हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०१२

← अध्यायः ०११ हरिवंशपुराणम्
अध्यायः ०१२
वेदव्यासः
अध्यायः ०१३ →
श्रीकृष्णेन कालियनागस्य दमनं, तस्य समुद्रं प्रति प्रस्थानं एवं गोपेभिः श्रीकृष्णस्य महत्तायाः अनुभवं

द्वादशोऽध्यायः

वैशम्पायन उवाच
सोपसृत्य नदीतीरं बद्ध्वा परिकरं दृढम् ।
आरोहच्चपलः कृष्णः कदम्बशिखरं मुदा ।। १ ।।
कृष्णः कदम्बशिखराल्लम्बमानो घनाकृतिः ।
ह्रदमध्येऽकरोच्छब्दं निपतन्नम्बुजेक्षणः ।। २ ।।
कृष्णेन तत्र पतता क्षुभितो यमुनाह्रदः ।
सम्प्रासिच्यत वेगेन भिद्यमान इवाम्बुदः ।। ३ ।।
तेन शब्देन संक्षुब्धं सर्पस्य भवनं महत् ।
उदतिष्ठज्जलात् सर्पो रोषपर्याकुलेक्षणः ।। ४ ।।
स चोरगपतिः क्रुद्धो मेघराशिसमप्रभः ।
ततो रक्तान्तनयनः कालियः समदृश्यत ।। ५ ।।
पञ्चास्यः पावकोच्छ्वासश्चलज्जिह्वोऽनलाननः ।
पृथुभिः पञ्चभिर्घोरैः शिरोभिः परिवारितः ।। ६ ।।
पूरयित्वा ह्रदं सर्वं भोगेनानलवर्चसा ।
स्फुरन्निव च रोषेण ज्वलन्निव च तेजसा ।। ७ ।।
क्रोधेन ज्वलतस्तस्य जलं शृतमिवाभवत् ।
प्रतिस्रोताश्च भीतेव जगाम यमुना नदी ।। ८ ।।
तस्य क्रोधाग्निपूर्णेभ्यो वक्त्रेभ्योऽभूच्च मारुतः।
दृष्ट्वा कृष्णं ह्रदगतं क्रीडन्तं शिशुलीलया ।। ९ ।।
सधूमाः पन्नगेन्द्रस्य मुखान्निश्चेरुरर्चिषः ।
सृजता तेन रोषाग्निं समीपे तीरजा द्रुमाः ।। 2.12.१० ।।
क्षणेन भस्मसान्नीता युगान्तप्रतिमेन वै ।
तस्य पुत्राश्च दाराश्च भृत्याश्चान्ये महोरगाः ।। ११ ।।
वमन्तः पावकं घोरं वक्त्रेभ्यो विषसम्भवम् ।
सधूमं पन्नगेन्द्रास्ते निपेतुरमितौजसः ।। १२ ।।
प्रवेशितश्च तैः सर्पैः स कृष्णो भोगबन्धनम् ।
निर्यत्नचरणाकारस्तस्थौ गिरिरिवाचलः ।। १३ ।।
अदशन् दशनैस्तीक्ष्णैर्विषोत्पीडजलाविलैः ।
ते कृष्णं सर्पपतयो न ममार च वीर्यवान् ।। १४ ।।
एतस्मिन्नन्तरे भीता गोपालाः सर्व एव ते ।
क्रन्दमाना व्रजं जग्मुर्वाष्पगद्गदया गिरा ।। १५ ।।
गोपा ऊचुः
एष मोहं गतः कृष्णो मग्नो वै कालिये ह्रदे ।
भक्ष्यते सर्पराजेन तदागच्छत मा चिरम् ।। १६ ।।
नन्दगोपाय वै क्षिप्रं सबलाय निवेद्यताम् ।
एष ते कृष्यते कृष्णः सर्पेणेति महाह्रदे ।। १७ ।।
नन्दगोपस्तु तच्छ्रुत्वा वज्रपातोपमं वचः ।
आर्तः स्खलितविक्रान्तस्तं जगाम ह्रदोत्तमम् ।। १८ ।।
सबालयुवतीवृद्धः स च संकर्षणो युवा ।
आक्रीडं पन्नगेन्द्रस्य जलस्थं समुपागमत् ।। १९ ।।
नन्दगोपमुखा गोपास्ते सर्वे साश्रुलोचनाः ।
हाहाकारं प्रकुर्वन्तस्तस्थुस्तीरे ह्रदस्य वै ।। 2.12.२० ।।
व्रीडिता विस्मिताश्चैव शोकार्ताश्च पुनः पुनः ।
केचित्तु पुत्र हा हेति हा धिगित्यपरे पुनः ।। २१ ।।
अपरे हा हताः स्मेति रुरुदुर्भृशदुःखिताः ।
स्त्रियश्चैव यशोदां तां हा हतासीति चुक्रुशुः ।। २२ ।।
या पश्यसि प्रियं पुत्रं सर्पराजवशं गतम् ।
स्पन्दितं सर्पभोगेन कृष्यमाणं यथा मृतम् ।। २३ ।।
अश्मसारमयं नूनं हृदयं ते विलक्ष्यते ।
पुत्रं कथमिमं दृष्ट्वा यशोदे नावदीर्यसे ।। २४ ।।
दुःखितं बत पश्यामो नन्दगोपं ह्रदान्तिके ।
न्यस्य पुत्रमुखे दृष्टिं निश्चेतनमवस्थितम् ।। २५ ।।
यशोदामनुगच्छन्त्यः सर्पावासमिमं ह्रदम्।
प्रविशामो न यास्यामो विना दामोदरं व्रजम् ।। २६ ।।
दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।
विना वृषेण का गावो विना कृष्णेन को व्रजः ।
विना कृष्णं न यास्यामो विवत्सा इव धेनवः ।। २७ ।।
तासां विलपितं श्रुत्वा तेषां च व्रजवासिनाम् ।
विलापं नन्दगोपस्य यशोदारुदितं तथा ।। २८ ।।
एकभावशरीरज्ञ एकदेहो द्विधा कृतः ।
संकर्षणस्तु संक्रुद्धो बभाषे कृष्णमव्ययम् ।। २९ ।।
कृष्ण कृष्ण महाबाहो गोपानां नन्दवर्द्धन ।
दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः ।। 2.12.३० ।।
इमे नो बान्धवास्तात त्वां मत्वा मानुषं विभो ।
परिदेवन्ति करुणं सर्वे मानुषबुद्धयः ।। ३१ ।।
तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम् ।
विक्रम्यास्फोटयद् बाहू भित्त्वा तन्नागबन्धनम् ।। ३२ ।।
तस्य पद्भ्यामथाक्रम्य भोगराशिं जलोत्थितम् ।
शिरस्तु कृष्णो जग्राह स्वहस्तेनावनाम्य च ।। ३३ ।।
तस्यारुरोह सहसा मध्यमं तन्महच्छिरः ।
सोऽस्य मूर्ध्नि स्थितः कृष्णो ननर्त रुचिराङ्गदः ।। ३४ ।।
मृद्यमानः स कृष्णेन शान्तमूर्धा भुजङ्गमः ।
आस्यैः सरुधिरोद्गारैः कातरो वाक्यमब्रवीत् ।। ३१५ ।।
अविज्ञानान्मया कृष्ण रोषोऽयं सम्प्रदर्शितः ।
दमितोऽहं हतविषो वशगस्ते वरानन ।। ३६ ।।
तदाज्ञापय किं कुर्यां सदा सापत्यबान्धवः ।
कस्य वा वशतां यामि जीवितं मे प्रदीयताम् ।। ३७ ।।
पञ्चमूर्द्धानतं दृष्ट्वा सर्पं सर्पारिकेतनः ।
अक्रुद्ध एव भगवान् प्रत्युवाचोरगेश्वरम् ।। ३८ ।।
तवास्मिन् यमुनातोये नैव स्थानं ददाम्यहम् ।
गच्छार्णवजलं सर्प सभार्यः सहबान्धवः ।। ३९ ।।
यश्चेह भूयो दृश्येत स्थाने वा यदि वा जले ।
तव भृत्यस्तनूजो वा क्षिप्रं वध्यः स मे भवेत्।। 2.12.४० ।।
शिवं चास्य जलस्यास्तु त्वं च गच्छ महार्णवम्।
स्थाने त्विह भवेद् दोषस्तवान्तकरणो महान् ।। ४१ ।।
मत्पदानि च ते सर्प दृष्ट्वा मूर्धसु सागरे ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ।। ४२ ।।
गृह्य मूर्ध्ना तु चरणौ कृष्णस्योरगपुङ्गवः ।
पश्यतामेव गोपानां जगामादर्शनं ह्रदात् ।। ४३ ।।
निर्जिते तु गते सर्पे कृष्णमुत्तीर्य धिष्ठितम् ।
विस्मितास्तुष्टुवुर्गोपाश्चक्रुश्चैव प्रदक्षिणम् ।। ४४ ।।
ऊचुः सर्वे च सम्प्रीता नन्दगोपं वनेचराः ।
धन्योऽस्यनुगृहीतोऽसि यस्य ते पुत्र ईदृशः ।। ४५ ।।
अद्यप्रभृति गोपानां गवां गोष्ठस्य चानघ ।
आपत्सु शरणं कृष्णः प्रभुश्चायतलोचनः ।। ४६ ।।
जाता शिवजला सर्वा यमुना मुनिसेविता ।
तीरे चास्याः सुखं गावो विचरिष्यन्ति नः सदा ।। ४७ ।।
व्यक्तमेव वयं गोपा वने यत् कृष्णमीदृशम् ।
महद्भूतं न जानीमश्छन्नमग्निमिव व्रजे ।। ४८ ।।
एवं ते विस्मिताः सर्वे स्तुवन्तः कृष्णमव्ययम् ।
जग्मुर्गोपगणा घोषं देवाश्चैत्ररथं यथा ।। ४९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां कालियदमने द्वादशोऽध्यायः ।। १२ ।।