हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०२६

← अध्यायः ०२५ हरिवंशपुराणम्
अध्यायः ०२६
वेदव्यासः
अध्यायः ०२७ →
अकूरस्य गोपेभ्यः कंसस्यादेशस्य ख्यापनं, वसुदेवदेवक्योः दयनीयां दशां कथयित्वा श्रीकृष्णबलरामाभ्यां मथुरागमने प्रेरणम्, मार्गे अक्रूरेण यमुनाजले आश्चर्यमयस्य नागलोकस्य एवं भगवतः अनन्तस्य एवं तस्य अङ्के श्रीकृष्णस्य दर्शनम्

षड्विंशोऽध्यायः

वैशम्पायन उवाच
स नन्दगोपस्य गृहं प्रविष्टः सह केशवः ।
गोपवृद्धान् समानीय प्रोवाचामितदक्षिणः ।। १ ।।
कृष्णं चैवाब्रवीत् प्रीत्या रौहिणेयेन सङ्गतम् ।
श्वः पुरीं मथुरां तात गमिष्यामः सुखाय वै ।। २ ।।
यास्यन्ति च व्रजाः सर्वे गोपालाः सपरिग्रहाः ।
कंसाज्ञया समुचितं करमादाय वार्षिकम् ।। ३ ।।
समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः ।
तं द्रक्ष्यथ समृद्धं च स्वजनैश्च समेष्यथ ।। ४।।
पितरं वसुदेवं च सततं दुःखभाजनम् ।
दीनं पुत्रवधश्रान्तं युवामद्य समेष्यथः ।। ५ ।।
सततं पीड्यमानं च कंसेनाशुभबुद्धिना ।
दशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम् ६ ।।
कंसस्य भयसंत्रस्तं भवद्भ्यां च विना कृतम् ।
दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना ।। ७ ।।
तां च द्रक्ष्यसि गोविन्द पुत्रैरमृदितस्तनीम् ।
देवकीं देवसंकाशां सीदन्तीं विहतप्रभाम् ।। ८ ।।
पुत्रशोकेन शुष्यन्तीं त्वद्दर्शनपरायणाम् ।
वियोगशोकसंतप्तां विवत्सामिव सौरभीम् ।। ९ ।।
उपप्लुतेक्षणां दीनां नित्यं मलिनवाससम् ।
स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभामिव ।। 2.26.१० ।।
त्वद्दर्शनपरां नित्यं तवागमनकाङ्क्षिणीम् ।
त्यत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम्। ११ ।।
त्वत्प्रलापेष्वकुशला त्वया बाल्ये वियोजिताम् ।
अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः ।। १२ ।।
यदि त्वां जनयित्वा सा देवकी तात तप्यते ।
अपत्यार्थो नु कस्तस्या वरं ह्येवानपत्यता ।।१३ ।।
अपुत्राणां हि नारीणामेकः शोको विधीयते ।
सपुत्रा त्वफले पुत्रे धिक्प्रजातेन तप्यते ।। १४ ।।
त्वं तु शक्रसमः पुत्रो यस्यात्तवत्सदृशो गुणैः ।
परेषामप्यभयदो न सा शोचितुमर्हति ।। १५ ।।
वृद्धौ तवाम्बापितरौ परभृत्यत्वमागतौ ।
भर्त्सितौ त्वत्कृते नित्यं कंसेनाशुभबुद्धिना ।। १६ ।।
यदि ते देवकी मान्या पृथिवीवात्मधारिणी ।
तां शोकसलिले मग्नामुत्तारयितुमर्हसि ।। १७ ।।
तं च वृद्धं प्रियसुतं वसुदेवं सुखोचितम् ।
पुत्रयोगेन संयोज्य कृष्ण धर्ममवाप्स्यसि ।। १८ ।।
यथा नागः सुदुर्वृत्तो दमितो यमुनाह्रदे ।
विमूलः स कृतः शैलो यथा वै भूधरस्त्वया ।। १९ ।।
दर्पोत्सिक्तश्च बलवानरिष्टो विनिपातितः ।
परप्राणहरः केशी दुष्टात्मा च हयो हतः ।। 2.26.२० ।।
एतेनैव प्रयत्नेन वृद्धावुद्धृत्य दुःखितौ ।
यथा धर्ममवाप्नोषि तत्कृष्ण परिचिन्त्यताम् ।। २१ ।।
निर्भर्त्स्यमानो यैर्दृष्टः पिता ते कंससंसदि ।
ते सर्वे चक्रुरश्रूणि नेत्रैर्दुःखान्विता भृशम् ।। २२ ।।
गर्भावकर्तनादीनि दुःखानि सुबहून्यपि ।
माता ते देवकी कृष्ण कंसस्य सहतेऽवशा ।। २३ ।।
मातापितृभ्यां सर्वेण जातेन तनयेन वै ।
ऋणं वै प्रतिकर्तव्यं यथायोगमुदाहृतम् ।। २४ ।।
एवं ते कुर्वतः कृष्ण मातापित्रोरनुग्रहम् ।
परित्यजेतां तौ शोकं स्याच्च धर्मस्तवानघ ।। २५ ।।
वैशम्पायन उवाच
कृष्णः सुविदितार्थो वै तमाहामितविक्रमम् ।
बाढमित्येव तेजस्वी न च क्रोधवशं गतः ।। २६ ।।
ते च गोपाः समागम्य नन्दगोपपुरःसराः ।
अक्रूरवचनं श्रुत्वा चेलुः कंसस्य शासनात् ।। २७ ।।
गमनाय च ते सज्जा बभूवुर्व्रजवासिनः ।
सज्जं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे ।। २८ ।।
करं चानडुहः सर्पिर्महिषांश्चौपनायिकान् ।
यथासारं यथायूथमुपानीय पयो दधि ।। २९ ।।
तं सज्जयित्या कंसस्य करं चोपायनानि च ।
ते सर्वे गोपपतयो गमनायोपतस्थिरे ।। 2.26.३० ।।
अक्रूरस्य कथाभिश्च सह कृष्णेन जाग्रतः ।
रौहिणेयतृतीयस्य सा निशा व्यत्यवर्तत ।। ३१ ।।
ततः प्रभाते विमले पक्षिव्याहारसंकुले ।
नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते ।। ३२ ।।
नभस्यरुणसंस्तीर्णे पर्यस्ते ज्योतिषां गणे ।
प्रत्यूषपवनासारैः क्लेदिते धरणीतले ।। ३३ ।।
क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च ।
नैशमन्तर्दधे रूपमुद्गच्छति दिवाकरे ।। ३४ ।।
शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत ।
एको नाशयते रूपमेको वर्धयते वपुः ।। ३५।।
गोभिश्च समकीर्णासु व्रजनिर्याणभूमिषु ।
मन्थनावर्तपूर्णेषु गर्गरेषु नदत्सु च ।। ३६ ।।
दामभिर्दम्यमानेषु वत्सेषु तरुणेषु च ।
गोपैरापूर्यमाणासु घोषरथ्यासु सर्वशः ।। ३७ ।।
तत्रैव गुरुकं भाण्डं शकटारोपितं बहु ।
त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः ।। ३८ ।।
कृष्णोऽथ रौहिणेयश्च स चैवामितदक्षिणः ।
त्रयो रथगता जग्मुस्त्रिलोकपतयो यथा ।। ३९ ।।
अथाह कृष्णमक्रूरो यमुनातीरमाश्रितः ।
स्यन्दनं चात्र रक्षस्व यत्नं च कुरु वाजिषु ।। 2.26.४० ।।
हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा ।
प्रगाढं यत्नमास्थाय क्षणं तात प्रतीक्ष्यताम् ।। ४१ ।।
यमुनाया ह्रदे ह्यस्मिन् स्तोष्यामि भुजगेश्वरम् ।
दिव्यैर्भागवतैर्मन्त्रैः सर्वलोकप्रभुं यतः ।। ४२ ।।
गुह्यं भागवतं देवं सर्वलोकस्य भावनम् ।
श्रीमत्स्वस्तिकमूर्द्धानं प्रणमिष्यामि भोगिनम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ।। ४३ ।।
धर्मदेवस्य तस्याथ यद् विषं प्रभविष्यति ।
सर्वं तदमृतप्रख्यमशिष्याम्यमरो यथा ।। ४४ ।।
स्वस्तिकायतनं दृष्ट्वा द्विजिह्वं श्रीविभूषितम् ।
समाजस्तत्र सर्पाणां शान्त्यर्थं वै भविष्यति ।। ४५ ।।
आस्तां मां समुदीक्षन्तौ भवन्तौ सङ्गतावुभौ ।
निवृत्तो भुजगेन्द्रस्य यावदस्मि ह्रदोत्तमात् ।। ४६ ।।
तमाह कृष्णः संहृष्टो गच्छ धर्मिष्ठ मा चिरम् ।
आवां खलु न शक्तौ स्वस्त्वया हीनावुपासितम् ।।४७।।
स हृदे यमुनायास्तु ममज्जामितदक्षिणः ।
रसातले स ददृशे नागलोकमिमं यथा ।। ४८ ।।
तस्य मध्ये सहस्रास्यं हेमतालोच्छ्रितध्वजम् ।
लाङ्गलासक्तहस्ताग्रं मुसलोपाश्रितोदरम् ।। ४९ ।।
असिताम्बरसंवीतं पाण्डुरं पाण्डुरासनम् ।
कुण्डलैकधरं मत्तं सुप्तमम्बुरुहेक्षणम् ।। 2.26.५० ।।
भोगोत्करासने शुभ्रे स्वेन देहेन कल्पिते ।
स्वासीनं स्वस्तिकाभ्यां च वराहाभ्यां महीधरम् ।। ५१ ।।
किंचित् सव्यापवृत्तेन मौलिना हेमचूलिना ।
जातरूपमयैः पद्मैर्मालयाच्छन्नवक्षसम् ।। ५२ ।।
रक्तचन्दनदिग्धाङ्गं दीर्घबाहुमरिंदमम् ।
पद्मनाभसिताभ्राभं भाभिर्ज्वलिततेजसम् ।। ५३ ।।
ददर्श भोगिनां नाथं स्थितमेकार्णवेश्वरम् ।
पूज्यमानं द्विजिह्वेन्द्रैर्वासुकिप्रमुखैः प्रभुम् ।। ५४ ।।
कम्बलाश्वतरौ नागौ तौ चामरकरावुभौ ।
अवीजयेतां तं देवं धर्मासनगतं प्रभुम् ।। ५५ ।।
तस्याभ्याशगतो भाति वासुकिः पन्नगेश्वरः ।
वृतोऽन्यैः सचिवैः सर्पैः कर्कोटकपुरःसरैः ।। ५६ ।।
तं घटैः काञ्चनैर्दिव्यैः पङ्कजच्छन्नमस्तकैः ।
राजानं स्नापयामासुः स्नातमेकार्णवाम्बुभिः ।। ५७ ।।
तस्योत्सङ्गे घनश्यामं श्रीवत्साच्छादितोरसम् ।
पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह ।। ५८ ।।
अपरं चैव सोमेन तुल्यसंहननं प्रभुम् ।
संकर्षणमिवासीनं तं दिव्यं विष्टरं विना ।। ५९ ।।
स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे ।
तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा ।। 2.26.६० ।।
सोऽनुभूय भुजङ्गानां तं भागवतमव्ययम् ।
उदतिष्ठत्पुनस्तोयाद् विस्मितोऽमितदक्षिणः ।। ६१ ।।
स तौ रथस्थावासीनौ तत्रैव बलकेशवौ ।
निरीक्ष्यमाणावन्योन्यं ददर्शाद्भुतरूपिणौ ।। ६२ ।।
अथामज्जत् पुनस्तत्र तदाक्रूरः कुतूहलात्।
इज्यते यत्र देवोऽसौ नीलवासाः सिताननः ।। ६३।।
तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै ।
ददर्श कृष्णमक्रूरः पूज्यमानं तदा प्रभुम् ।। ६४ ।।
भूयश्च सहसोत्थाय तं मन्त्रं मनसा जपन् ।
रथं तेनैव मार्गेण जगामामितदक्षिणः ।। ६५ ।।
तमाह केशवो हृष्टः स्थितमक्रूरमागमत् ।
कीदृशं नागलोकस्य वृत्तं भागवते ह्रदे ।। ६६ ।।
चिरं च भवता कालो व्याक्षेपेण विलम्बितः ।
मन्ये दृष्टं त्वयाश्चर्यं हृदयं ते यथाचलम् ।। ६७ ।।
प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना ।
किं भविष्यति लोकेषु स्थावरेषु चरेषु च ।। ६८ ।।
तत्राश्चर्यं मया दृष्टं कृष्ण यद् भुवि दुर्लभम्।
तदिहापि यथा तत्र पश्यामि च रमामि च ।। ६९ ।।
संगतश्चापि लोकानामाश्चर्येणेह रूपिणा ।
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ।। 2.26.७० ।।
तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो ।
यावन्नास्तं व्रजत्येष दिवसान्ते दिवाकरः ।। ७१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अक्रूरकृतनागलोककथने षड्विंशोऽध्यायः ।। २६ ।।