हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०४३

← अध्यायः ०४२ हरिवंशपुराणम्
अध्यायः ०४३
वेदव्यासः
अध्यायः ०४४ →
श्रीकृष्णबलरामाभ्यां जरासंधेन तस्य सेनया सह युद्धं, राजा दरदस्य मृत्युः, जरासंधस्य पराजितं भूत्वा पलायनं एवं चेदिराज दमघोषेण सह श्रीकृष्णबलरामाभ्यां करवीरपुरे गमनम्

त्रयश्चत्वारिंशोऽध्यायः

वैशम्पायन उवाच
तौ नगादाप्लुतौ दृष्ट्वा वसुदेवसुतावुभौ ।
क्षुब्धं नरवरानीकं सर्वं सम्मूढवाहनम् ।। १ ।।
बाहुप्रहरणौ तौ तु चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ ।। २ ।।
ताभ्यां मृधे प्रविष्टाभ्यां यादवाभ्यां मतिस्त्वभूत् ।
आयुधानां पुराणानामादानकृतलक्षणा ।। ३ ।।
ततोऽम्बरतलाद् भूयः पतन्ति स्म महात्मनोः ।
मध्ये राजसहस्रस्य समरं प्रतिकाङ्क्षिणोः ।। ४ ।।
यानि वै माथुरे युद्धे प्राप्तान्याहवशोभिनोः ।
तान्यम्बरात् पतन्ति स्म दिव्यान्याहवसम्प्लवे ।। ५ ।।
लेलिहानानि दीप्तानि दीप्ताग्निसदृशानि वै ।
निक्षिप्य यानि तत्रैव तानि प्राप्तौ स्म यादवौ ।। ६ ।।
क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि सर्वशः ।। ७ ।।
दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि दंशितानि दिशो दश ।। ८ ।।
हलं सांवर्तकं नाम सौनन्दं मुसलं तथा ।
चक्रं सुदर्शनं नाम गदां कौमोदकीं तथा ।। ९ ।।
चत्वार्येतानि तेजांसि विष्णुप्रहरणानि वै ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ।। 2.43.१० ।।
जग्राह प्रथमं रामो ललामप्रतिमं रणे ।
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं हलम् ।। ११ ।।
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ।
सौनन्दं नाम बलवान् निरानन्दकरं द्विषाम् ।। १२ ।।
दर्शनीयं च लोकेषु चक्रमादित्यवर्चसम् ।
नाम्ना सुदर्शनं नाम प्रीतो जग्राह केशवः ।। १३ ।।
दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् । ।
नाम्ना शार्ङ्गमिति ख्यातं प्रीतो जग्राह वीर्यवान् ।। १४ ।।
देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ।। १५ ।।
तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान् प्रत्ययुद्ध्यताम्।। १६ ।।
आयुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ ।
पूर्वजानुजसंज्ञौ तु रामगोविन्दलक्षणौ ।। १७ ।।
समरेऽप्रतिरूपौ तौ विष्णुरेको द्विधा कृतः ।
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ।। १८ ।।
हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपनम्।
चचार समरे वीरो द्विषतामन्तकोपमः ।। १९ ।।
विकर्षन् रथवृन्दानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च ।। 2.43.२० ।।
कुञ्जराँल्लाङ्गलोत्क्षिप्तान् मुसलाक्षेपताडितान् ।
रामोऽभिरामः समरे निर्ममन्थ यथाचलान् ।। २१ ।।
ते वध्यमाना रामेण समरे क्षत्रियर्षभाः ।
जरासंधान्तिकं भीता विरथाः प्रतिजग्मिरे ।। २२ ।।
तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ।। २३ ।।
पराक्रान्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ।। २४ ।।
पत्तिनो भुवि चैकस्य गोपस्याल्पबलीयसः ।
भीताः किं विनिवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ।। २५ ।।
क्षिप्रं समभिवर्तन्तां मम वाक्येन नोदिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ।। २६ ।।
ततस्ते क्षत्रियाः सर्वे जरासंधेन नोदिताः ।
क्षिपन्तः शरजालानि हृष्टा योद्धुमुपस्थिताः ।। २७ ।।
ते हयैः काञ्चनापीडै रथैश्चेन्दुसमप्रभैः ।
नागैश्चाम्भोदसंकाशैर्महामात्रप्रणोदितैः ।। २८ ।।
सतनुत्राणनिस्त्रिंशाः सायुधाभरणाम्बराः ।
स्वारोपितधनुष्मन्तः सतूणीराः ससायकाः ।। २९ ।।
सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः ।
रणावनिगता रेजुः स्यन्दनस्था महीक्षितः ।। 2.43.३० ।।
तौ युद्धरङ्गापतितौ विधावन्तौ महाभुजौ ।
वसुदेवसुतौ वीरौ युयुत्सू प्रत्यदृश्यताम् ।। ३१ ।।
तद् युद्धमभवत्तत्र तयोस्तेषां तु संयुगं ।
सायकोत्सर्गबहुलं गदानिर्घातदारुणम् ।। ३२ ।।
ततः शरसहस्राणि प्रतीच्छन्तौ रणेषिणौ ।
तस्थतुर्योधमुख्यौ तावभिवृष्टौ यथाचलौ ।। ३३ ।।
गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ।
अर्द्यमानौ महेष्वासौ यादवौ न चकम्पतुः ।। ३४ ।।
ततः कृष्णोऽम्बुदाकारः शङ्खचक्रगदाधरः
व्यवर्धत महातेजा वातयुक्त इवानलः ।। ३५ ।।
स चक्रेणार्कतुल्येन दीप्यमानेन तेजसा ।
चिच्छेद समरे वीरो नृगजाश्वमहारथान् ।। ३६ ।।
गदानिपातविहता लाङ्गलेन च कर्षिताः ।
न शेकुस्ते रणे स्थातुं पार्थिवा नष्टचेतसः ।। ३७ ।।
चक्रक्षुरनिकृत्तानि विचित्राणि महीक्षिताम् ।
रथयूथानि भग्नानि न शेकुश्चलितुं रणे ।। ३८ ।।
मुसलाक्षेपभग्नाश्च कुञ्जराः षष्टिहायनाः ।
घना इव घनापाये भग्नदन्ता विचुक्रुशुः ।। ३९ ।।
चक्रानलज्वालहताः सादिनः सपदातयः ।
पेतुः परासवस्तत्र यथा वज्रहतास्तथा ।। 2.43.४० ।।
चक्रलाङ्गलनिर्दग्धं तत्सैन्यं विदलीकृतम् ।
युगान्तोपहतप्रख्यं सर्वं पतितमाबभौ ।। ४१ ।।
आक्रीडभूमिं दिव्यानामायुधानां वपुष्मताम् ।
वैष्णवानां नृपास्ते तु द्रष्टुमप्यबलीयसः ।। ४२ ।।
केचिद्रथा सम्मृदिताः केचिन्निहतपार्थिवाः ।
भग्नैकचक्रास्त्वपरे विकीर्णा धरणीतले ।। ४३ ।।
तस्मिन् विशसने घोरे चक्रलाङ्गलसम्प्लवे ।
दारुणानि प्रवृत्तानि रक्षांस्यौत्पातिकानि च ।। ४४ ।।
आर्तानां कूजमानानां पाटितानां च वेणुवत् ।
अन्तो न शक्यतेऽन्वेष्टुं नृनागरथवाजिनाम् ।। ४५ ।।
सा पातितनरेन्द्राणां रुधिराऽऽर्द्रा रणक्षितिः ।
योषेव चन्दनार्द्राङ्गी भैरवा प्रतिभाति वै ।। ४६ ।।
नरकेशास्थिमज्जान्त्रैः शातितानां च दन्तिनाम् ।
रुधिरौघप्लवस्तत्र च्छादयामास मेदिनीम् ।। ४७ ।।
तस्मिन् महाभीषणके नरवाहनसंक्षये ।
शिवानामशिवैः शब्दैर्नादिते घोरदर्शने ।। ४८ ।।
आर्तस्तनितसंनादे रुधिराम्बुह्रदाकुले ।
अन्तकाक्रीडसदृशे नागदेहैः समावृते ।। ४९ ।।
अपास्तैर्बाहुभिर्योधैस्तुरगैश्च विदारितैः ।
कङ्कैश्च बलगृध्रैश्च नादितैः प्रतिनादिते ।। 2.43.५० ।।
निपाते पृथिवीशानां मृत्युसाधारणे रणे ।
कृष्णः शत्रुवधं कर्तुं चचारान्तकदर्शनः ।। ५१ ।।
युगान्तार्कप्रभं चक्रं कालीं चैवायसीं गदाम् ।
गृह्य सैन्यावनिगतो बभाषे केशवो नृपान् ।। ५२ ।।
किन्न युद्धयत वै शूरा हस्त्यश्वरथसंयुताः ।
किमिदं गम्यते शूराः कृतास्त्रा दृढनिश्चयाः ।
अहं सपूर्वजः संख्ये पदातिः प्रमुखे स्थितः ।। ५३ ।।
अदृष्टदोषेण रणे भवन्तो येन पालिताः ।
स इदानीं जरासंधः किमर्थं नाभिवर्तते ।। ५४ ।।
एवमुक्ते तु नृपतिर्दरदो नाम वीर्यवान् ।
रामं हलाग्रोग्रभुजं प्रत्ययात् सैन्यमध्यगम् ।। ५५ ।।
बभाषे स तु ताम्राक्षमुक्षाणमिव सेवनी ।
एह्येहि राम युध्यस्व मया सार्द्धमरिंदम ।। ५६ ।।
तद् युद्धमभवत् ताभ्यां रामस्य दरदस्य च ।
मृधे लोकवरिष्ठाभ्यां कुञ्जराभ्यामिवौजसा ।। ५७ ।।
योजयित्वा ततः स्कन्धे रामो दरदमाहवे ।
हलेन बलिनां श्रेष्ठो मुसलेनावपोथयत् ।। ५८ ।।
स्वकायगतमूर्धा वै मुसलेनावपोथितः ।
पपात दरदो भूमौ दारितार्द्व इवाचलः ।। ५९ ।।
रामेण निहते तस्मिन् दरदे राजसत्तमे ।
जरासंधस्य राज्ञस्तु रामेणासीत्समागमः ।। 2.43.६० ।।
महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः ।
गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावतः ।। ६१ ।।
कम्पयन्तौ भुवं वीरौ तावुद्यतमहागदौ ।
ददृशाते महात्मानौ गिरी सशिखराविव ।। ६२ ।।
व्युपारमन्त युद्धानि प्रेक्ष्य तौ पुरुषर्षभौ ।
संरब्धाविव धावन्तौ गदायुद्धेषु विश्रुतौ ।। ६३ ।।
तावुभौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव महानागावन्योन्यं समधावताम् ।। ६४ ।।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
यक्षाश्चाप्सरसश्चैव समाजग्मुः सहस्रशः ।। ६५ ।।
तद्देवयक्षगन्धर्वमहर्षिभिरलंकृतम् ।
शुशुभेऽभ्यधिकं राजन् नभो ज्योतिर्गणैरिव ।। ६६ ।।
अभिदुद्राव रामं तु जरासंधो नराधिपः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम् ।। ६७ ।।
तावन्योन्यं प्रजह्राते गदायुद्धविशारदौ ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश ।। ६८ ।।
गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासंधस्य च रणे पर्वतस्येव दीर्यतः ।। ६९ ।।
न स्म कम्पयते रामं जरासंधकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः ।। 2.43.७० ।।
रामस्य तु गदावेगं राजा स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोथयत् ।। ७१ ।।
ततोऽन्तरिक्षे वागासीत् सुस्वरा लोकसाक्षिणी ।
न त्वया राम वध्योऽयमलं खेदेन मानद ।।७२।।
विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः ।।७३।।।
जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्राहरत् ततस्तस्मै पुनरेव हलायुधः ।
तौ व्युपारमतां युद्धाद्वृष्णयस्ते च पार्थिवाः ।। ७४ ।।
दीर्घकालं महाराज निजघ्नुरितरेतरम् ।
पराजिते त्वपक्रान्ते जरासंधे महीपतौ ।
विविक्तमभवत् सैन्यं परावृत्तमहारथम् ।। ७५ ।।
ते नृपाश्चोदितैर्नागैः स्यन्दनैस्तुरगैस्तथा ।
दुद्रुवुर्भीतमनसो व्याघ्राघ्राता मृगा इव ।। ७६ ।
तन्नरेन्द्रैः परित्यक्तं भग्नदर्पैर्महारथैः ।
घोरं क्रव्यादबहुलं रौद्रमायोधनं बभौ ।। ७७ ।।
द्रवत्सु रथमुख्येषु चेदिराजो महाद्युतिः ।
स्मृत्वा यादवसम्बन्धं कृष्णमेवान्ववर्तत ।। ७८ ।।
वृतः कारूषसैन्येन चेदिसैन्येन चानघ ।
सम्बन्धकामो गोविन्दमिदमाह स चेदिराट् ।। ७९ ।।
अहं पितृष्वसुर्भर्ता तव यादवनन्दन ।
सबलस्त्वामुपावृत्तस्त्वं हि मे दयितः प्रभो ।। 2.43.८० ।।
उक्तश्चैष मया राजा जरासंधोऽल्पचेतनः ।
कृष्णाद् विरम दुर्बुद्धे विग्रहाद् रणकर्मणि ।। ८१ ।।
तदेषोऽद्य मया त्यक्तो मम वाक्यस्य दूषकः ।
भग्नो युद्धे जरासंधस्त्वया द्रवति सानुगः ।। ८२ ।।
निर्वैरो नैष संयाति स्वपुरं पृथिवीपतिः ।
त्वय्येव भूयोऽप्यपरं दर्शयिष्यति किल्बिषम् ।। ८३ ।।
तदिमां संत्यजाशु त्वं महीं हतनराकुलाम् ।
क्रव्यादगणसंकीर्णां सेवितव्याममानुषैः ।। ८४ ।।
करवीरपुरं कृष्ण गच्छामः सबलानुगाः ।
शृगालं वासुदेवं वै द्रक्ष्यामस्तत्र पार्थिवम् ।। ८५ ।।
इमौ रथवरोदग्रौ युवयोः कारितौ मया ।
योजितौ शीघ्रतुरगैः स्वङ्गचक्राक्षकूबरौ ।। ८६ ।।
शीघ्रमारुह भद्रं ते बलदेवसहायवान् ।
त्वरामः करवीरस्थं द्रष्टुं तं वसुधाधिपम् ।। ८७ ।।
वैशम्पायन उवाच
पितृष्वसृपतेर्वाक्यं श्रुत्वा चेदिपतेस्तदा ।
वाक्यं हृष्टमनाः कृष्णो जगाद जगतो गुरुः ।। ८८ ।।
अहो युद्धाभिसंतप्तौ देशकालोचितं त्वया ।
बान्धवप्रतिरूपेण संसिक्तौ वचनाम्बुना ।। ८९ ।।
देशकालविशिष्टस्य हितस्य मधुरस्य च ।
वाक्यस्य दुर्लभा लोके वक्तारश्चेदिसत्तम ।। 2.43.९० ।।
चेदिनाथ सनाथौ स्वः संवृत्तौ तव दर्शनात् ।
नावयोः किंचिदप्राप्यं ययोस्त्वं बन्धुरीदृशः ।। ९१ ।।
जरासंधस्य निधनं ये चान्ये तत्समा नृपाः ।
पर्याप्तौ त्वत्सनाथौ स्वः कर्तुं चेदिकुलोद्वह ।। ९२ ।।
यदूनां प्रथमो बन्धुस्त्वं हि सर्वमहीक्षिताम् ।
अतः प्रभृति संग्रामान् द्रक्ष्यसे चेदिसत्तम ।। ९३ ।।
चाक्रं मौसलमित्येवं संग्रामं रणवृत्तयः ।
कथयिष्यन्ति लोकेऽस्मिन्ये धरिष्यन्ति पार्थिवाः।।९४।।
राज्ञां पराजयं युद्धे गोमन्तेऽचलसत्तमे ।
श्रवणाद् धारणाद् वापि स्वर्गलोकं व्रजन्ति हि ।। ९५।।
तद्गच्छाम महाराज करवीरं पुरोत्तमम् ।
त्वयोद्दिष्टेन मार्गेण चेदिराज शिवाय वै ।। ९६ ।।
ते स्यन्दनगताः सर्वे पवनोत्पातिभिर्हयैः ।
भेजिरे दीर्घमध्वानं मूर्तिमन्त इवाग्नयः ।। ९७ ।।
ते त्रिरात्रोषिताः प्राप्ताः करवीरं पुरोत्तमम् ।
शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः ।। ९८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि करवीरपुराभिगमने त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।