प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२२ हरिवंशपुराणम्
अध्यायः ०२३
वेदव्यासः
अध्यायः ०२४ →
अन्धकस्य कंसं प्रति कठोरप्रतिवचनानि

त्रयोविंशोऽध्यायः

वैशम्पायन उवाच
क्षिप्तं यदुवृषं दृष्ट्वा सर्वे ते यदुपुङ्गवाः ।
निपीड्य श्रवणान् हस्तैर्मेनिरे तं गतायुषम् ।। १ ।।
अन्धकोऽनुद्विग्नमना धैर्यादविकृतं वचः ।
प्रोवाच वदतां श्रेष्ठः समाजे कंसमोजसा ।। २ ।।
अश्लाघ्यो मे मतः पुत्र तवायं वाक्परिश्रमः ।
अयुक्तो गर्हितः सद्भिर्बान्धवेषु विशेषतः ।। ३ ।।
अयादवो यदि भवाञ्छृणु तावद् यदुच्यते ।
न हि त्वां यादवं वीर बलात्कुर्वन्ति यादवाः ।। ४ ।।
अश्लाघ्या वृष्णयः पुत्र येषां त्वमनुशासिता ।
इक्ष्वाकुवंशजो राजा विनिवृत्तः स्वयं सकृत् ।। ५ ।।
भोजो वा यादवो वासि कंसो वासि यथा तथा ।
सहजं ते शिरस्तात जटी मुण्डोऽपि वा भव ।। ६ ।।
उग्रसेनस्व्ोयं शोच्यो योऽस्माकं कुलपांसनः ।
दुर्जातीयेन येन त्वमीदृशो जनितः सुतः ।। ७ ।।
न चात्मनो गुणांस्तात प्रवदन्ति मनीषिणः ।
परेणोक्ता गुणा गौण्यं यान्ति वेदार्थसम्मिताः ।। ८ ।।
पृथिव्यां यदुवंशोऽयं निन्दनीयो महीक्षिताम् ।
बालः कुलान्तकृन्मूढो येषां त्वमनुशासिता ।। ९ ।।
असाधुमद्भिर्वाक्यैश्च त्वया साध्विति भाषितैः ।
न चाप्यासादितं कार्यमात्मा च विवृतः कृतः ।। 2.23.१० ।।
गुरोरनवलिप्तस्य मान्यस्य महतामपि ।
क्षेपणं कः शुभं मन्थे द्विजस्येव वधे कृते ।। ११ ।।
मान्याश्चैवाभिगम्याश्च घृद्धास्तात यथाग्नयः ।
क्रोधो हि तेषां प्रदहेल्लोकानन्तर्गतानपि ।। १२ ।।
बुधेन तात दान्तेन नित्यमभ्युच्छ्रितात्मना ।
धर्मस्य गतिरन्वेष्या मत्स्यस्य गतिरप्स्विव ।। १३ ।।
केवलं त्वं तु दर्पेण वृद्धानग्निसमानिह ।
वचा तुदसि मर्मघ्न्या अमन्त्रोक्ता यथाऽऽहुतिः। १४।
वसुदेवं च पुत्रार्थे यदिमं परिगर्हसि ।
तत्र मिथ्या प्रलापं ते निन्दामि कृपणं वचः ।। १५ ।।
दारुणे च पिता पुत्रे नैव दारुणतां व्रजेत् ।
पुत्रार्थं ह्यापदः कष्टाः पितरः प्राप्नुवन्ति हि ।। १६ ।।
छादितो वसुदेवेन यदि पुत्रः शिशुस्तदा ।
मन्यसे यद्यकर्तव्यं तत् पृच्छ पितरं स्वकम् ।। १७ ।।
गर्हता वसुदेवं च यदुवंशं च निन्दता ।
त्वया यादवपुत्राणां वैरजं विषमर्जितम् ।। १८ ।।
अकर्तव्यं यदि कृतं वसुदेवेन पुत्रजम् ।
किमर्थमुग्रसेनेन शिशुस्त्वं न विनाशितः ।। १९ ।।
पुन्नाम्नो नरकात्पुत्रो यस्मात्त्राता पितॄंस्तदा ।
तस्माद् ब्रुवन्ति पुत्रेति पुत्रं धर्मविदो जनाः ।। 2.23.२० ।।
जात्यां हि यादवः कृष्णः स च संकर्षणो युवा।
त्वं चापि विधृतस्ताभ्यां जातवैरेण चेतसा ।। २१ ।।
उद्धृतानीह सर्वेषां यदूनां हृदयानि वै ।
वसुदेवे त्वयाऽऽक्षिप्ते वासुदेवे च कोपिते ।। २२ ।।
कृष्णे च भवतो द्वेष्ये वसुदेवविगर्हणात् ।
शंसन्ति चेमानि भयं निमित्तान्यशुभानि ते ।। २३ ।।
सर्पाणां दर्शनं तीव्रं दुःस्वप्नानां निशाक्षये ।
पुर्या वैधव्यशंसीनि कारणैरनुमीमहे ।। २४ ।।
एष घोरोग्रहः स्वातीमुल्लिखन् खे गभस्तिभिः ।
वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः ।। २५ ।।
बुधेन पश्चिमा संध्या व्याप्ता घोरेण तेजसा ।
वैश्वानरपथे शुक्रो ह्यतिचारं चचार ह ।। २६ ।।
केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश ।
भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम् ।। २७ ।।
प्राक्संध्या परिघग्रस्ता भाभिर्बाधति भास्करम्।
प्रतिलोमं च यान्त्येव व्याहरन्तो मृगद्विजाः ।। २८ ।।
शिवा स्मशानान्निष्क्रम्य निःश्वासाङ्गारवर्षिणी।
उभे संध्ये पुरीं घोरा पर्येति बहु वाशती ।। २९ ।।
उल्का निर्घातनादेन पपात धरणीतले ।
चलत्यपर्वणि मही गिरीणां शिखराणि च ।। 2.23.३० ।।
त्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत ।
धूमोत्पातैर्दिशो व्याप्ताः शुष्काशनिसमाहताः ।। ३१ ।।
प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः ।
चलिता देवताः स्थानात्त्यजन्ति विहगा नगान् ।।३२।।
यानि राजविनाशाय दैवज्ञाः कथयन्ति ह ।
तानि सर्वाणि पश्यामो निमित्तान्यशुभानि वै ।। ३३ ।।
त्वं चापि स्वजनद्वेषी राजधर्मपराङ्मुखः ।
अनिमित्तागतक्रोधः संनिकृष्टभयो ह्यसि ।। ३४ ।।
यस्त्वं देवोपमं वृद्धं वसुदेवं वसूपमम् ।
मोहात् क्षिपसि दुर्बुद्धे कुतस्ते शान्तिरात्मनः ।। ३५ ।।
त्वद्गतो यो हि नः स्नेहस्तं त्यजामोऽद्य वै वयम् ।
अहितं स्वस्य वंशस्य न त्वां क्षणमुपास्महे ।। ३६ ।।
स हि दानपतिर्धन्यो यो द्रक्ष्यति वने गतम् ।
पुण्डरीकविशालाक्षं कृष्णमक्लिष्टकारिणम् ।। ३७ ।।
छिन्नमूलो ह्ययं वंशो यदूनां त्वत्कृते कृतः ।
कृष्णो ज्ञातीन् समानाय्य स संधानं करिष्यति ।। ३८ ।।
क्षान्तमेव तवानेन वसुदेवेन धीमता ।
कालसम्यक्परिज्ञानो ब्रूहि त्वं यद्यदिच्छसि ।। ३९ ।।
मह्यं तु रोचते कंस वसुदेवसहायवान् ।
गच्छ कृष्णस्य निलयं संधिस्तेन च रोचताम् ।।2.23.४०।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अन्धकवचने त्रयोविंशोऽध्यायः ।। २३ ।।