← अध्यायः ०४१ हरिवंशपुराणम्
अध्यायः ०४२
वेदव्यासः
अध्यायः ०४३ →
जरासंधस्य सेनायाः वर्णनम्, तस्य सैन्यं पर्वतोपरि आक्रमणाय आज्ञापनम्, शिशुपालस्य सम्मत्या गोमन्तके पर्वते अग्निदानम्, पर्वतस्य ज्वलनम् एवं बलरामकृष्णयोः पर्वतात्कूर्दयित्वा राजानां सैन्येषु आगमनम्

द्विचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
जरासंधस्ततः प्राप्तो नृपः सर्वमहीक्षिताम् ।
नराधिपैर्बलयुतैरनुयातो महाद्युतिः ।। १ ।।
व्यायतोदग्रतुरगैर्विस्पष्टार्थसमाहितैः ।
रथैः साङ्ग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ।। २ ।।
हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ।
महामात्रोत्तमारूढैः कल्पितै रणगर्वितैः ।। ३ ।।
स्वारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ।
वाजिभिर्वायुसंकाशैः प्ल्रवद्भिरिव पत्रिभिः ।। ४ ।।
खङ्गचर्मबलोदग्रैः पत्तिभिर्बलिनां वरैः ।
सहस्त्रसंख्यैर्निर्मुक्तैरुत्पतद्भिरिवोरगैः ।। ५ ।।
एवं चतुर्विधैः सैन्यैः प्रचलद्भिरिवाम्बुदैः ।
नृपोऽभियातो बलवाञ्जरासंधो धृतव्रतः ।। ६ ।।
स रथैनेमिघोषैश्च गजैश्च मदसंयुतैः ।
हेषद्भिश्चापि तुरगैः क्ष्वेडितोग्रैश्च पत्तिभिः ।। ७ ।।
संनादयन् दिशः सर्वाः सर्वाश्चापि गुहाशयान् ।
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ।। ८ ।।
तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ।
क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ।। ९ ।।
रथैः पवनसंपातैर्गजैश्च जलदोपमैः ।
तुरगैश्च सिताभ्राभैः पत्तिभिश्चापि दंशितैः ।। 2.42.१० ।।
व्यामिश्रं तद्बलं भाति मत्तद्विपसमाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा ।। ११ ।।
सबलास्ते महीपाला जरासंधपुरोगमाः ।
परिवार्य गिरिं सर्वे निवेशायोपचक्रमुः ।। १२ ।।
बभौ तस्य निविष्टस्य बलश्रीः शिविरस्य वै ।
शुक्ले पर्वणि पूर्णस्य यथा रूपं महोदधेः ।। १३ ।।
वीतरात्रे ततः काले नृपास्ते कृतकौतुकाः ।
आरोहणार्थं शैलस्य समेता युद्धलालसाः ।। १४ ।।
समवायीकृताः सर्वे गिरिप्रस्थेषु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ।। १५ ।।
एषां तु तुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणां यथा स्वनः ।। १६ ।।
तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं ब्रुवन्तो राजशासनात् ।। १७ ।।
तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनभुजङ्गस्य निःशब्दस्य पयोदधेः ।। १८ ।।
तस्मिन् स्तिमितनिदशब्दे योगादिव महार्णवे ।
जरासन्धो बृहद्वाक्यं बृहस्पतिरिवाददे ।। १९ ।।
शीघ्रं समभिवर्तन्तां बलानीह महीक्षिताम् ।
सर्वतः पर्वतश्चायं बलौघैः परिवार्यताम् ।। 2.42.२० ।।
अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
ऊर्ध्वं चापि प्रवाह्यन्तां प्रासा वै तोमराणि च ।। २१ ।।
ऊर्ध्व प्रक्षेपणार्थाय दृढानि च लधूनि च ।
शस्त्रपातविघातानि क्रियन्तामाशु शिल्पिभिः ।। २२ ।।
शूराणां युद्ध्यमानानां प्रमत्तानां परस्परम् ।
यथा नरपतिः प्राह तथा शीघ्रं विधीयताम् ।। २३ ।।
दार्यतामेष टङ्कौघैः खनित्रैश्च नगोत्तमः ।
नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः ।। २४ ।।
अद्यप्रभृति सैन्यैर्मे गिरिरोधः प्रवर्त्यताम् ।
यावदेतौ पातयामो वसुदेवसुतावुभौ ।। २५ ।।
अचलोऽयं शिलायोनिः क्रियतां निश्चलाण्डजः ।
आकाशमपि बाणोर्घैर्निःसम्पातं विधीयताम् ।। २६ ।।
मयानुशिष्टास्तिष्ठन्तु गिरिभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां गिरिः ।। २७ ।।
मद्रः कलिङ्गाधिपतिश्चेकितानश्च बाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा ।। २८ ।।
द्रुमः किंपुरुषश्चैव पर्वतीयाश्च मानवाः ।
पर्वतस्यापरं पार्श्वं क्षिप्रमारोहयन्त्वमी ।। २९ ।।
पौरवो वेणुदारिश्च वैदर्भः सोमकस्तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः ।। 2.42.३० ।।
पाञ्चालाधिपतिश्चैव द्रुपदश्च नराधिपः ।
विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् ।। ३१ ।।
छागलिः पुरमित्रश्च विराटश्च महीपतिः ।
कौशाम्ब्यो मालवश्चैव शतधन्वा विदूरथः ।। ३२।।
भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ।
उत्तरं पर्वतोद्देशमेते दुर्गसहा नृपाः ।
आरोहन्तु विमर्दन्तो वज्रप्रतिमगौरवाः ।। ३३ ।।
उलूकः कैतवेयश्च वीरश्चांशुमतः सुतः ।
एकलव्यो दृढाश्वश्च क्षत्रधर्मा जयद्रथः ।। ३४ ।।
उत्तमौजास्तथा शाल्वः कैरलेयश्च कैशिकः ।
वैदिशो वामदेवश्च सुकेतुश्चापि वीर्यवान् ।। ३५ ।।
पूर्वपर्वतनिर्व्युहमेतेष्वायतमस्तु नः ।
विदारयन्तो धावन्तो वाता इत बलाहकान् ।। ३६ ।।
अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं शैलनिचयं दारयिष्याम दंशिताः ।। ३७ ।।
एवमेष गिरिः क्षिप्रं समन्ताद् वेष्टितो बलैः ।
वज्रप्रपातप्रतिमं प्राप्नोतु तुमुलं भयम् ।। ३८ ।।
गदिनो वै गदाभिश्च परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु नगोत्तमम् ।। ३९ ।।
एष भूमिधरोऽद्यैव विषमोच्चशिलान्वितः ।
कार्यो भूमिसमः सर्वो भवद्भिर्वसुधाधिपैः ।। 2.42.४० ।।
जरासंधवचः श्रुत्वा पार्थिवा राजशासनात् ।
गोमन्तं वेष्टयामासुः सागराः पृथिवीमिव ।! ४१ ।।
उवाच राजा चेदीनां देवानां मघवानिव ।
किं ते युद्धेन दुर्गे ऽस्मिन् गोमन्ते च नगोत्तमे ।। ४२ ।।
दुरारोहश्च शिखरे प्रांशुपादपकण्टके ।
काष्ठैस्तृणैश्च बहुभिः परिवार्य समन्ततः ।। ४३ ।।
अद्यैव दीप्यतां क्षिप्रमलमन्येन कर्मणा ।
क्षत्रियाः सुकुमारा हि रणे सायकयोधिनः ।। ४४ ।।
नियुक्ताः पर्वते दुर्गे नियोक्तुं पादयोधिनः ।
ननाम प्रतिबन्धेन न चावस्कन्दकर्मणा ।। ४५ ।।
शक्य एष गिरिस्तात देवैरप्यवमर्दितुम् ।
दुर्गयुद्धे क्रमः श्रेयान् रोधयुद्धेन पार्थिवाः ।। ४६ ।।
भक्तोदकेन्धनैः क्षीणाः पात्यन्ते गिरिसंश्रिताः ।
वयं बहव इत्येवं नाप्येष निपुणो नयः ।। ४७ ।।
यादवौ नावमन्तव्यौ द्वावप्येतौ रणे स्थितौ ।
अविज्ञातबलावेतौ श्रूयेते देवसम्मितौ ।। ४८ ।।
कर्मभिस्त्वमरौ विद्मो वालावतिबलान्वितौ ।
दुष्कराणीह कर्माणि कृतवन्तौ यदूत्तमौ ।। ४९ ।।
शुष्ककाष्ठैस्तृणैर्वेष्ट्य सर्वतः पर्वतोत्तमम् ।
अग्निना दीपयिष्यामो दह्येतां गतचेतनौ ।। 2.42.५० ।।
यदि चेन्निष्क्रमिष्येते दह्यमानावितोऽन्तिके ।
समेत्य पातयिष्यामस्त्यक्ष्यतो जीवितं ततः ।। ५१ ।।
वाक्यमेतत्तु रुरुचे सबलानां महीक्षिताम् ।
यदुक्तं चेदिराजेन नृपाणां हितशंसिना ।। ५२ ।।
ततः काष्ठैस्तृणैर्वंशैः शुष्कशाखैश्च पादपैः ।
उपादीप्यत शैलेन्द्रः सृर्यपादैरिवाम्बुदः ।। ५३ ।।
ददुस्ते सर्वतस्तूर्णं पावकं तत्र पार्थिवाः ।
यथोद्देशं यथावातं शैलस्य लघुविक्रमाः ।। ५४ ।।
स वायुदीपितो वह्निरुत्पपात समन्ततः ।
सधूमज्वालमालाभिर्भाभिः खमिव शोभयन् ।। ५५ ।।
सोऽनलः पवनायस्तः काष्ठसंचयमूलवान् ।
ददाह शैलं श्रीमन्तं गोमन्तं कान्तपादपम् ।। ५६ ।।
स दह्यमानः शैलेन्द्रो मुमोच विपुलाः शिलाः ।
शतशः शतधा भूत्वा महोल्काकारदर्शनाः ।। ५७ ।।
स चित्रभानुः शैलेन्द्रं भाभिर्भानुरिवाम्बुदम् ।
आलिम्पतीव विधिवत् समन्तादर्चिरुद्धतः ।। ५८ ।।
धातुभिः पच्यमानैश्च ज्वलद्भिश्चैव पादपैः ।
उद्भ्रान्तश्वापदो रौति तुद्यमान इवाद्रिराट् ।। ५९ ।।
प्रतप्तो दह्यमानस्तु स शैलः कृष्णवर्त्मना ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः ।। 2.42.६० ।।
वह्निना चापि दीप्ताङ्गो गिरिर्नातिविराजते ।
धूमान्धकारोर्ध्वतनुर्मज्जमान इवाम्बुदः ।। ६१ ।।
विश्लिष्टोपलसंघातः कर्कशाङ्गारवर्षणः ।
गिरिर्भात्यनलोद्गारैरुल्कावृष्टिरिवाम्बुदः ।। ६२ ।।
प्रपातप्रस्रपोत्क्षिप्तो धूमसंवर्द्धितोदरः ।
स गिरिर्भस्मतां यातो युगान्ताग्निहतोपमः ।। ६३ ।।
विह्वलास्तस्य पार्श्वेभ्यः सर्पा दग्धार्धदेहिनः ।
श्वसन्तः पृथुमूर्धानो निश्चेरुरशिवेक्षणाः ।। ६४ ।।
उत्पत्योत्पत्य गगनात् पुनः पुनरवाङ्मुखाः ।
रेसुश्चोद्वेजिताः सिंहाः शार्दूलाश्चानलाविलाः ।। ६५ ।।
मुमुचुः पादपाश्चैव दाहनिर्यासजं जलम् ।। ६६ ।।
वहत्यूर्ध्वगतिर्वातो भस्माङ्गारातिपिङ्गलः ।
धूमच्छाया च गगने दर्पिताम्भोददर्शना ।। ६७ ।।
व्यज्यमानो महासानुर्विहगै- श्वापदैरपि।
गिरिर्वैकल्यमायाति प्रागल्भ्यात्कृष्णवर्त्मनः ।। ६८ ।।
स मुमोच शिलाः शैलश्चलोदग्रशिलोच्चयः ।
वज्रेण पुरुहूतस्य यथा स्याद् दारितस्तथा ।। ६९ ।।
आदीप्य तं तु शैलेन्द्रं क्षत्रिया व्यूहदंशिताः ।
अर्धक्रोशमपक्रान्ताः पावकेनाभितापिताः ।। 2.42.७० ।।
दह्यमाने नगश्रेष्ठे सीदमानैर्महाद्रुमैः ।
धूमभारैरनालक्ष्ये मूले शिथिलतां गते ।। ७१ ।।
सरोषं हि तदा रामो वचनं केशिसूदनम् ।
बभाषे पद्मपत्राक्षं स साक्षान्मधुसूदनम् ।। ७२ ।।
दह्यतेऽयं गिरिस्तात ससानुशिखरद्रुमः ।
आवयोः कृष्ण वैरेण बलिभिर्वसुधाधिपैः ।। ७३ ।।
पश्य कृष्णानलौष्णानां सधूमानां समन्ततः ।
वनानां विरसन्तीव नगाभ्याशे द्विपोत्तमाः ।। ७४ ।।
अयं यद्यावयोरर्थे गोमन्तस्तात दह्यते ।
अयशस्यमिदं लोके कौलीनं च भविष्यति ।। ७५ ।।
तदस्यानृण्यहेतोर्हि नगस्य नगसंनिभ ।
क्षत्रियान्निहनिष्यामो दोर्भ्यामेव युधां वर ।। ७६ ।।
एते ते क्षत्रियाः सर्वे गिरिमादीप्य दंशिताः ।
रथिनस्तात दृश्यन्ते यथादेशं युयुत्सवः ।। ७७ ।।
एवमुक्त्वा गिरेः शृङ्गान्मेरुशृङ्गादिवोडुराट् ।
निपपात बलः श्रीमान् वनमालाधरो युवा ।। ७८ ।।
कादम्बरीमदक्षीबो नीलवासाः सिताननः ।
स शारदेन्दुसंकाशो वनमालाञ्चितोदरः ।। ७९ ।।
कान्तैककुण्डलधरश्चारुमौलिरवाङमुखः ।
निपपात नरेन्द्राणां मध्ये केशवपूर्वजः ।। 2.42.८० ।।
अवप्लुते ततो रामे कृष्णः कृष्णाम्बुदोपमः ।
गोमन्तशिखराच्छ्रीमानाप्लुतोऽमितविक्रमः ।। ८१ ।।
ततस्तं पीडयामास पद्भ्यां गिरिवरं हरिः ।
स पीडितो गिरिस्तेन निर्ममज्ज समन्ततः ।। ८२ ।।
जलाकुलोपलस्तत्र प्रस्रुतो द्विरदो यथा ।
स तेन वारिणा वह्निस्तत्क्षणात् प्रशमं ययौ ।। ८३ ।।
कल्पान्ते वारिधाराभिर्मेघजालैरिवांशुमान् ।
सिंहारसितनिर्घोषः पीतवासा घनाकृतिः ।। ८४ ।।
किरीटमूर्द्धा सौम्यास्यः पुण्डरीकनिभेक्षणः ।
श्रीवत्सवक्षाः सुमुखः सहस्राक्षसमद्युतिः ।। ८५ ।।
रामादनन्तरं कृष्णः प्लुतो वै वीर्यवांस्ततः ।
ताभ्यामेव प्लुताभ्यां च चरणैः पीडितो गिरिः ।। ८६ ।।
मुमोच सलिलोत्पीडांस्तीव्रपावकशान्तये ।
सलिलोत्पीडनं दृष्ट्वा पार्थिवा भयमाविशन् ।। ८७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोमन्तदाहे द्विचत्वारिंशोऽध्यायः ।।४२ ।।