हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०४७

← अध्यायः ०४६ हरिवंशपुराणम्
अध्यायः ०४७
वेदव्यासः
अध्यायः ०४८ →
श्रीकृष्णस्य यादवैः सह रुक्मिणीस्वयंवरावसरे कुण्डिनपुरे गमनम्, राज्ञा कैशिकेन तेषां सत्कारम्

सप्तचत्वारिंशोऽध्यायः

वैशम्पायन उवाच
एतस्मिन्नन्तरे प्राप्ता लोकप्रावृत्तिका नराः ।
चक्रायुधगृहं सर्वे लोकपालगृहोपमम् ।। १ ।।
तेष्वात्ययिकशंसीषु लोकप्रावृत्तिकेष्विह ।
कृतसंज्ञा यदुश्रेष्ठाः समेताः कृष्णसंसदि ।। २ ।।
समागतेषु सर्वेषु यदुमुख्येषु संसदि ।
प्रावृत्तिका नराः प्राहुः पार्थिवात्ययिकं वचः ।। ३ ।।
जनार्दन नरेन्द्राणां पार्थिवानां समागमः ।
भविष्यति क्षितीशानां समूढानामनेकशः ।। ४ ।।
त्वरितास्तत्र गच्छन्ति नानाजनपदेश्वराः ।
कुण्डिने पुण्डरीकाक्ष भोजपुत्रस्य शासनात्।। ५ ।।
प्रकाशं स्म कथास्तत्र श्रूयन्ते मनुजेरिताः ।
रुक्मिणी किल नामास्ति रुक्मिणः प्रथमा स्वसा।। ६ ।।
भावी स्वयंवरस्तत्र तस्याः किल जनार्दन ।
इत्यर्थमेते सबला गच्छन्ति मनुजाधिपाः ।। ७ ।।
तस्यास्त्रैलोक्यसुन्दर्यास्तृतीयेऽहनि यादव ।
रुक्मभूषणभूषिण्या भविष्यति स्वयंवरः ।। ८ ।।
राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस्तत्र शिबिराणि महात्मनाम् ।। ९ ।।
सिंहशार्दूलदृप्तानां मत्तद्विरदगामिनाम ।
सदा युद्धप्रियाणां हि परस्परममर्षिणाम् ।। 2.47.१० ।।
जयाय शीघ्रं सहिता बलौघेन समन्विताः ।
निरुद्धाः पृथिवीपालाः किमेकान्तचरा वयम् ।
निरुत्साहा भविष्यामो गच्छामो यदुनन्दन ।। ११ ।।
श्रुत्वैतत्केशवो वाक्यं हृदि शल्यमिवार्पितम् ।
निर्जगाम यदुश्रेष्ठो यदूनां सहितो बलैः ।। १२ ।।
यादवास्ते बलोदग्राः सर्वे संग्रामलालसाः ।
निर्ययुः स्यन्दनवरैर्गर्वितास्त्रिदशा इव ।। १३ ।।
बलाग्रेण नियुक्तेन हरिरीशानसम्मतः ।
चक्रोद्यतकरः कृष्णो गदापाणिर्व्यरोचत ।। १४ ।।
यादवाश्चापरे तत्र वासुदेवानुयायिनः ।
रथैरादित्यसंकाशैः किङ्किणीप्रतिनादितैः ।। १५ ।।
उग्रसेनं तु गोविन्दः प्राह निश्चितदर्शनः ।
तिष्ठ त्वं नृपशार्दूल भ्रात्रा मे सहितोऽनघ ।। १६ ।।
क्षत्त्रिया विकृतिप्रज्ञाः शास्त्रनिश्चितदर्शनाः ।
पुरीं शून्यामिमां वीर जघन्येऽभिपतन्ति ह ।। १७ ।।
अस्माकं शङ्किताः सर्वे जरासंधवशानुगाः ।
मोदन्ते सुखिनस्तत्र देवलोके यथामराः ।। १८ ।।
वैशम्पायन उवाच
तस्य तद् वचनं श्रुत्वा भोजराजो महायशाः ।
कृष्णस्नेहेन विकृतं बभाषे वचनामृतम् ।। १९ ।।
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ।
श्रूयतां यदहं त्वद्य वक्ष्यामि रिपुसूदन ।। 2.47.२० ।।
त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ।
पुरेऽस्मिन्विषयान्ते वा पतिहीना इव स्त्रियः ।। २१ ।।
त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ।
बिभीमो । नरेन्द्राणां सेन्द्राणामपि मानद ।। २२ ।।
विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ।
तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ ।। २३ ।।
तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।
यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम् ।। २४ ।।
वैशम्पायन उवाच
एवमुक्त्वा तु वै कृष्णो जगामाशु रथेन वै ।
भीष्मकस्य गृहं प्राप्तो लोहितायति भास्करे ।। २५ ।।
प्राप्ते राजसमाजे तु शिबिराकीर्णभूतले ।
रङ्गं सुविपुलं दृष्ट्वा राजसीं तनुमाविशत् ।। २६ ।।
वित्रासनार्थं भूपानां प्रकाशार्थं पुरातनम् ।
मनसा चिन्तयामास वैनतेयं महाबलम् ।। २७ ।।
ततश्चिन्तितमात्रस्तु विदित्वा विनतात्मजः ।
सुखलक्ष्यँ वपुः कृत्वा निलिल्ये केशवान्तिके ।। २८ ।।
तस्य पक्षनिपातेन पवनोद्भ्रान्तकारिणा ।
कम्पिता मनुजाः सर्वे न्युब्जाश्च पतिता भुवि ।। २९ ।।
गरुडाभिहताः सर्वे प्रचेष्टन्तो यथोरगाः ।
तान् संनिपतितान् दृष्ट्वा कृष्णो गिरिरिवाचलः ।।2.47.३० ।।
स तदा पक्षवातेन मेने पतगसत्तमम् ।
ददर्श गरुडं प्राप्तं दिव्यस्रगनुलेपनम् ।। ३१ ।।
पक्षवातेन पृथिवीं चालयन्तं मुहुर्मुहुः ।
पृष्ठासक्तैः प्रहरणैर्लेलिह्यन्तमिवोरगैः ।। ३२ ।।
वैष्णवं हस्तसंश्लेषं मन्यमानमवाङ्मुखम् ।
चरणाभ्यां प्रकर्षन्तं पाण्डुरं भोगिनां वरम् ।। ३३ ।।
हेमपत्रैरुपचितं धातुमन्तमिवाचलम् ।
अमृतारम्भहर्तारं द्विजिह्वेन्द्रविनाशनम् ।। ३४ ।।
त्रासनं दैत्यसंघानां वाहनं ध्वजलक्षणम् ।
तं दृष्ट्वा स ध्वजं प्राप्तं सचिवं साम्परायिकम् ।। ३५ ।।
धृतिमन्तं गरुत्मन्तं जगाद मधुसूदनः ।
दृष्ट्वा परमसंहृष्टः स्थितं देवमिवापरम् ।
तुल्यसामर्थ्यया वाचा गरुत्मन्तमवस्थितम् ।। ३६ ।।
श्रीकृष्ण उवाच
स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ।
विनताहृदयानन्द स्वागतं केशवप्रिय ।। ३७ ।।
व्रज पत्ररथश्रेष्ठ कैशिकस्य निवेशनम् ।
वयं तत्रैव गत्वाद्य प्रतीक्षाम स्वयंवरम् ।। ३८ ।।
राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस्तत्र समेतानां महात्मनाम् ।। ३९ ।।
एवमुक्त्वा महाबाहुर्वैनतेयं महाबलम् ।
जगामाथ पुरीं कृष्णः कैशिकस्य महात्मनः ।। 2.47.४० ।।
वैनतेयसखः श्रीमान् यादवैश्च महारथैः ।
विदर्भनगरीं प्राप्ते कृष्णे देवकिनन्दने ।। ४१ ।।
हृष्टाः प्रमुदिताः सर्वे निवासायोपचक्रमुः ।
सर्वे शस्त्रायुधधरा राजानो बलशालिनः ।। ४२ ।।
वैशम्पायन उवाच
एतस्मिन्नेव काले तु राजा नयविशारदः ।
कैशिकस्तत उत्थाय प्रहृष्टेनान्तरात्मना ।। ४३ ।।
अर्घ्यमाचमनं दत्त्वा स राजा कैशिकः स्वयम् ।
सत्कृत्य विधिवत् कृष्णं स्वपुरं सम्प्रवेशयत् ।। ४४ ।।
पूर्वमेव तु कृष्णाय कारितं दिव्यमन्दिरम् ।
विवेश सबलः श्रीमान् कैलासं शंकरो यथा ।। ४५ ।।
खाद्यपानादिरत्नौघैरर्चितो वासवानुजः ।
सुखेन उषितः कृष्णस्तस्य राज्ञो निवेशने ।
पूजितौ बहुमानेन स्नेहपूर्णेन चेतसा ।। ४६ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।