः ।
गोपालाः कृष्णमेवान्ये गायन्ति स्म रतिप्रियाः ।। २६ ।।
तेषां स गायतामेव वादयामास वीर्यवान् ।
पर्णवाद्यान्तरे वेणुं तुम्बीं वीणां च तत्र ह ।। २७ ।।
कदाचिच्चारयन्नेव गाः स गोवृषभेक्षणः ।
जगाम यमुनातीरं लतालंकृतपादपम् ।। २८ ।।
तरङ्गापाङ्गकुटिलां वारिस्पर्शसुखानिलाम्।
तां च पद्मोत्पलवतीं ददर्श यमुनां नदीम् ।। २९ ।।
सुतीर्थां स्वादुसलिलां ह्रदिनीं वेगगामिनीम् ।
तोयवातोद्यतैर्वेगैरवनामितपादपाम् ।। 2.11.३० ।।
हंसकारण्डवोद्घुष्टा सारसैश्च निनादिताम् ।
अन्योन्यमिथुनैश्चैव सेवितां मिथुनेचरैः ।। ३१।।
जलजैः प्राणिभिः कीर्णां जलजैर्भूषितां गुणैः ।
जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् ।। ३२ ।।
प्रसृतस्रोतचरणां पुलिनश्रोणिमण्डलाम् ।
आवर्तनाभिगम्भीरां पद्मरोमानुरञ्जिताम् ।। ३३ ।।
तटच्छेदोदरां कान्तां त्रितरङ्गवलीधराम् ।
फेनप्रहृष्टवदनां प्रसन्नां हंसहासिनीम् ।। ३४ ।।
रुचिरोत्पलरक्तोष्ठीं नतभ्रूं जलजेक्षणाम् ।
ह्रददीर्घललाटान्तां कान्तां शैवलमूर्द्धजाम् ।। ३५ ।।
चक्रवाकस्तनतटीं तीरपार्श्वायताननाम् ।
दीर्घस्रोतायतभुजामाभोगश्रवणायुताम् ।। ३६ ।।
कारण्डवाकुण्डलिनीं श्रीमत्पङ्कजलोचनाम् ।
तटजाभरणोपेतां मीननिर्मलमेखलाम् ।। ३७ ।।
वारिप्लवप्लवक्षौमां सारसारावनूपुराम् ।
काशचामीकरं वासो वसानां हंसलक्षणम् ।। ३८ ।।
भीमनक्रानुलिप्ताङ्गीं कूर्मलक्षणभूषिताम् ।
निपानश्वापदापीडां नृभिः पीतपयोधराम् ।। ३९ ।।
श्वापदोच्छिष्टसलिलामाश्रमस्थानसंकुलाम् ।
तां समुद्रस्य महिषीमीक्षमाणः समन्ततः ।। 2.11.४० ।।
चचार रुचिरं कृष्णो यमुनामुपशोभयन् ।
तां चरन्स नदीं श्रेष्ठां ददर्श ह्रदमुत्तमम् ।। ४१ ।।
दीर्घं योजनविस्तारं दुस्तरं त्रिदशैरपि ।
गम्भीरमक्षोभ्यजलं निष्कम्पमिव सागरम् ।। ४२ ।।
तोयजैः श्वापदैस्त्यक्तं शून्यं तोयचरैः खगैः ।
अगाधेनाम्भसा पूर्णं मेघपूर्णमिवाम्बरम् ।। ४३ ।।
दुःखोपसर्प्यं तीरेषु ससर्पैर्विपुलैर्बिलैः ।
विषारणिभवस्याग्नेर्धूमेन परिवेष्टितम् ।। ४४ ।।
अभोग्यं तत् पशूनां हि अपेयं च जलार्थिनाम् ।
उपभोगैः परित्यक्तं सुरैस्त्रिषवणार्थिभिः ।। ४५ ।।
आकाशादप्यसंचार्यं खगैराकाशगोचरैः ।
तृणेष्वपि पतत्स्वप्सु ज्वलन्तमिव तेजसा ।। ४६ ।।
समन्ताद्योजनं साग्रं देवैरपि दुरासदम्।
विषानलेन घोरेण ज्वालाप्रज्वलितद्रुमम्।।४७ ।।
व्रजस्योत्तरतस्तस्य क्रोशमात्रे निरामये ।
तं दृष्ट्वा चिन्तयामास कृष्णो वै विपुलं ह्रदम् ।। ४८ ।।
अगाधं द्योतमानं च कस्यायं महतो ह्रदः ।
अस्मिन् स कालियो नाम कालाञ्जनचयोपमः ।। ४९ ।।
उरगाधिपतिः साक्षाद्ध्रदे वसति दारुणः ।
उत्सृज्य सागरावासं यो मया विदितः पुरा ।। 2.11.५० ।।
भयात् पतगराजस्य सुपर्णस्योरगाशिनः ।
तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ।। ५१।।
भयात् तस्योरगपतेर्नायं देशो निषेव्यते ।
तदिदं दारुणाकारमरण्यं रूढशाद्वलम् ।। ५२ ।।
सावरोहद्रुमं घोरं कीर्णं नानालताद्रुमैः ।
रक्षितं सर्पराजस्य सचिवैराप्तकारिभिः ।। ५३ ।।
वनं निर्विषयाकारं विषान्नमिव दुःस्पृशम्।
तैराप्तकारिभिर्नित्यं सर्वतः परिरक्षितम् ।। ५४ ।।
शैवालनलिनैश्चापि वृक्षैः क्षुद्रलताकुलैः ।
कर्तव्यमार्गौ भ्राजेते हृदस्यास्य तटावुभौ ।। ५५ ।।
तदस्य सर्पराजस्य कर्तव्यो निग्रहो मया ।
यथेयं सरिदम्भोदा भवेच्छिवजलाशया ।। ५६ ।।
व्रजोपभोग्या च यथा नागे च दमिते मया ।
सर्वत्र सुखसंचारा सर्वतीर्थसुखाश्रया । ५७।।
एतदर्थं च वासोऽयं व्रजेऽस्मिन् गोपजन्म च ।
अमीषामुत्पथस्थानां निग्रहार्थं दुरात्मनाम् ।।
एनं कदम्बमारुह्य तदेव शिशुलीलया ।
विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम्।। ५९ ।।
एवं कृते बाहुवीर्ये लोके ख्यातिं गमिष्यति ।। 2.11.६० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बालचरिते यमुनावर्णनं नामैकादशोऽध्यायः ।। ११ ।।