प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३१ हरिवंशपुराणम्
अध्यायः ०३२
वेदव्यासः
अध्यायः ०३३ →
श्रीकृष्णेन कंसवधाय पश्चात्तापपूर्वकं तस्य औचित्यस्य समर्थनम्, उग्रसेनेन श्रीकृष्णं सर्वसमर्पणं कृत्वा कंसस्य अन्त्येष्टिसंस्काराय अनुरोधं, श्रीकृष्णेन तस्य राज्याभिषेककरणम्, समस्त यादवैः सह कंसादीनां अन्त्येष्टिकारणम्।

द्वात्रिंशोऽध्यायः

वैशम्पायन उवाच
उग्रसेनस्तु कृष्णस्य समीपं दुःखितो ययौ ।
पुत्रशोकाभिसंतप्तो विषपीत इव श्वसन् ।। १ ।।
स ददर्श गृहे कृष्णं यादवैः परिवारितम् ।
पश्चानुतापाद् ध्यायन्तं कंसस्य निधनाविलम् ।। २ ।।
कंसनारीविलापांश्च श्रुत्वा स करुणान् बहून् ।
गर्हमाणस्तथाऽऽत्मानं तस्मिन् यादवसंसदि ।। ३ ।।
अहो मयातिबाल्येन रोषाद् दोषानुवर्तिना ।
वैधव्यं स्त्रीसहस्राणां कंसस्यास्य वधे कृतम् ।। ४ ।।
कारुण्यं खलु नारीषु प्राकृतस्यापि जायते ।
एवमार्तं रुदन्तीषु मया भर्तरि पातिते ।। ५ ।।
परिदेवितमात्रेण शोकः खलु विधीयते ।
कृतान्तस्यानभिज्ञानां स्त्रीणां कारुण्यसम्भवः ।।६ ।।
कंसस्य हि वधः श्रेयान् प्रागेवाभिमतो मम ।
सतामुद्वेजनीयस्य पापेष्वभिरतस्य च ।। ७ ।।
लोके पतितवृत्तस्य परुषस्यालल्पमेधसः ।
अक्लिष्टं मरणं श्रेयो न विद्विष्टस्य जीवितम् ।। ८ ।।
कंसः पापपरश्चैव साधूनामप्यसम्मतः ।
धिक्छब्दपतितश्चैव जीविते चास्य का दया ।। ९ ।।
स्वर्गे तपोभृतां वास फलं पुण्यस्य कर्मणः ।
इहापि यशसा युक्तः स्वर्गस्थैरवधार्यते ।। 2.32.१० ।।
यदि स्युर्निर्वृता लोकाः स्युश्च धर्मपराः प्रजाः ।
नरा धर्मप्रवृत्ताश्च न राज्ञामनयः स्पृशेत् ।। ११ ।।
निग्रहे दुष्टवृत्तीनां कृतान्तः कृरुते फलम् ।
इष्टधर्मेषु लोकेषु कर्तव्यं पारलौकिकम् ।। १२ ।।
अतीव देवा रक्षन्ति नरं धर्मपरायणम् ।
कर्तारः सुलभा लोके दुष्कृतस्य हि कर्मणः ।। १३ ।।
हतः सोऽयं मया कंसः साध्वेतदवगम्यताम् ।
मूलच्छेदः कृतस्तस्य विपरीतस्य कर्मणः ।। १४ ।।
तदेष सान्त्व्यतां सर्वः शोकार्तः प्रमदाजनः ।
पौराश्च पुर्यां श्रेण्यश्च सान्त्व्यन्तां सर्व एव हि ।। १५ ।।
एवं ब्रुवति गोविन्दे विवेशावनताननः ।
उग्रसेनो यदून् गृह्य पुत्रकिल्बिषशङ्कितः ।। १६ ।।
स कृष्णं पुण्डरीकाक्षमुवाच यदुसंसदि ।
वाष्पसंदिग्धया वाचा दीनया सज्जमानया ।। १७ ।।
पुत्रो निर्यातितः क्रोधान्नीतो याम्यां दिशं रिपुः ।
स्वधर्माधिगता कीर्तिर्नाम विश्रावितं भुवि ।। १८ ।।
स्थापितं सत्सु माहात्म्यं शङ्किता रिपवः कृताः ।
स्थापितो यादवो वंशो गर्विताः सुहृदः कृताः ।। १९।।
सामन्तेषु नरेन्द्रेषु प्रतापस्ते प्रकाशितः ।
मित्राणि त्वां भजिष्यन्ति संश्रयिष्यन्ति पार्थिवाः ।।2.32.२०।।
प्रकृतयोऽनुयास्यन्ति स्तोष्यन्ति त्वां द्विजातयः ।
संधिविग्रहमुख्यास्त्वां प्रणमिष्यन्ति मन्त्रिणः ।। २१ ।।
हस्त्यश्वरथसम्पूर्णं पदातिगणसंकुलम् ।
प्रतिगृहाण कृष्णेदं कंसस्य बलमव्ययम् ।। २८ ।।
धनं धान्यं च यत् किंचिद् रत्नान्याच्छादनानि च ।
प्रतीच्छन्तु नियुक्ता वै त्वदीयाः कृष्ण पूरुषाः ।।२३।।
स्त्रियो हिरण्यं यानानि यदन्यद् वसु किंचन ।
एवं हि विहिते योगे पर्याप्ते कृष्ण विग्रहे ।। २४ ।।
प्रतिष्ठितायां मेदिन्यां यदूनां शत्रुसूदन ।
त्वं गतिश्चागतिश्चैव यदूनां यदुनन्दन ।। २५ ।।
शृणुष्व वदतां वीर कृपणानामिदं वचः ।
अस्य त्वत्कोपदग्धस्य कंसस्याशुभकर्मणः ।। २६ ।।
तव प्रसादाद् गोविन्द प्रेतकार्यं क्रियेत ह ।
तस्य कृत्वा नरेन्द्रस्य विपन्नस्यौर्ध्वदेहिकम् ।। २७ ।।
सस्नुषोऽहं सभार्यश्च चरिष्यामि मृगैः सह ।
प्रेतसत्कारमात्रेण कृते बान्धवकर्मणि ।
आनृण्यं लौकिकं कृष्ण गताः किल भवन्ति हि ।। २८ ।।
तस्याग्निं पश्चिमं कृत्वा चितिस्थाने विधानतः ।
तोयप्रदानमात्रेण कंसस्यानृण्यमाप्नुयाम् ।। २९ ।।
एतत्ते कृष्ण विज्ञाप्यं स्नेहोऽत्र मयि युज्यताम् ।
प्राप्नोति सुगतिं तत्र कृपणः पश्चिमां क्रियाम् ।। 2.32.३० ।।
एतच्छ्रुत्वा वचस्तस्य कृष्णः परमविस्मितः ।
प्रत्युवाचोग्रसेनं वै सान्त्वपूर्वमिदं वचः ।। ३१ ।।
कालयुक्तमिदं तात तवैतद् यत् प्रभाषितम् ।
सदृशं राजशार्दूल वृत्तस्य च कुलस्य च ।। ३२ ।।
यत् त्वमेवंविधं ब्रूषे गतेऽर्थे दुरतिक्रमं ।
प्राप्स्यते नृपसत्कारं कंसः प्रेतगतोऽऽपि सन् ।। ३३ ।।
कुले महति ते जन्म वेदान् विदितवानसि ।
कथं न ज्ञायते तात नियतिर्दुरतिक्रमा ।। ३४ ।।
स्थावराणां च भूतानां जङ्गमानां च पार्थिव ।
पूर्वजन्मकृतं कर्म कालेन परिपच्यते ।। ३५ ।।
श्रुतवन्तोऽर्थवन्तश्च दातारः प्रियदर्शनाः ।
ब्रह्मण्या नयसम्पन्ना दीनानुग्रहकारिणः ।। ३६ ।।
लोकपालसमास्तात महेन्द्रसमविक्रमाः ।
क्षितिपालाः कृतान्तेन नीयन्ते नृपसत्तम ।। ३७ ।।
धार्मिकाः सर्वभावज्ञाः प्रजापालनतत्पराः ।
क्षत्रधर्मपरा दान्ताः कालेन निधनं गताः ।। ३८ ।।
स्वयमात्मकृतं कर्म शुभं या यदि वाशुभम् ।
प्राप्ते काले तु तत्कर्म दृश्यते सर्वदेहिनाम् ।। ३९ ।।
एषा ह्यन्तर्हिता माया दुर्विज्ञेया सुरैरपि ।
यथायं मुह्यते लोको ह्यत्र कर्मैव कारणम् ।। 2.32.४० ।।
कालेनाभिहतः कंसः पूर्वकर्मप्रचोदितः ।
न ह्यहं कारणं तत्र कालः कर्म च कारणम् ।। ४१ ।।
सूर्यसोममयं तात कृत्स्नं स्थावरजङ्गमम् ।
कालेन निधनं गत्वा कालेनैव च जायते ।। ४२ ।।
स कालः सर्वभूतानां निग्रहानुग्रहे रतः ।
तस्मात्सर्वाणि भूतानि कालस्य वशगानि वै ।। ४३ ।।
स्वदोषेणैव दग्धस्य सूनोस्तव नराधिप ।
नाहं वै कारणं तत्र कालस्तत्र च कारणम् ।। ४४ ।।
अथवाहं भविष्यामि कारणं नात्र संशयः ।
परायणपरः कालः किं करिष्यत्यकारणः ।। ४५ ।।
कालस्तु बलवान् राजन् दुर्विज्ञेया हि सा गतिः।
परावरविशेषज्ञा यां यान्ति समदर्शिनः ।। ४६ ।।
गतिः कालस्य सा येन सर्वं कालस्य गोचरम् ।
ब्रवीमि यदहं तात तदनुष्ठीयतां वचः ।। ४७ ।।
न हि राज्येन मे कार्यं नाप्यहं नृप काङ्क्षितः ।
न चापि राज्यलुब्धेन मया कंसो निपातितः ।। ४८ ।।
किं तु लोकहितार्थाय कीर्त्यर्थं च सुतस्तव ।
व्यङ्गभूतः कुलस्यास्य सानुजो विनिपातितः ।। ४९ ।।
अहं स एव गोमध्ये गोपैः सह वनेचरः ।
प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ।। 2.32.५० ।।
एतावच्छतशोऽप्येवं सत्येनैतद् ब्रवीमि ते ।
न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियतामिदम् ।। ५१ ।।
भवान राजास्तु मान्यो मे यदूनामग्रणीः प्रभुः ।
विजयायाभिषिच्यस्व स्वराज्ये नृपसत्तम ।। ५२ ।।
यदि ते मत्प्रियं कार्यं यदि वा नास्ति ते व्यथा ।
मया निसृष्टं राज्यं स्वं चिराय प्रतिगृह्यताम् ।। ५३ ।।
वैशम्पायन उवाच
एतच्छ्रुत्वा तु वचनं नोत्तरं प्रत्यभाषत ।
व्रीडिताधोमुखं तं तु राजानं यदुसंसदि ।
अभिषेकेन गोविन्दो योजयामास धर्मवित् ।। ५४ ।।
स बद्धमुकुटः श्रीमानुग्रसेनो महाद्युतिः ।
चकार सह कृष्णेन कंसस्य निधनक्रियाम् ।। ५५ ।।
तं सर्वे यादवा मुख्या राजानं कृष्णशासनात् ।
अनुजग्मुः पुरीमार्गे देवा इव शतक्रतुम् ।। ५६ ।।
रजन्यां तु निवृत्तायां ततः सूर्ये विराजिते ।
पश्चिमं कंससंस्कारं चक्रुस्ते यदुपुङ्गवाः ।। ५७ ।।
शिबिकायामथारोप्य कंसदेहं यथाक्रमम् ।
नैष्टिकेन विधानेन चक्रुस्ते कंससत्क्रियाम् ।। ५८ ।।
स नीतो यमुनातीरमुत्तमं नृपतेः सुतः ।
सत्कृतश्च यथान्यायं नैधनेन चिताग्निना ।। ५९ ।।
तथैव भ्रातरं चास्य सुनामानं महाभुजम् ।
संस्कारं लम्भयामासुः सह कृष्णेन यादवाः ।। 2.32.६० ।।
ताभ्यां ते सलिलं चक्रुर्वृष्ण्यन्धकपुरोगमाः ।
अक्षयं चास्तु प्रेतेभ्यो भाषमाणाः पुनः पुनः ।। ६१ ।।
हिरण्यस्य सुवर्णस्य दश कोटीस्तथा हरिः ।
गावो रत्नानि वासांसि ग्रामान् नगरसम्मतान् ।। ६२ ।।
ददौ कंसं समुद्दिश्य ब्राह्मणेभ्यो नृपोत्तमः ।
अक्षयं चापि विप्रेभ्यो भाषमाणाः पुनः पुनः ।। ६३ ।।
तयोस्ते सलिलं दत्त्वा यादवा दीनमानसाः ।
पुरस्कृत्योग्रसेनं वै विविशुर्मथुरां पुरीम् ।। ६४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उग्रसेनाभिषेककंससंस्कारकथने द्वात्रिंशोऽध्यायः ।। ३२ ।।