प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०१९ हरिवंशपुराणम्
अध्यायः ०२०
वेदव्यासः
अध्यायः ०२१ →
श्रीकृष्णस्य अलौकिकं चरित्रं दृष्ट्वा आशङ्कितानां गोपानां कृष्णात् प्रश्नं, श्रीकृष्णेन उत्तरं एवं तस्य रासलीलायाः संक्षेपतः वर्णनम्

विंशोऽध्यायः

वैशम्पायन उवाच
गते शक्रे ततः कृष्णः पूज्यमानो व्रजालयैः ।
गोवर्धनपरः श्रीमान् विवेश व्रजमेव ह ।। १ ।।
तस्य वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः ।
धन्याः स्मोऽनुगृहीताः स्मस्त्वद्वृत्तेन नयेन च ।। २ ।।
गावो वर्षभयात् तीर्णा वयं तीर्णा महाभयात् ।
तव प्रसादाद् गोविन्द देवतुल्यपराक्रम ।। ३ ।।
अमानुषाणि कर्माणि तव पश्याम गोपते ।
धारणेनास्य शैलस्य विद्मस्त्वां कृष्ण दैवतम् ।। ४ ।।
कस्त्वं भवसि रुद्राणां मरुतां च महाबलः ।
वसूनां वा किमर्थे च वसुदेवः पिता तव ।। ५ ।।
बलं च बाल्ये क्रीडा च जन्म चास्मासु गर्हितम्।
कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ।। ६ ।।
किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् ।
लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि ।। ७ ।।
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते ।।८।।
केनचिद् यदि कार्येण वससीह यदृच्छया ।
वयं तवानुगाः सर्वे भवन्तं शरणं गताः ।। ९ ।।
वैशम्पायन उवाच
गोपानां वचनं श्रुत्वा कृष्णः पद्मदलेक्षणः ।
प्रत्युवाच स्मितं कृत्वा ज्ञातीन्सर्वान्समागतान्।।2.20.१०।।
मन्यन्ते मां यथा सर्वे भवन्तो भीमविक्रमम्।
तथाहं नावमन्तव्यः स्वजातीयोऽस्मि बान्धवः।।११।।
यदि त्ववश्यं श्रोतव्यं कालः सम्प्रतिपाल्यताम् ।
ततो भवन्तः श्रोष्यन्ति मां च द्रक्ष्यन्ति तत्त्वतः ।। १२ ।।
यद्ययं भवतां श्लाघ्यो बान्धवो देवसप्रभः ।
परिज्ञानेन किं कार्यं यद्येषोऽनुग्रहो मम ।। १३ ।।
एवमुक्तास्तु ते गोपा वसुदेवसुतेन वै ।
बद्धमौना दिशः सर्वे भेजिरे पिहिताननाः ।। १४ ।।
कृष्णस्तु यौवनं दृष्ट्वा निशि चन्द्रमसो वनम्।
शारदीं च निशां रम्यां मनश्चक्रे रतिं प्रति।।१५।।
स करीषाङ्गरागासु व्रजरथ्यासु वीर्यवान् ।
वृषाणां जातदर्पाणां युद्धानि समयोजयत् ।। १६ ।।
गोपालांश्च बलोदग्रान्योधयामास वीर्यवान् ।
वने स वीरो गाश्चैव जग्राह ग्राहवद् विभुः ।। १७ ।।
युवतीर्गोपकन्याश्च रात्रौ संकाल्य कालवित्।
कैशोरकं मानयन् वै सह ताभिर्मुमोद ह ।। १८ ।।
तास्तस्य वदनं कान्तं कान्ता गोपस्त्रियो निशि ।
पिबन्ति नयनाक्षेपैर्गां गतं शशिनं यथा ।। १९ ।।
हरितालार्द्रपीतेन स कौशेयेन वाससा ।
वसानो भद्रवसनं कृष्णः कान्ततरोऽभवत् ।। 2.20.२० ।।
स बद्धाङ्गदनिर्व्यूहश्चित्रया वनमालया ।
शोभमानो हि गोविन्दः शोभयामास तद्व्रजम्।।२१।।
नाम दामोदरेत्येवं गोपकन्यास्तदाब्रुवन् ।
विचित्रं चरितं घोषे दृष्ट्वा तत्तस्य भास्वतः ।। २२ ।।
तास्तं पयोधरोत्तुङ्गैरुरोभिः समपीडयन्।
भ्रामिताक्षैश्च वदनैर्निरीक्षन्ते वराङ्गनाः ।। २३ ।।
ता वार्यमाणाः पतिभिर्मातृभिर्भ्रातृभिस्तथा ।
कृष्णं गोपाङ्गना रात्रौ मृगयन्ते रतिप्रियाः ।। २४ ।।
तास्तु पङ्क्तीकृताः सर्वा रमयन्ति मनोरमम् ।
गायन्त्यः कृष्णचरितं द्वन्द्वशो गोपकन्यकाः ।। २५ ।।
कृष्णलीलानुकारिण्यः कृष्णप्रणिहितेक्षणाः ।
कृष्णस्य गतिगामिन्यस्तरुण्यस्ता वराङ्गनाः ।। २६ ।।
वनेषु तालहस्ताग्रैः कूजयन्त्यस्तथापराः ।
चेरुर्वै चरितं तस्य कृष्णस्य व्रजयोषितः । २७ ।।
तास्तस्य नृत्यं गीतं च विलासस्मितवीक्षितम् ।
मुदिताश्चानुकुर्वन्यः्र क्रीडन्ति व्रजयोषितः ।। २८ ।।
भावनिस्पन्दमधुरं गायन्त्यस्ता वराङ्गनाः ।
व्रजं गताः सुखं चेरुर्दामोदरपरायणाः ।। २९ ।।
करीषपांसुदिग्धाङ्ग्यस्ताः कृष्णमनुवव्रिरे ।
रमयन्त्यो यथा नागं सम्प्रमत्तं करेणवः ।। 2.20.३० ।।
तमन्या भावविकचैर्नेत्रैः प्रहसिताननाः ।
पिबन्त्यतृप्तवनिताः कृष्णं कृष्णमृगेक्षणाः।। ३१ ।।
मुखमस्याब्जसंकाशं तृषिता गोपकन्यकाः ।
रत्यन्तरगता रात्रौ पिबन्ति रसलालसाः ।। ३२ ।।
हा हेति कुर्वतस्तस्य प्रहृष्टास्ता वराङ्गनाः ।
जगृहुर्निस्सृतां वाणीं नाम्ना दामोदरेरिताम् ।। ३३।।
तासां ग्रथितसीमन्ता रतिं नीत्वाऽऽकुलीकृताः ।
चारु विस्रंसिरे केशाः कुचाग्रे गोपयोषिताम् ।। ३४ ।।
एवं स कृष्णो गोपीनां चक्रवालैरलंकृतः ।
शारदीषु सचन्द्रासु निशासु मुमुदे सुखी ।।३५।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रासक्रीडायां विंशोध्यायः।।२०।।