प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२१ हरिवंशपुराणम्
अध्यायः ०२२
वेदव्यासः
अध्यायः ०२३ →
कंसस्य आशङ्का, तस्य रात्रिसमये यदुवंशीनामाह्वयित्वा सभायां श्रीकृष्णस्य एवं विष्णोः प्रभावस्य कथनम्, वसुदेवोपरि कठोराक्षेपम्, श्रीकृष्णादीनां आनयने अक्रूरस्य व्रजगमनाय आज्ञापनम्

द्वाविंशोऽध्यायः

वैशम्पायन उवाच
कृष्णं व्रजगतं श्रुत्वा वर्धमानमिवानलम् ।
उद्वेगमगमत् कंसः शङ्कमानस्ततो भयम् ।। १ ।।
पूतनायां हतायां च कालिये च पराजिते ।
धेनुके प्रलयं नीते प्रलम्बे च निपातिते ।। २ ।।
धृते गोवर्धने शैले विफले शक्रशासने ।
गोषु त्रातासु च तथा स्पृहणीयेन कर्मणा ।। ३ ।।
ककुद्मिनि हतेऽरिष्टे गोपेषु मुदितेषु च ।
दृश्यमाने विनाशे च संनिकृष्टे महाभये ।। ४ ।।
कर्षणे वृक्षयोश्चैव शकटस्य तथैव च ।
अचिन्त्यं कर्म्म तच्छ्रुत्वा वर्धमानेषु शत्रुषु ।। ५।।
प्राप्तारिष्टमिवात्मानं मेने स मथुरेश्वरः ।
विसंज्ञेन्द्रियभूतात्मा गतासुप्रतिमो बभौ ।। ६ ।।
ततो ज्ञातीन् समानाय्य पितरं चोग्रशासनः ।
निशि स्तिमितमूकायां मथुरायां जनाधिपः ।। ७ ।।
वसुदेवं च देवाभं कङ्कं चाहूय यादवम्।
सत्यकं दारुकं चैव कङ्कावरजमेव च ।। ८ ।।
भोजं वैतरणं चैव विकद्रुं च महाबलम् ।
भयशङ्खं च धर्मज्ञं विपृथुं च पृथुश्रियम् ।। ९ ।।
बभ्रुं दानपतिं चैव कृतवर्माणमेव च ।
भूरितेजसमक्षोभ्यं भूरिश्रवसमेव च ।। 2.22.१० ।।
एतान्स यादवान् सर्वानाभाष्य शृणुतेति च ।
उग्रसेनसुतो राजा प्रोवाच मथुरेश्वरः ।। ११ ।।
भवन्तः सर्वकार्यज्ञा वेदेषु परिनिष्ठिताः ।
न्यायवृत्तान्तकुशलास्त्रिवर्गस्य प्रवर्तकाः ।। १२ ।।
कर्तव्यानां च कर्तारो लोकस्य विबुधोपमाः ।
तस्थिवांसो महावृत्ते निष्कम्पा इव पर्वताः ।। १३ ।।
अदम्भवृत्तयः सर्वे सर्वे गुरुकुलोषिताः ।
राजमन्त्रधराः सर्वे सर्वे धनुषि पारगाः ।। १४ ।।
यशःप्रदीपा लोकानां वेदार्थानां विवक्षवः ।
आश्रमाणां निसर्गज्ञा वर्णानां क्रमपारगाः ।। १५ ।।
प्रवक्तारः सुनियतां नेतारो नयदर्शिनाम् ।
भेत्तारः परराष्ट्राणां त्रातारः शरणार्थिनाम् ।। १६ ।।
एवमक्षतचारित्रैः श्रीमद्भिरुदितोदितैः ।
द्यौरप्यनुगृहीता स्याद्भवद्भिः किं पुनर्मही ।। १७ ।।
ऋषीणामिव वो वृत्तं प्रभावो मरुतामिव ।
रुद्राणामिव वः क्रोधो दीप्तिरङ्गिरसारमिव ।। १८ ।।
व्यावर्तमानं सुमहद् भवद्भिः ख्यात कीर्तिभिः ।
धृतं यदुकुलं वीरैर्भूतलं पर्वतैरिव ।। १९ ।।
एवं भवत्सु युक्तेषु मम चित्तानुवर्तिषु ।
वर्धमानो ममानर्थो भवद्भिः किमुपेक्षितः ।। 2.22.२० ।।
एष कृष्ण इति ख्यातो नन्दगोपसुतो व्रजे ।
वर्धमान इवाम्भोभिर्मूलं नः परिकृन्तति ।। २१ ।।
अनमात्यस्य शून्यस्य चारान्धस्य ममैव तु ।
कारणान्नन्दगोपस्य स सुतो गोपितो गृहे ।। २२ ।।
उपेक्षित इव व्याधिः पूर्यमाण इवाम्बुदः ।
नदन्मेघ इवोष्णान्ते स दुरात्मा विवर्धते ।। २३ ।।
तस्य नाहं गतिं जाने न योगं न पराक्रमम् ।
नन्दगोपस्य भवने जातस्याद्भुतकर्मणः ।। २४ ।।
किं तद्भूतं समुद्भूतं देवापत्यं न विद्महे ।
अतिदेवैरमानुष्यैः कर्मभिः सोऽनुमीयते ।। २५ ।।
पूतना शकुनी बाल्ये शिशुनोत्तानशायिना ।
स्तनपानेप्सुना पीता प्राणैः सह दुरासदा ।। २६ ।।
यमुनाया ह्रदे नागः कालियो दमितस्तथा ।
रसातलचरो नीतः क्षणेनादर्शनं ह्रदात् ।। २७ ।।
नन्दगोपसुतो योगं कृत्वा स पुनरुत्थितः ।
चेनुकस्तालशिखरात् पातितो जीवितं विना ।। २८ ।।
प्रलम्बं यं मृधे देवा न शेकुरतिवर्तितुम् ।
बालेन मुष्टिनैकेन स हतः प्राकृतो यथा ।। २९ ।।
वासवस्योत्सवं भङक्त्वा वर्षं वासवरोषजम् ।
निर्जित्य गोगृहार्थाय धृतो गोवर्धनो गिरिः।।2.22.३०।।
हतस्त्वरिष्टो बलवान् निःशृङ्गश्च कृतो व्रजे ।
अबालो बाल्यमास्थाय रमते शिशुलीलया ।। ३१ ।।
प्रबन्धः कर्मणामेव तस्य गोव्रजवासिनः ।
संनिकृष्टं भयं चैव केशिनो मम च धुवम् ।। ३२ ।।
भूतपूर्वश्च मे मृत्युः सततं पूर्वदैहिकः ।
युद्धाकाङ्क्षी च स यथा तिष्ठतीह ममाग्रतः ।। ३३ ।।
क्व च गोपत्वमशुभं मानुष्यं मृत्युदुर्बलम् ।
क्व च देवप्रभावेण क्रीडितव्यं व्रजे मम ।। ३४ ।।
अहो नीचेन वपुषाच्छादयित्वाऽऽत्मनो वपुः ।
कोऽप्येष रमते देवः श्मशानस्य इवानलः ।। ३५ ।।
श्रूयते हि पुरा विष्णुः सुराणां कारणान्तरे ।
वामनेन तु रूपेण जहार पृथिवीमिमाम् ।। ३६ ।।
कृत्वा केसरिणो रूपं विष्णुना प्रभविष्णुना ।
हतो हिरण्यकशिपुर्दानवानां पितामहः ।।३७।।
अचिन्त्यरूपमास्थाय श्वेतशैलस्य मूर्धनि ।
भवेन च्याविता दैत्याः पुरा तत्त्रिपुरं घ्नता ।। ३८ ।।
चालितो गुरुपुत्रेण भार्गवोऽङ्गिरसेन वै ।
प्रविश्य दार्दुरीं मायामनावृष्टिं चकार ह ।। ३९ ।।
अनन्तः शाश्वतो देवः सहस्रशिरसोऽव्ययः ।
वाराहं रूपमास्थाय प्रोज्जहारार्णवान्मही म् ।। 2.22.४० ।।
अमृते निर्मिते पूर्वं विष्णुः स्त्रीरूपमास्थितः ।
सुराणामसुराणां च युद्धं चक्रे सुदारुणम् ।। ४१ ।।
अमृतार्थे पुरा चापि देवदैत्यसमागमे ।
दधार मन्दरं विष्णुरकूपार इति श्रुतिः ।। ४२ ।।
वपुर्वामनमास्थाय नन्दनीयं पुरा बलेः ।
त्रिभिः क्रमैस्तु त्रींल्लोकाञ्जहार त्रिदिवालयम् ।। ४३ ।
चतुर्धा तेजसो भागं कृत्वा दाशरथे गृहे ।
स एव रामसंज्ञो वै रावणं व्यनशत् तदा ।। ४४ ।।
एवमेव निकृत्या वै तत्तद्रूपमुपागतः ।
साधयत्यात्मनः कार्यं सुराणामर्थसिद्धये।।४५।।
तदेव नूनं विष्णुर्वा शक्रो वा मरुतां पतिः ।
मत्साधनेच्छया प्राप्तो नारदो मां यदुक्तवान् ।। ४६ ।।
अत्र मे शङ्कते बुद्धिर्वसुदेवं प्रति ध्रुवा ।
अस्य बुद्धिविशेषेण वयं कातरतां गताः ।। ४७ ।।
अहं हि खट्वाङ्गवने नारदेन समागतः ।
द्वितीयं स हि मां विप्रः पुनरेवाब्रवीद् वचः ।। ४८ ।।
यस्त्वया हि कृतो यत्नः कंस गर्भकृते महान् ।
वसुदेवेन ते रात्रौ तत्कर्म विफलीकृतम् ।। ४९ ।।
दारिका या त्वया रात्रौ शिलायां कंस पातिता ।
तां यशोदासुतां विद्धि कृष्णं च वसुदेवजम् ।। 2.22.५० ।।
रात्रौ व्यावर्तितावेतौ गर्भौ तव वधाय वै ।
वसुदेवेन संधाय मित्ररूपेण शत्रुणा ।। ५१ ।।
सा तु कन्या यशोदाया विन्ध्ये पर्वतसत्तमे ।
हत्वा शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ।। ५२ ।।
कृताभिषेका वरदा भूतसंघनिषेविता ।
अर्च्यते दस्युभिर्घोरैर्महाबलिपशुप्रिया ।। ५३
सुरापिशितपूर्णाभ्यां कुम्भाभ्यामुपशोभिता ।
मयूराङ्गदचित्रैश्च बर्हभारैर्विभूषिता ।। ५४ ।।
हृष्टकुक्कुटसंनादं वनं वायसनादितम् ।
मृगसंघैश्च सम्पूर्णमविरुद्धैश्च पक्षिभिः ।। ५५ ।।
सिंहव्याघ्रवराहाणां नादेन प्रतिनादितम् ।
वृक्षगम्भीरनिबिडं कान्तारैः सर्वतो वृतम् ।। ५६ ।।
दिव्यभृङ्गारुचमरैरादर्शैरुपशोभितम् ।
देवतूर्यनिनादैश्च शतशः प्रतिनादितम् ।। ५७ ।।
स्थानं तस्या नगे विन्ध्ये निर्मितं स्वेन तेजसा ।
रिपूणां त्रासजननी नित्यं तत्र मनोरमे ।। ५८ ।।
वसते परमप्रीता देवतैरपि पूजिता।
यस्त्वयं नन्दगोपस्य कृष्ण इत्युच्यते सुतः ।। ५९ ।।
अत्र मे नारदः प्राह सुमहत्कर्मकारणम् ।
द्वितीयो वसुदेवाद् वै वासुदेवो भविष्यति ।। 2.22.६० ।।
स हि ते सहजो मृत्युर्बान्धवश्च भविष्यति ।
स एव वासुदेवो वै वसुदेवसुतो बली ।
बान्धवो धर्मतो मह्यं हृदयेनान्तको रिपुः ।।६१ ।।
नेत्रे तुदति तस्यैव वक्त्रेणामिषगृद्धिना ।। ६२ ।।
वसुदेवस्तथैवायं सपुत्रज्ञातिबान्धवः ।
छिनत्ति मम मूलानि भुङ्क्ते च मम पार्श्वतः।।६३।।
भ्रूणहत्यापि संतार्या गोवधः स्त्रीवधोऽपि वा ।
न कृतघ्नस्य लोकोऽस्ति बान्धवस्य विशेषतः ।। ६४ ।।
पतितानुगतं मार्गं निषेवत्यचिरेण सः ।
यः कृतघ्नोऽनुबन्धेन प्रीतिं वहति दारुणाम् ।। ६५ ।
नरकाध्युषितः पन्था गन्तव्यस्तेन दारुणः ।
अपापे पापहृदयो यः पापमनुतिष्ठति ।। ६६ ।।
अहं वा स्वजनः श्लाघ्यः स वा श्लाघ्यतरः सुतः ।
नियमैर्गुणवृत्तेन त्वया बान्धवकाम्यया ।। ६७ ।।
हस्तिनां कलहे घोरे वधमृच्छन्ति वीरुधः ।
युद्धव्युपरमे ते तु सहाश्नन्ति महावने ।। ६८ ।।
बान्धवानामपि तथा भेदकाले समुत्थिते ।
वध्यते योऽन्तरप्रेप्सुः स्वजनो यदि वेतरः ।। ६९ ।।
कालस्त्वं हि विनाशाय मया पुष्टो विजानता ।
वसुदेव कुलस्यास्य यद् विरोधयसे भृशम् ।। 2.22.७० ।।
अमर्षी वैरशीलश्च सदा पापमतिः शठः ।
स्थाने यदुकुलं मूढ शोचनीयं त्वया कृतम् ।। ७१ ।।
वसुदेव वृथा वृद्ध यन्मया त्वं पुरस्कृतः ।
श्वेतेन शिरसा वृद्धो नैव वर्षशतैर्भवेत् ।। ७२ ।।
यस्य बुद्धिः परिणता स वै वृद्धतरो नृणाम् ।। ७३ ।।
त्वं च कर्कशशीलश्च बुद्ध्या च न बहुश्रुतः ।
केवलं वयसा वृद्धो यथा शरदि तोयदः ।। ७४ ।।
किं च त्वं साधु जानीषे वसुदेव वृथामते ।
मृते कंसे मम सुतो मथुरां पालयिष्यति ।। ७५ ।।
छिन्नाशस्त्वं वृथावृद्धो मिथ्यात्वेवं विचारितम् ।
जिजीविषुर्न सोऽप्यस्ति योऽवतिष्ठेन्ममाग्रतः ।। ७६ ।।
प्रहर्तुकामो विश्वस्ते यस्त्वं दुष्टेन चेतसा ।
तत् ते प्रतिकरिष्येऽहं पुत्रयोस्तव पश्यतः ।। ७७ ।।
न मे वृद्धवधः कश्चिद् द्विजस्त्रीवध एव च ।
कृतपूर्वः करिष्ये वा विशेषेण तु बान्धवे ।। ७८ ।।
इह त्वं जातसंवृद्धो मम पित्रा विवर्धितः ।
पितृष्वसुश्च मे भर्ता यदूनां प्रथमो गुरुः ।। ७९ ।।
कुले महति विख्यातः प्रथिते चक्रवर्तिनाम् ।
गुर्वर्थं पूजितः सद्भिर्महद्भिर्धर्मबुद्धिभिः ।। 2.22.८० ।।
किं करिष्यामहे सर्वे सत्सु वक्तव्यतां गताः ।
यदूनां यूथमुख्यस्य यस्य ते वृत्तमीदृशम् ।। ८१ ।।
मद्वधो वा जयो वाथ वसुदेवस्य दुर्नयैः ।
सत्सु यास्यन्ति पुरुषा यदूनामवगुण्ठिताः ।। ८२ ।।
त्वया हि मद्वधोपायं तर्कमाणेन वै मृधे ।
अविश्वास्यं कृतं कर्म वाच्याश्च यदवः कृताः ।। ८३ ।।
अशाम्यं वैरमुत्पन्नं मम कृष्णस्य चोभयोः ।
शान्तिमेकतरे शान्तिं गते यास्यन्ति यादवाः ।। ८४ ।।
गच्छ दानपते क्षिप्रं ताविहानयितुं व्रजात् ।
नन्दगोपं च गोपांश्च करदान् मम शासनात् ।। ८५ ।।
वाच्यश्च नन्दगोपो वै करमादाय वार्षिकम् ।
शीघ्रमागच्छ नगरं गोपैः सह समन्वितः ।। ८९ ।।
कृष्णसंकर्षणौ चैव वसुदेवसुतावुभौ ।
द्रष्टुमिच्छति वै कंसः सभृत्यः सपुरोहितः ।। ८७ ।।
एतौ युद्धविदौ रङ्गे कालनिर्माणयोधिनौ ।
दृढौ च कृतिनौ चैव शृणोमि व्यायतोद्यमौ ।। ८८ ।।
अस्माकमपि मल्लौ द्वौ सज्जौ युद्धकृतोत्सवौ ।
ताभ्यां सह नियोत्स्येते तौ युद्धकुशलावुभौ ।। ८९ ।।
द्रष्टव्यौ च मयावश्यं बालौ तावमरोपमौ ।
पितृष्वसुः सुतौ मुख्यौ व्रजवासौ वनेचरौ ।। 2.22.९० ।।
वक्तव्यं च व्रजे तस्मिन् समीपे व्रजवासिनाम् ।
राजा धनुर्मखं नाम कारयिष्यति वै सुखी ।। ९१ ।।
संनिकृष्टे वने ते तु निवसन्तु यथासुखम् ।
जनस्यामन्त्रितस्यार्थे यथा स्यात् सर्वमव्ययम् ।।९२ ।।
पयसः सर्पिषश्चैव दध्नो दध्युत्तरस्य च ।
यथाकामप्रदानाय भोज्याधिश्रयणाय च ।। ९३ ।।
अक्रूर गच्छ शीघ्रं त्वं तावानय ममाज्ञया ।
संकर्षणं च कृष्णं च द्रष्टुं कौतूहलं हि मे ।। ९४ ।।
तयोरागमने प्रीतिः परमा मत्कृता भवेत्।
दृष्ट्वा तु तौ महावीर्यौ तद्विधास्यामि यद्धितम् ।। ९५ ।।
शासनं यदि वा श्रुत्वा मम तौ परिभाषितम् ।
नागच्छेतां यथाकालं निग्राह्यावपि तौ मम ।। ९६ ।।
सान्त्वमेव तु बालेषु प्रधानं प्रथमो नयः ।
मधुरेणैव तौ मन्दौ स्वयमेवानयाशु वै ।। ९७ ।।
अक्रूर कुरु मे प्रीतिमेतां परमदुर्लभाम् ।
यदि वा नोपजप्तोऽसि वसुदेवेन सुव्रत ।
तथा कर्तव्यमेतद्धि यथा तावागमिष्यतः ।। ९८ ।।
एवमाक्षिप्यमाणोऽपि वसुदेवो वसूपमः ।
सागराकारमात्मानं निष्प्रकम्पमधारयत् ।।९९।।
वाक्छल्यैस्ताड्यमानस्तु कंसेनादीर्घदर्शिना ।
क्षमां मनसि संधाय नोत्तरं प्रत्यभाषत ।।2.22.१००।
ये तु तं ददृशुस्तत्र क्षिप्यमाणमनेकधा ।
धिग्धिगित्यसकृत्ते वै शनैरूचुरवाङ्मुखाः ।।१०१।।
अक्रूरस्तु महातेजा जानन् दिव्येन चक्षुषा ।
जलं दृष्ट्वेव तृषितः प्रेषितः प्रीतिमानभूत् ।।१०२।।
तस्मिन्नेव मुहूर्ते तु मथुरायाः स निर्ययौ ।
प्रीतिमान्पुण्डरीकाक्षं द्रष्टुं दानपतिः स्वयम् ।।१०३।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अक्रूरप्रस्थाने द्वाविंशोऽध्यायः।।२२।।