प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०१८ हरिवंशपुराणम्
अध्यायः ०१९
वेदव्यासः
अध्यायः ०२० →
देवराजेन्द्रस्यागमनम्, श्रीकृष्णस्य गोविन्दपदे अभिषेकः, इन्द्रेण श्रीकृष्णं भावीकार्यं कथयित्वा अर्जुनस्य क्षेमाय बोधनम्, श्रीकृष्णेन तस्य स्वीकृतिः

एकोनविंशोऽध्यायः

वैशम्पायन उवाच
धृतं गोवर्द्धनं दृष्ट्वा परित्रातं च गोकुलम् ।
कृष्णस्य दर्शनं शक्रो रोचयामास विस्मितः ।। १ ।।
स निर्जलाम्बुदाकारं मत्तं मदजलोक्षितम्।
आरुह्यैरावतं नागमाजगाम महीतलम् ।। २ ।।
स ददर्शोपविष्टं वै गोवर्द्धनशिलातले ।
कृष्णमक्लिष्टकर्माणं पुरुहूतः पुरंदरः ।। ३ ।।
तं वीक्ष्य बालं महता तेजसा दीप्तमव्ययम् ।
गोपवेषधरं विष्णुं प्रीतिं लेभे पुरंदरः ।। ४ ।।
तं सोऽम्बुजदलश्यामं कृष्णं श्रीवत्सलक्षणम् ।
पर्याप्तनयनः शक्रः सर्वैर्नेत्रैरुदैक्षत ।। ५ ।।
दृष्ट्वा चैनं श्रिया जुष्टं मर्त्यलोकेऽमरोपमम् ।
सूपविष्टं शिलापृष्ठे शक्रः स व्रीडितोऽभवत्।। ६ ।।
तस्योपविष्टस्य मुखं पक्षाभ्यां पक्षिपुङ्गवः ।
अन्तर्द्धानं गतश्छायां चकारोरगभोजनः ।। ७ ।।
तं विविक्ते वनगतं लोकवृत्तान्ततत्परम् ।
उपतस्थे गजं हित्वा कृष्णं बलनिषूदनः ।। ८ ।।
स समीपगतस्तस्य दिव्यस्रगनुलेपनः ।
रराज देवराजो वै वज्रपूर्णकरः प्रभुः ।। ९ ।।
किरीटेनार्कतुल्येन विद्युदुदद्योतकारिणा ।
कुण्डलाभ्यां स दिव्याभ्यां सततं शोभिताननः ।। 2.19.१० ।।
पञ्चस्तबकलम्बेन हारेणोरसि भूषितः ।
सहस्रपत्रकान्तेन देहभूषणकारिणा ।
ईक्षमाणः सहस्रेण नेत्राणां कामरूपिणाम् ।। ११ ।।
त्रिदशाज्ञापनार्थेन मेघनिर्घोषकारिणा ।
अथ दिव्येन मधुरं व्याजहार स्वरेण तम् ।। १२ ।।
इन्द्र उवाच
कृष्ण कृष्ण महाबाहो ज्ञातीनां नन्दिवर्द्धन ।
अतिदिव्यं कृतं कर्म त्वया प्रीतिमता गवाम् ।।१३ ।।
मयोत्सृष्टेषु मेघेषु युगान्तावर्तकारिषु ।
यत्त्वया रक्षिता गावस्तेनास्मि परितोषितः ।। १४ ।।
स्वायम्भुवेन योगेन यश्चायं पर्वतोत्तमः ।
धृतो वेश्मवदाकाशे को ह्येतेन न विस्मयेत् ।। १५ ।।
प्रतिषिद्धे मम महे मयेयं रुषितेन वै ।
अतिवृष्टिः कृता कृष्ण गवां वै साप्तरात्रिकी ।। १६ ।।
सा त्वया प्रतिषिद्धेयं मेघवृष्टिर्दुरासदा ।
देवैः सदानवगणैर्दुर्निवार्या मयि स्थिते ।। १७ ।।
अहो मे सुप्रियं कृष्ण यत् त्वं मानुषदेहवान् ।
समग्रं वैष्णवं तेजो विनिगूहसि रोषितः ।। १८ ।।
साधितं देवतानां हि मन्येऽहं कार्यमव्ययम् ११
त्वयि मानुष्यमापन्ने युक्ते चैव स्वतेजसा ।। १९ ।।
सेत्स्यते सर्वकार्यार्थो न किंचित् परिहास्यते ।
देवानां यद् भवान् नेता सर्वकार्यपुरोगमः ।। 2.19.२० ।।
एकस्त्वमसि देवानां लोकानां च सनातनः ।
द्वितीयं नात्र पश्यामि यस्तेषां च धुरं वहेत् ।। २१ ।।
यथा हि पुङ्गवः श्रेष्ठो ह्यग्रे धुरि नियोज्यते ।
एवं त्वमसि देवानां मग्नानां द्विजवाहनः ।। २२ ।।
त्वच्छरीरगतं कृष्ण जगत्प्रकरणं त्विदम् ।
ब्रह्मणा साधु निर्दिष्टं धातुभ्य इव काञ्चनम् ।। २३ ।।
स्वयं स्वयम्भूर्भगवान् बुद्ध्याथ वयसापि वा ।
न त्वानुगन्तुं शक्नोति पङ्गुर्द्रुतगतिं यथा ।। २४ ।।
स्थाणुभ्यो हिमवाञ्छ्रेष्ठो ह्रदानां वरुणालयः ।
गरुत्मान् पक्षिणां श्रेष्ठो देवानां च भवान् वरः ।। २५ ।।
अपामधस्ताल्लोको वै तस्योपरि महीधराः ।
नागानामुपरिष्टाद् भूः पृथिव्युपरि मानुषाः ।। २६ ।।
मनुष्यलोकादूर्ध्वं तु खगानां गतिरुच्यते ।
आकाशस्योपरि रविर्द्वारं स्वर्गस्य भानुमान् ।। २७ ।।
देवलोकः परस्तस्माद् विमानगमनो महान् ।
यत्राहं कृष्ण देवानामैन्द्रे विनिहितः पदं ।। २८ ।।
स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः ।
तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ।। २९ ।।
तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
स हि सर्वगतः कृष्ण महाकाशगतो महान् ।। 2.19.३० ।।
उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।। ३१ ।।
लोकस्त्वधो दुष्कृतिनां नागलोकस्तु दारुणः ।
पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः ।। ३२ ।।
खमस्थिराणां विषयो वायुना तुल्यवृत्तिनाम् ।
गतिः शमदमाख्यानां स्वर्गः सुकृतकर्मणाम् ।। ३३ ।।
ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः ।
गवामेव तु गोलोको दुरारोहा हि सा गतिः ।। ३४ ।।
स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ।। ३५ ।।
तदहं समनुप्राप्तो गवां वाक्येन चोदितः ।
ब्रह्मणश्च महाभाग गौरवात् तव चागतः ।। ३६ ।।
अहं भूतपतिः कृष्ण देवराजः पुरंदरः ।
अदितेर्गर्भपर्याये पूर्वजस्ते पुराकृतः ।।३७ ।।
स्वतेजस्तेजसा चैव यत् ते दर्शितवानहम् ।
देवरूपेण तत् सर्वं क्षन्तुमर्हसि मे विभो ।। ३८ ।।
एवं क्षान्तमनाः कृष्ण स्वेन सौम्येन तेजसा ।
ब्रह्मणः शृणु मे वाक्यं गवां च गजविक्रम ।। ३९ ।।
आह त्वां भगवान् ब्रह्मा गावश्चाकाशगा दिवि ।
कर्मभिस्तोषिता दिव्यैस्तव संरक्षणादिभिः ।। 2.19.४० ।।
भवता रक्षिता गावो गोलोकश्च महानयम् ।
यद् वयं पुङ्गवैः सार्द्धं वर्द्धामः प्रसवैस्तथा ।। ४१ ।।
कर्षकान् पुङ्गवैर्बाह्यैर्मेध्येन हविषा सुरान् ।
श्रियं शकृत्प्रवृत्तेन तर्पयिष्याम कामदाः ।। ४२ ।।
तदस्माकं गुरुस्त्वं हि प्राणदश्च महाबलः ।
अद्यप्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो ।। ४३ ।।
तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः ।
एभिरद्याभिषिञ्चस्व मया हस्तावनामितैः ।। ४४ ।।
अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ।
गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम्।।४५।।
ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः ।। ४६ ।।
ये चेमे वार्षिका मासाश्चत्वारो विहिता मम ।
एषामर्द्धं प्रयच्छामि शरत्कालं तु पश्चिमम् ।। ४७ ।।
अद्यप्रभृति मासौ द्वौ ज्ञास्यन्ति मम मानवाः ।
वर्षार्द्धे च ध्वजो मह्यं ततः पूजामवाप्स्यसि ।
ममाम्बुप्रभवं दर्पं तदा त्यक्ष्यन्ति बर्हिणः ।। ४८ ।।
अल्पवाचो गतमदा ये चान्ये मेघनादिनः ।
शान्तिं सर्वे गमिष्यन्ति मम कालविचारिणः ।। ४९ ।।
त्रिशङ्क्वगस्त्यचरितामाशां च प्रचरिष्यति ।
सहस्ररश्मिरादित्यस्तापयन् स्वेन तेजसा ।। 2.19.५०।।
ततः शरदि युक्तायां मौनकामेषु बर्हिषु ।
याचमाने खगे तोयं विप्लुतेषु प्लवेषु च।।५१।।
हंससारसपूर्णेषु नदीनां पुलिनेषु च।
मत्तक्रौञ्चप्रणादेषु प्रमत्तवृषभेषु च।।५२।।
गोषु चैव प्रहृष्टासु क्षरन्तीषु पयो बहु।
निवृत्तेषु च मेघेषु निर्यात्य जगतो जलम्।। ५३।।
आकाशे शस्त्रसंकाशे हंसेषु च चरत्सु च ।
जातपद्मेषु तोयेषु वापीषु च सरस्सु च ।। ५४।।
तडागेषु च कान्तेषु तोयेषु विमलेषु च।
कलमावनताग्रासु कृष्णकेदारपङ्क्तिषु।।५५।।
मध्यस्थं सलिलारम्भं कुर्वन्तीषु नदीषु च।
सुसस्यायां च सीमायां मनोहर्यां मुनेरपि।। ५६ ।।
पृथिव्यां पृथुराष्ट्रायां रम्यायां वर्षसंक्षये।
श्रीमत्सु पंक्तिमार्गेषु फलवत्सु तृणेषु च ।
इक्षुमत्सु च देशेषु प्रवृत्तेषु मखेषु च ।। ५७ ।।
ततः प्रवर्त्यते पुण्या शरत् सुप्तोत्थिते त्वयि ।
लोकेऽस्मिन् कृष्ण निखिले यथैव त्रिदिवे तथा ।। ५८ ।।
नरास्त्वां चैव मां चैव ध्वजाकारासु यष्टिषु ।
महेन्द्रं चाप्युपेन्द्रं च महयन्ति महीतले ।। ५९ ।।
ये चावयोः स्थिरे वृत्ते महेन्द्रोपेन्द्रसंज्ञिते ।
मानवाः प्रणमिष्यन्ति तेषां नास्त्यनयागमः ।। 2.19.६० ।।
ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान्।
अभिषेकेण गोविन्दं योजयामास योगवित् ।। ६१ ।।
दृष्ट्वा तमभिषिक्तं तु गावस्ताः सह यूथपैः ।
स्तनैः प्रस्रवयुक्तैश्च सिषिचुः कृष्णमव्ययम् ।। ६२ ।।
मेघाश्च दिवि युक्ताभिः सामृताभिः समन्ततः ।
सिषिचुस्तोयधाराभिरभिषिच्य तमव्ययम् ।। ६३ ।।
वनस्पतीनां सर्वेशं सुस्रावेन्दुनिभं पयः ।
ववर्षुः पुष्पवर्षं च नेदुस्तूर्याणि चाम्बरे ।। ६४ ।।
अस्तुवन् मुनयः सर्वे वाग्भिर्मन्त्रपरायणाः ।
एकार्णवे विविक्तं च दधार वसुधा वपुः ।। ६५ ।।
प्रसादं सागरा जग्मुर्ववुर्वाता जगद्धिताः ।
मार्गस्थोऽपि बभौ भानुश्चन्द्रो नक्षत्रसंयुतः ।। ६६ ।।
ईतयः प्रशमं जग्मुनिर्वैररचना नृपाः ।
प्रवालपत्रशबलाः पुष्पवन्तश्च पादपाः ।। ६७ ।।
मदं प्रसुस्रुवुर्नागा यातास्तोषं वने मृगाः ।
अलंकृता गात्ररुहैर्धातुभिर्भान्ति पर्वताः ।। ६८ ।।
देवलोकोपमो लोकस्तृप्तोऽमृतरसैरिव ।
आसीत्कृष्णाभिषेको हि दिव्यस्वर्गरसोक्षितः ।। ६९ ।।
अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम् ।
दिव्यमाल्याम्बरधरं देवदेवोऽब्रवीदिदम् ।। 2.19.७० ।।
एष ते प्रथमः कृष्ण नियोगो गोषु यः कृतः ।
श्रूयतामपरं कृष्ण ममागमनकारणम् ।। ७१ ।।
क्षिप्रं प्रसाध्यतां कंसः केशी च तुरगाधमः ।
अरिष्टश्च मदाविष्टो राजराज्यं ततः कुरु ।। ७२ ।।
पितृष्वसरि जातस्ते ममांशोऽहमिव स्थितः ।
स ते रक्ष्यश्च मान्यश्च सख्ये च विनियुज्यताम् ।। ७३ ।।
त्वया ह्यनुगृहीतः स तव वृत्तानुवर्तकः ।
त्वद्वशे वर्तमानश्च प्राप्स्यते विपुलं यशः ।। ७४ ।।
भारतस्य च वंशस्य स वरिष्ठो धनुर्धरः ।
भविष्यत्यनुरूपश्च त्वदृते न च रंस्यते ।। ७५ ।।
भारतं त्वयि चायत्तं तस्मिंश्च पुरुषोत्तमे ।
उभाभ्यामपि संयोगे यास्यन्ति निधनं नृपाः ।। ७६ ।।
प्रतिज्ञातं मया कृष्ण ऋषिमध्ये सुरेषु च ।
मया पुत्रोऽर्जुनो नाम सृष्टः कुन्त्यां कुलोद्वहः ।। ७७ ।।
सोऽस्त्राणां पारतत्त्वज्ञः श्रेष्ठश्चापविकर्षणे ।
तं प्रवेक्ष्यन्ति वै सर्वे राजानः शस्त्रयोधिनः ।। ७८ ।।
अक्षौहिणीस्तु शूराणां राज्ञां संग्रामशालिनाम्।
स एकः क्षत्रधर्मेण योजयिष्यति मृत्युना ।। ७६ ।।
तस्यास्त्रचरितं मार्गं धनुषो लाघवेन च ।
नानुयास्यन्ति राजानो देवा वा त्वां विना प्रभो ।। 2.19.८० ।।
स ते बन्धुः सहायश्च संग्रामेषु भविष्यति ।
तस्य योगो विधातव्यस्त्वया गोविन्द मत्कृते ।। ८१ ।।
द्रष्टव्यश्च यथाहं वै त्वया मान्यश्च नित्यशः ।
ज्ञाता त्वमेव लोकानामर्जुनस्य च नित्यशः ।। ८२ ।।
त्वया च नित्यं संरक्ष्य आहवेषु महत्सु सः ।
रक्षितस्य त्वया तस्य न मृत्युः प्रभविष्यति ।। ८३ ।।
अर्जुनं विद्धि मां कृष्ण मां चैवात्मानमात्मना ।
आत्मा तेऽहं यथा शश्वत् तथैव तव सोऽर्जुनः ।। ८४ ।।
त्वया लोकानिमाञ्जित्वा बलेर्हस्तात् त्रिभिः क्रमैः।
देवतानां कृतो राजा पुरा ज्येष्ठक्रमादहम् ।। ८५ ।।
त्वां च सत्यमयं ज्ञात्वा सत्येष्टं सत्यविक्रमम् ।
सत्वेनोपेत्य देवा वै योजयन्ति रिपुक्षये ।। ८६ ।।
सोऽर्जुनो नाम मे पुत्रः पितुस्ते भगिनीसुतः ।
इह सौहार्दमायातु भूत्वा सहचरस्तव ।। ८७ ।।
तस्य ते युध्यतः कृष्ण स्वस्थानेऽपि गृहेऽपि वा ।
वोढव्या पुङ्गवेनेव धूः सदा रणमूर्धनि ।। ८८ ।।
कंसे विनिहते कृष्ण त्वया भाव्यर्थदर्शिना ।
अभितस्तन्महद् युद्धं भविष्यति महीक्षिताम् ।। ८९ ।।
तत्र तेषां नृवीराणामतिमानुषकर्मणाम्।
विजयस्यार्जुनो भोक्ता यशसा त्वं च योक्ष्यसे ।। 2.19.९० ।।
एतन्मे कृष्ण कार्त्स्न्येन कर्तुमर्हसि भाषितम्।
यद्यहं ते सुराश्चैव सत्यं च प्रियमच्युत ।। ९१ ।।
शक्रस्य वचनं श्रुत्वा कृष्णो गोविन्दतां गतः ।
प्रीतेन मनसा युक्तः प्रतिवाक्यं जगाद ह ।। ९२ ।।
प्रीतोऽस्मि दर्शनाद् देव तव शक्र शचीपते ।
यत् त्वयाभिहितं चेदं न किंचित्परिहास्यते ।। ९३ ।।
जानामि भवतो भावं जानाम्यर्जुनसम्भवम् ।
जाने पितृष्वसारं च पाण्डोर्दत्तां महात्मनः ।। ९४ ।।
युधिष्ठिरं च जानामि कुमारं धर्मनिर्मितम् ।
भीमसेनं च जानामि वायोः संतानजं सुतम् ।। ९५ ।।
अश्विभ्यां साधु जानामि सृष्टं पुत्रद्वयं शुभम्।
नकुलं सहदेवं च माद्रीकुक्षिगतावुभौ ।। ९६ ।।
कानीनं चापि जानामि सवितुः प्रथमं सुतम् ।
पितृष्वसरि कर्णं वै प्रसूतं सूततां गतम् ।। ९७ ।।
धार्तराष्ट्राश्च मे सर्वे विदिता युद्धकाङ्क्षिणः ।
पाण्डोरुपरमं चैव शापाशनिनिपातजम् ।। ९८ ।।
तद्गच्छ त्रिदिवं शक्र सुखाय त्रिदिवौकसाम् ।
नाजुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ।। ९९ ।।
अर्जुनार्थे च तान्सर्वान्पाण्डवानक्षतान्युधि ।
कुन्त्या निर्यातयिष्यामि निवृत्ते भारते मृधे ।। 2.19.१००।।
यच्च वक्ष्यति मां शक्र तनूजस्तव सोऽर्जुनः ।
भृत्यवत्तत् करिष्यामि तव स्नेहेन यन्त्रितः ।। १०१ ।।
सत्यसंधस्य तच्छ्रुत्वा प्रियं प्रीतस्य भाषितम् ।
कृष्णस्य साक्षात् त्रिदिवं जगाम त्रिदशेश्वरः ।।१०२।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोविन्दाभिषेके एकोनविंशोऽध्यायः ।। १९ ।।