हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०२५
← अध्यायः ०२४ | हरिवंशपुराणम् अध्यायः ०२५ वेदव्यासः |
अध्यायः ०२६ → |
अक्रूरस्य व्रजे आगमनं, कृष्णस्य दर्शनं चिन्तनं च। |
पञ्चविंशोऽध्यायः
वैशम्पायन उवाच
अथास्तं गच्छति तदा मन्दरश्मौ दिवाकरे।
संध्यारक्ततले व्योम्नि शशाङ्के पाण्डुमण्डले ॥ १ ॥
नीडस्थेषु विहङ्गेषु सत्सु प्रादुष्कृताग्निषु ।
ईषत्तमः संवृतासु दिक्षु सर्वासु सर्वशः॥ २ ॥
घोषवासिषु सुप्तेषु वाशन्तीषु शिवासु च।
नक्तंचरेषु हृष्टेषु पिशिताशनकाङ्क्षिषु ॥ ३॥
शक्रगोपाह्वयामोदे प्रदोषेऽभ्यासतस्करे।
संध्यामयीमिव गुहां सम्प्रतिष्ठे दिवाकरे ॥४॥
अधिश्रयणवेलायां प्राप्तायां गृहमेधिनाम् ।
वन्यैर्वैखानसैर्मन्त्रैर्हूयमाने हुताशने ॥ ५ ॥
उपावृत्तासु वै गोषु दुह्यमानासु च व्रजे।
असकृद्व्याहरन्तीषु बद्धवत्सासु धेनुषु ॥ ६॥
प्रकीर्णदामनीकेषु गास्तथैवाह्वयत्सु च।
सनिनादेषु गोपेषु काल्यमाने च गोधने ॥ ७ ॥
करीषेषु प्रक्लृप्तेषु दीप्यमानेषु सर्वशः। ।
काष्ठभारानतस्कन्धैर्गोपैरभ्यागतैस्तथा ॥८॥
किंचिदभ्युद्यते सोमे मन्दरश्मौ विराजति।
ईषद्विगाहमानायां रजन्यां दिवसे गते ॥ ९ ॥
प्राप्ते दिनव्युपरमे प्रवृत्ते क्षणदामुखे ।
भास्करे तेजसि गते सौम्ये तेजस्युपस्थिते ॥ १० ॥
अग्निहोत्राकुले काले सौम्येन्दौ समुपस्थिते।
अग्नीषोमात्मके संधौ वर्तमाने जगन्मये ॥११॥
पश्चिमेनाग्निदीप्तेन पूर्वेणोत्पलवर्चसा।
दग्धाद्रिसदृशे व्योम्नि किंचित्तारागणाकुले ॥ १२॥
वयोभिर्वासमुशतां बन्धुभिश्च समागमम् ।।
शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम् ॥ १३॥
प्रविशन्नेव पप्रच्छ सांनिध्यं केशवस्य सः।
रौहिणेयस्य चाक्रूरो नन्दगोपस्य चासकृत् ॥ १४॥
स नन्दगोपस्य गृहं वासाय विबुधोपमः ।
अवतीर्य ततो यानात् प्रविवेश महाबलः ॥ १५॥
हर्षपूर्णेन वक्त्रेण साश्रुनेत्रेण चैव हि ।
प्रविशन्नेव च द्वारि ददर्शादोहने गवाम् ॥ १६॥
वत्समध्ये स्थितं कृष्णं सवत्समिव गोवृषम् ।
स तं हर्षपरीतेन वचसा गद्गदेन वै ॥ १७॥
एहि केशव तातेति प्रव्याहरत धर्मवित् ।
उत्तानशायिनं दृष्ट्वा पुनर्दृष्ट्वा श्रिया वृतम् ॥१८॥
अव्यक्तयौवनं कृष्णमक्रूरः प्रशशंस ह।
अयं स पुण्डरीकाक्षः सिंहशार्दूलविक्रमः।
सम्पूर्णजलमेघाभः पर्वतप्रवराकृतिः ॥ १९ ॥
मृधेष्वधर्षणीयेन सश्रीवत्सेन वक्षसा।
द्विषन्निधनदक्षाभ्यां भुजाभ्यां साधु भूषितः ॥२०॥
मूर्तिमान् स रहस्यात्मा जगतोऽग्र्यस्य भाजनम् ।
गोपवेषधरो विष्णुरुदग्राग्र्यतनूरुहः ॥२१॥
किरीटलाञ्छनेनापि शिरसा छत्रवर्चसा।
कुण्डलोत्तमयोग्याभ्यां श्रवणाभ्यां विभूषितः ॥२२॥
हारार्हेण च पीनेन सुविस्तीर्णन वक्षसा।
द्वाभ्यां भुजाभ्यां वृत्ताभ्यां दीर्घाभ्यामुपशोभितः॥२३॥
स्त्रीसहस्रोपचर्येण वपुषा मन्मथाधिना।
पीते वसानो वसने सोऽयं विष्णुः सनातनः ॥२४॥
धरण्याश्रयभूताभ्यां चरणाभ्यामरिंदमः।
त्रैलोक्याकान्तिभूताभ्यां भुवि पद्भ्यां व्यवस्थितः ॥॥ २५ ॥
रुचिराग्रकरश्चास्य चक्राङ्कित इवेक्षते।
द्वितीय उद्यतश्चापि गदासंयोगमिच्छति ॥ २६ ॥
अवतीणों भवायेह प्रथमं पदमात्मनः।
शोभतेऽद्य भुवि श्रेष्ठस्त्रिदशानां धुरंधरः ॥ २७ ॥
अयं भविष्ये कथितो भविष्यकुशलैर्नरैः।
गोपालो यादवं वंशं क्षीणं विस्तारयिष्यति ॥२८॥
तेजसा यादवाश्चास्य शतशोऽथ सहस्रशः।
वंशमापूरयिष्यन्ति ह्योघा इव महार्णवम् ॥ २९॥
अस्येदं शासने सर्वं जगत् स्थास्यति शाश्वतम् ।
निहतामित्रसामन्तं स्फीतं कृतयुगे तथा ॥ ३०॥
अयमास्थाय वसुधां स्थापयित्वा जगद् वशे।
राज्ञां भविष्यत्युपरि न च राजा भविष्यति ॥ ३१ ॥
नूनं त्रिभिः क्रमैर्जित्वा यथानेन प्रभुः कृतः।
पुरा पुरंदरो राजा देवतानां त्रिविष्टपे ॥ ३२॥
तथैव वसुधां जित्वा जितपूर्वां त्रिभिः क्रमैः ।
स्थापयिष्यति राजानमुग्रसेनं न संशयः ॥ ३३॥
प्रसृष्टवैरगाधोऽयं प्रश्नैश्च बहुभिः श्रुतः।
ब्राह्मणैर्ब्रह्मवादैश्च पुराणोऽयं हि गीयते ॥ ३४॥
स्पृहणीयो हि लोकस्य भविष्यति च केशवः ।
तथा हास्योत्थिता बुद्धिर्मानुष्यमुपजीवितुम् ॥ ३५ ॥
अहं त्वस्याद्य वसतिं पूजयिष्ये यथाविधि ।
विष्णुत्वं मनसा चैव पूजयिष्यामि मन्त्रवत् ॥ ३६॥
यच्च ज्ञातिपरिज्ञानं प्रादुर्भावश्च वै नृषु ।
अमानुषं वेद्मि चैनं ये चान्ये दिव्यचक्षुषः ॥ ३७॥
सोऽहं कृष्णेन वै रात्रौ सम्मन्त्र्य विदितात्मना।
सहानेन गमिष्यामि सव्रजो यदि मंस्यते ॥ ३८॥
एवं बहुविधं कृष्णं दृष्ट्वा हेत्वर्थकारणैः।
विवेश नन्दगोपस्य कृष्णेन सह संसदम् ॥ ३९ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अक्रूरागमने पञ्चविंशोऽध्यायः ॥ २५ ॥