हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०४६

← अध्यायः ०४५ हरिवंशपुराणम्
अध्यायः ०४६
वेदव्यासः
अध्यायः ०४७ →
बलरामस्य व्रजयात्रा, तेन यमुनायाः कर्षणम्

षट्चत्वारिंशोऽध्यायः

वैशम्पायन उवाच
कस्यचित् त्वथ कालस्य स्मृत्वा गोपेषु सौहृदम्।
जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः ।। १ ।।
स गतस्तत्र रम्याणि ददर्श विपुलानि वै ।
भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च ।। २ ।।
स प्रविष्टस्तु वेगेन तं व्रजं कृष्णपूर्वजः ।
वन्येन रमणीयेन वेषेणालंकृतः प्रभुः ।। ३ ।।
स तानभाषत प्रीत्या यथापूर्वमरिंदमः ।
गोपांस्तेनैव विधिना यथान्यायं यथावयः ।। ४ ।।
तथैव प्राह तान सर्वांस्तथैव परिहर्षयन् ।
तथैव सह गोपीभिर्योजयन्मधुराः कथाः ।। ५ ।।
तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः ।
रामं रमयतां श्रेष्ठं प्रवासात् पुनरागतम् ।। ६ ।।
स्वागतं ते महाबाहो यदूनां कुलनन्दन ।
अद्य स्म निर्वृतास्तात यत् त्वां पश्यामहे वयम्।। ७ ।।
प्रीताश्चैव वयं वीर यत् त्वं पुनरिहागतः ।
विख्यातस्त्रिषु लोकेषु रामः शत्रुभयंकरः ।। ८ ।।
वर्धनीया वयं वीर त्वया यादवनन्दन ।
अथवा प्राणिनस्तात रमन्ते जन्मभूमिषु ।। ९ ।।
त्रिदशानां वयं मान्या ध्रुवमद्यामलानन ।
ये स्म दृष्टास्त्वया तात काङ्क्षमाणास्तवागमम् ।। 2.46.१०।।
दिष्ट्या ते निहता मल्लाः कंसश्च विनिपातितः ।
उग्रसेनोऽभिषिक्तश्च माहात्म्येन जनेन वै ।। ११ ।।
समुद्रे च श्रुतोऽस्माभिस्तिमिना सह विग्रहः ।
वधः पञ्चजनस्यैव जरासंधेन विग्रहः ।
गोमन्ते च श्रुतोऽस्माभिः क्षत्रियैः सह विग्रहः। ।। १२ ।।
दरदस्य वधश्चैव जरासंधपराजयः ।
तत्रायुधावतरणं श्रुत नः परमाहवे ।। १३ ।।
वधश्चैव शृगालस्य करवीरपुरोत्तमे ।
तत्सुतस्याभिषेकश्च नागराणां च सान्त्वनम् ।। १४ ।।
मथुरायां प्रवेशश्च कीर्तनीयः सुरोत्तमैः ।
प्रतिष्ठिता च वसुधा पार्थिवाश्च वशीकृताः ।। १५ ।।
तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा ।
तेन स्म परितुष्टा वै हृषिताश्च सबान्धवाः ।। १६ ।।
प्रत्युवाच ततो रामः सर्वांस्तानभितः स्थितान् ।
यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः ।। १७ ।।
इहावयोर्गतं बाल्यमिह चैवावयो रतम् ।
भवद्भिर्वर्द्धिताश्चैव यास्यामो विक्रियां कथम् ।। १८ ।।
गृहेषु भवतां भुक्तं गावश्च परिरक्षिताः ।
अस्माकं बान्धवाः सर्वे भवन्तो बद्धसौहृदाः ।। १९ ।।
ब्रुवत्येवं यथातत्त्वं गोपमध्ये हलायुधे ।
संहृष्टवदना भूयो बभूबुर्व्रजयोषितः ।। 2.46.२० ।।
ततो वनान्तरगतो रेमे रामो महाबलः ।
एतस्मिन्नन्तरे प्राप्ते रामाय विदितात्मने ।। २१ ।।
गोपालैर्देशकालज्ञैरुपानीयत वारुणी ।
सोऽपिबत् पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः।।२२।।
वनान्तरगतो रामः पानं मदसमीरणम् ।
उपनिन्युस्ततस्तस्मै वन्यानि विविधानि च ।। २३ ।।
प्रत्यग्ररमणीयानि पुष्पाणि च फलानि च ।
मेध्यांश्च विविधान् गन्धान् भक्ष्यांश्च हृदयंगमान् ।
सद्यो हृतानि पद्मानि विकचान्युत्पलानि च ।। २४ ।।
शिरसा चारुकेशैन किंचिदावृतमौलिना ।
श्रवणैकावलम्बेन कुण्डलेन विराजता ।। २५ ।।
चन्दनार्द्रेण पीतेन वनमालावलम्बिना ।
विबभावुरसा रामः कैलासेनेव मन्दरः ।। २६ ।।
नीले वसानो वसने प्रत्यग्रजलदप्रभे ।
रराज वपुषा शुभ्रस्तिमिरौघे यथा शशी ।। २७ ।।
लाङ्गलेनावसिक्तेन भुजगाभोगवर्तिना ।
तथा भुजाग्रश्लिष्टेन मुसलेन च भास्वता ।। २८ ।।
स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ।। २९ ।।
रामस्तु यमुनामाह स्नातुमिच्छे महानदि ।
एहि मामभिगच्छ त्वं रूपिणी सागरंगमे ।। 2.46.३० ।।
संकर्षणस्य मत्तोक्तां भारतीं परिभूय सा ।
नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता ।। ३१ ।।
ततश्चुक्रोध बलवान् रामो मदसमीरितः ।
चकार स हलं हस्ते कर्षणाधोमुखं बली ।। ३२ ।।
तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।
मुमुचुः पुष्पकोशैश्च वासरेण्वरुणं जलम् ।। ३३ ।।
स हलेनानताग्रेण कूले गृह्य महानदीम् ।
चकर्ष यमुनां रामो न्युत्थितां वनितामिव ।। ३४ ।।
सा विह्वलजलस्रोता ह्रदप्रस्थितसंचया ।
व्यावर्तत नदी भीता हलमार्गानुसारिणी ।। ३५ ।।
लाङ्गलादिष्टवर्त्मा सा वेगगा वक्रगामिनी ।
संकर्षणभयत्रस्ता योषेवाकुलतां गता ।। ३६ ।।
पुलिनश्रोणिबिम्बौष्ठी मृदितैस्तोयताडितैः ।
फेनमेखलसूत्रैश्च च्छिन्नैरम्बुदगामिनी ।। ३७ ।।
तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।
वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ।। ३८ ।।
सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।
तीरजोद्भूतकेशान्ता जलस्खलितगामिनी ।। ३९ ।।
लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरंगमा ।
मत्तेव कुटिला नारी राजमार्गेण गच्छती ।। 2.46.४० ।।
कृष्यते सातिवेगेन स्रोतःस्खलितगामिनी ।
उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम् ।। ४१ ।।
वृन्दावनस्य मध्येन सा नीता यमुना नदी ।
रोरूयमाणेव खगैरन्विता तोयवासिभिः ।। ४२ ।।
सा यदा समतिक्रान्ता नदी वृन्दावनं वनम् ।
तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ।। ४३ ।।
प्रसीद नाथ भीतास्मि प्रतिलोमेन कर्मणा ।
विपरीतमिदं रूपं तोयं च मम जायते ।। ४४ ।।
असत्यहं नदीमध्ये रौहिणेय त्वया कृता ।
कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ।। ४५ ।।
प्राप्तां मां सागरे पूर्वं सपत्न्यो वेगगर्विताः ।
फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ।। ४६ ।।
प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज ।
सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ।। ४७ ।।
कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्यताम् ।
मूर्ध्ना गच्छामि चरणौ तवैषा लाङ्गलायुध ।
मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज ।। ४८ ।।
वैशम्पायन उवाच
प्रणयावनतां दृष्ट्वा यमुनां लाङ्गलायुधः ।
प्रत्युवाचार्णववधूं मदक्लान्त इद वचः ।। ४९ ।।
लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने ।
देशमम्बुप्रदानेन प्लावयस्वाखिलं शुभे ।। 2.46.५० ।।
एष ते सुभ्रु संदेशः कथितः सागरंगमे ।
शान्तिं व्रज महाभागे गम्यतां च यथासुखम् ।। ५१ ।।
यावत्स्थास्यति लोकोऽयं तावत्तिष्ठतु मे यशः।
यमुनाकर्षणं दृष्ट्वा सर्वे ते व्रजवासिनः ।। ५२ ।।
साधु साध्विति रामाय प्रणामं चक्रिरे तदा ।
तां विसृज्य महाभागा तांश्च सर्वान् व्रजौकसः।। ५३ ।।
ततः संचिन्त्य मनसा रामः प्रहरतां वरः ।
पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः ।। ५४ ।।
स गत्वा मथुरां रामो भवनं मधुसूदनम् ।
परिवर्तमानं ददृशे पृथिव्याः सारमव्ययम् ।। ५५ ।।
तथैवाध्वन्यवेषेण सोपश्लिष्टो जनार्दनम् ।
प्रत्यग्रवनमालेन वक्षसाभिविराजता ।। ५६ ।।
स दृष्ट्वा तूर्णमायान्तं रामं लाङ्गलधारिणम् ।
सहसोत्थाय गोविन्दो ददावासनमुत्तमम् ।। ५७ ।।
उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे ।
बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ।। ।५८ ।।
प्रत्युवाच ततो रामो भ्रातरं साधुभाषिणम् ।
सर्वत्र कुशलं कृष्ण येषां कुशलमिच्छसि ।। ५९ ।।
ततस्तयोर्विचित्रार्थाः पौराण्यश्चाभवन् कथाः ।
वसुदेवाग्रतः पुण्या रामकेशवयोस्तदा ।। 2.46.६० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि यमुनाकर्षणे षट्चत्वारिंशोऽध्यायः ।। ४६ ।।