प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०४९ हरिवंशपुराणम्
अध्यायः ०५०
वेदव्यासः
अध्यायः ०५१ →
क्रथकैशिकाभ्यां भगवन्तं श्रीकृष्णं स्वराज्यस्य समर्पणम्, देवराजस्य इन्द्रस्यादेशात् सर्वैः नृपैः भगवन्तः राजेन्द्र पदे अभिषेकः, भगवता सर्वेषां आश्वासनम्

पञ्चाशत्तमोऽध्यायः

जनमेजय उवाच
हत्या कंसं महावीर्यं देवैरपि दुरासदम् ।
नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने ।। १ ।।
कन्यार्थे चागतः कृष्णस्तत्रापि न कृतोऽतिथिः ।
अमानमतुलं प्राप्य क्षान्तवान् केन हेतुना ।। २ ।।
विनतायाः सुतश्चैव महाबलपराक्रमः ।
स चापि क्षमया युक्तः कारणं किमपेक्षिनः ।
एतदाख्याहि भगवन् परं कौतूहलं हि मे ।। ३ ।।
वैशम्पायन उवाच
ग्दिर्भनगरीं प्र;प्ते वैनतेये सदुरने ।
मनसा चिन्तयामास वासुदेवाय कशिकः ।। ४ ।।
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् राजन्यान् प्रवदाम्यहम्।
वसुदेवसुते दृष्टे ध्रुवं पापक्षयो भवेत् ।। ५ ।।
विशुद्धभावः कृष्णस्य आवयोर्दृष्टक्तवतः ।
अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते ।। ६ ।।
कृष्णात् कमलपत्राक्षाद् दैवदैवाज्जनार्दनात् ।
तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप ।। ७ ।।
एवमन्योन्यं संचिन्त्य भ्रातरौ क्रथकैशिकौ ।। ८ ।।
स्वं राज्यं दातुकामोतु जग्मतुः केशवान्तिकम् ।
देवमासाद्य तौ वीरौ विदर्भनगराधिपौ ।। ९ ।।
ऊचतुस्तौ महाभागौ प्रणम्य शिरसा हरिम् ।
अद्यावां सफलं जन्म अद्यावां सफलं यशः ।
अद्यावां पितरस्तृप्ता देवे चावां गृहागते ।। 2.50.१० ।।
चामरं व्यजनं छत्रं ध्वजं सिंहासनं बलम् ।
स्फीतकोशा पुरी चेयमावाभ्यां सहिता तव ।। ११ ।।
उपेन्द्रस्त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् ।
आवामिह हि राज्ये त्वामभिषिक्तं ददामि ते ।। १२ ।।
आवयोर्यत्कृतं कार्यं बहुभिः पार्थिवैरपि ।
न शक्यतेऽन्यथा कर्तुं जरासंधेन वा स्वयम् ।। १३ ।।
शत्रुस्ते मागधो राजा जरासंधो महाद्युतिः ।
कथां ते ब्रुवते नित्यं नृपाणामभयप्रदः ।। १४ ।।
सिंहासनमनध्यास्यं पुरं चास्य न विद्यते ।
कथं राजसमाजेऽस्मिन्नास्यते देवकीसुतः ।। १५ ।।
कृष्णोऽपि सुमहावीर्यो ह्यभिमानी महाद्युतिः ।
न चागमिष्यते वास्मिन् कन्यार्थे च स्वयंवरे ।। १६ ।।
पार्थिवेषूपविष्टेषु स्वेषु सिंहासनेषु वै ।
कथमास्यति नीचेषु आसनेषु महाद्युतिः ।। १७ ।।
इति संचोद्यमानस्तु श्रुत्वासौ भीष्मको नृपः ।
आवयोः सह सम्मन्त्र्य विग्रहोपशमाय च ।। १८ ।।
तव विश्रामहेतोर्हि कारितेदं गृहोत्तमम् ।
देवानामादिदेवोऽसि सर्वलोकनमस्कृतः ।। १९ ।।
मानुष्ये मर्न्यलोकैऽस्मिन् राजेन्द्रत्वं समाचर ।
समाजे मनुजेन्द्राणां मा भूदासनसंकटम् ।। 2.50.२० ।
विदर्भनगरे वैषां राजेन्द्रत्वं विचेष्टय ।
आस्यतामासने शुभ्रे श्वः प्रभाते महाद्युते ।। २१ ।।
अधिवास्याद्य चात्मानं विधिदृष्टेन कर्मणा ।
य गमिष्यन्ति नृपाः करिष्ये देवशासनात् ।। २२ ।।
एवमुक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली ।
भूषयामासतुवीरौ रङ्गमध्ये नृपैर्वृते ।। २३ ।।
देवदूतस्य वचनं यथोक्तं वज्रपाणिना ।
लिखित्वा सुमहातेजाः कैशिकः प्राह शासनम् ।। २४ ।।
कैशिक उवाच
विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः ।
आगतोऽतिथिरूपेण विदर्भनगरीं हरिः ।। २५ ।।
प्राप्तमालोक्य पात्रोऽयमिति संचिन्त्य भूपतिः ।
प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना ।। २६ ।।
इदमासनमास्वेति भ्रात्रा मे चोदिते ततः ।
वागुक्ता चाशरीरेण केनापि व्योमचारिणा ।। २७ ।।
देवदूत उवाच
न युक्तमासनं दातुं त्वयासीनं नराधिप ।
इदमस्यासनं दिव्यं सर्वरत्नविभूषितम् ।। २८ ।।
जाम्बूनदमयं शुभ्रं रचितं विश्वकर्मणा ।
प्रेषितं देवराजेन सिंहलक्षणलक्षितम् ।। २९ ।।
अत्रोपविष्टं देवेशं चराचरनमस्कृतम् ।
अभिषिञ्चन्तु राजेन्द्रं बहुभिः पार्थिवैः सह ।। 2.50.३० ।।
आगताः कुण्डिनगरे कन्याहेतोर्नराधिपाः ।
नागमिष्यति यः कश्चित्सोऽस्य वध्यो भविष्यति।।३१।।
इमे चैवाष्टकलशा निधीनामंशसम्भवाः ।
अक्षया राजराजस्य धनेशस्य महात्मनः ।। ३२ ।।
दिव्या काञ्चनरत्नाढ्या दिव्याभरणयोनयः ।
राजेन्द्रस्याभिषेकार्थमागच्छन्ति नृपैर्वृताः ।। ३३ ।।
एष शक्रस्य संदेशः कथितो वो नराधिपाः ।
लेखेनाहूय तान् सर्वानभिषिञ्चन्तु केशवम् ।। ३४ ।।
कैशिक उवाच
इति संचोद्य खस्थोऽसौ देवदूतो गतो दिवम् ।
दत्त्वाऽऽसनं च कृष्णाय बालार्कसदृशप्रभम् ।। ३५ ।।
तेनाहं नोदयिष्यामि भवद्भिर्ये समागताः ।
दुर्निवार्यतरं घोरं शक्रस्य स्वयमीरितम् ।। ३६ ।।
युष्माभिर्दर्शने युक्तमद्भुतं भुवि दुर्लभम् ।
कलशैरभिषिच्यन्तं स्वयमेव नभस्तलात् ।। ३७ ।।
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् ध्रुवं पापक्षयो भवेत् ।
स्नापनार्थं च कृष्णाय देवदेवाय विष्णवे ।। ३८ ।।
आगच्छध्वं नृपश्रेष्ठा न भयं कर्तुमर्हथ ।
आवयोः कृतसन्धानो युष्मदर्थे जनार्दनः ।। ३९ ।।
सर्वेषां मनुजेन्द्राणामभयं कुरुते हरिः ।
विशुद्धभावः कृष्णस्तु आवयोर्दृष्टतत्त्वतः ।। 2.50.४० ।।
मागधस्य विशेषेण न वैरं हृदि दृश्यते ।
यदत्र कारणं कार्यं तद् भवद्भिर्विचिन्त्यताम् ।। ४१ ।।
वैशम्पायन उवाच
एवं संचिन्तयामासुर्नृपाः शापभयार्दिताः ।
भूयः शुश्रुवु राजेन्द्राः केशवाय महात्मने ।। ४२ ।।
मेघगम्भीरनादेन स्वरेणापूरयन् नभः ।
वागुवाचाशरीरेण देवराजस्य शासनात् ।। ४३ ।।
चित्राङ्गद उवाच
त्रैलोक्याधिपतिः शक्रः प्रजापालनहेतुना ।
आज्ञापयति युष्माकं नृपाणां हितकाम्यया ।। ४४ ।।
न युक्तं वसतान्योन्यं कृष्णेन सह वैरिणा ।
वसध्वं प्रीतिमुत्पाद्य स्वराष्ट्रेषु नृपोत्तमाः ।। ४५ ।।
प्रणतार्तिहरः कृष्णः प्रतिसेनान्तकोऽनलः ।
अनेन सह सम्प्रीत्या मोदध्वं विगतज्वराः ।। ४६ ।।
मानुषाणां नृपा देवा नृपाणां देवताः सुराः ।
सुराणां देवता शक्रः शक्रस्यापि जनार्दनः ।। ४७ ।।
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ।
जातोऽयं मानुषे लोके नररूपेण केशवः ।। ४८ ।।
अजेयः सर्वलोकेषु देवदानवमानवैः ।
कार्तिकेयसहायस्य अपि शूलभृतः स्वयम् ।। ४९ ।।
तस्मै देवाधिदेवाय केशवाय महात्मने ।
अभिषेक्तुं सुरैः सार्द्धं किमिच्छेयमतः परम् ।। 2.50.५० ।।
न चाधिकारो देवानां राजेन्द्रस्याभिषेचने ।
तेनाहं नाभिषिञ्चामि सर्वलोकनमस्कृतम् ।। ५१ ।।
नुपाणामधिकारोऽयं राजेन्द्रस्य निवेशने ।
गत्वा यूयं विदर्भायां क्रथकैशेकयोः सह ।। ५२ ।।
संचिन्त्य विधिदृष्टेन कुरुध्वं नृपसत्तमाः ।
प्रीतिसन्धानकालोऽयमिति संचिन्त्य वासवः ।। ५३ ।।
बोधनार्थं विसृष्टोऽहं युष्माकं मनुजेश्वराः ।
विदर्भनगरे कृष्णः श्रावितोऽस्याधिवासनम् ।। ५४ ।।
राजेन्द्रत्वाभिषेकार्थं राजानौ क्रथकैशिकौ ।
ताभ्यां सह नृपश्रेष्ठाः कृत्वा सुमहदुत्सवम् ।। ५५ ।।
अभिषेकेण सत्कृत्य प्रतिगृह्यास्य दक्षिणम्।
आगमिष्यथ संहृष्टाः पुनरेव स्वयंवरम् ।। ५६ ।।
जरासंधः सुनीथश्च रुक्मी चैव महारथः ।
शाल्वः सौभपतिश्चैव चत्वारो राजसत्तमाः ।। ५७ ।।
रङ्गस्याशून्यहेतोर्हि तिष्ठन्तु इह पार्थिवाः ।
वैशम्पायन उवाच
एवमाज्ञां सुरेशस्य श्रुत्वा चित्राङ्गदेरिताम् ।। ५८ ।।
गमनाय मतिं चक्रुः सर्व एव नृपोत्तमाः ।
अनुज्ञाता नरेन्द्रेण जरासंधेन धीमता ।। ५९ ।।
भीष्मकं पुरतः कृत्वा प्रयाताः स्वबलैर्वृताः ।
भीष्मकश्च महाबाहुः स्वबलेन समन्वितः ।। 2.50.६० ।।
जगाम पार्थिवैः सार्द्धं दह्यमानेन चेतसा ।
यत्र कृष्णो महाबाहुः कैशिकस्य निवेशने ।। ६१ ।।
दूरादेव प्रकाशन्ती पताकाध्वजमालिनी ।
शुभा देवसभा रम्या स्नानहेतोरिहागता ।। ६२ ।।
दिव्यरत्नप्रभाकीर्णा दिव्यध्वजसमाकुला ।
दिव्याम्बरपताकाढ्या दिव्याभरणभूषिता ।। ६३ ।।
दिव्यस्रग्दामकलिला दिव्यगन्धाधिवासिता ।
विमानयानैः श्रीमद्भिः समन्तात् परिवारिता ।। ६४ ।।
दिव्याप्सरोगणाश्चैव विद्याधरगणास्तथा ।
गन्धर्वा मुनयश्चैव किन्नराश्च समन्ततः ।। ६५ ।।
उपगायन्ति देवेशमम्बरान्तरमाश्रिताः ।
स्तुवन्ति मुनयश्चैव सिद्धाश्च परमर्षयः ।। ६६ ।।
देवदुन्दुभयश्चैव स्वयमेवानदन् दिवि ।
पञ्चयोनिसमुत्थानि गन्धचूर्णान्यनेकशः ।। ६७ ।।
समन्तात्पात्यमानानि चाकाशस्थैर्दिवौकसैः ।
स्वयमागत्य देवेन्द्रो दैवैः सह शचीपतिः ।। ६८ ।।
विमानवरमारुह्य सप्रकाशः स्थितोऽम्बरे ।
अष्टौ ये लोकपालास्ते स्वासु दिक्षु समास्थिताः ।। ६९ ।।
उपगायन्ति नृत्यन्ति स्तुवन्ति च समन्ततः ।
श्रुत्वा सुतुमुलं नादं सर्व एव नराधिपाः ।। 2.50.७० ।।
विस्मयोत्फुल्लनयना विविशुस्ते सभां शुभाम् ।
कैशिकश्च महाबाहुरुपगम्य नराधिपान् ।। ७१ ।।
प्रवेशयामास बली प्रतिपूज्य यथाविधि ।
निवेदिते सुरश्रेष्ठे पार्थिवानां समागमे ।। ७२ ।।
निर्जगाम हरिः श्रीमान् सर्वमङ्गपूजितः ।
ततोऽम्बरस्थास्ते दिव्याः कलशाश्चैलकण्ठिनः ।।७३।।
सहकारसमायुक्ता ववर्षुर्जलदा इव ।
दिव्यकाञ्चनरत्नौघैर्दिव्यपुप्पसमन्वितैः ।। ७४ ।।
गन्धचूर्णविमिश्रैश्च राजेन्द्रस्याभिषेचने ।
यथोक्तविधिपूर्वेण अभिषिच्य जनार्दनम् ।। ७५ ।।
दर्शयित्वा नरेन्द्राणां दिव्यैरावरणैः शुभै ।
दिव्याम्बरविचित्रैश्च दिव्यमाल्यानुलेपनैः ।। ७६ ।।
सत्कृत्य विधिवद्राज्ञ उपविष्टो जनार्दनः ।
शुभे देवसभे रम्ये स्नानहेतोरिहागते ।। ७७ ।।
उपास्यमानो यदुभिर्विदर्भैश्च नराधिपैः ।
वैनतेयश्च बलवान् कामरूपो नराकृतिः ।। ७८ ।।
दक्षिणं पार्श्वमाश्रित्य आसनस्थो महाबलः ।
क्रथश्च कैशिको वीरो वामपार्श्वे तथासने ।। ७९ ।।
उपविष्टौ महात्मानौ देवस्यानुमते नृपौ ।
तथैव वामपार्श्वे तु वृष्ण्यन्धकमहारथाः ।। 2.50.८० ।।
सात्यकिप्रमुखा वीरा उपविष्टा महाबलाः ।
भास्करप्रतिमे दिव्ये दिव्यास्तरणविस्तृते ।। ८१ ।।
सुखोपविष्टं श्रीमन्तं देवैरिव शचीपतिम् ।
सचिवैः श्राविताः सर्वे प्रविष्टास्ते नराधिपाः ।। ८२ ।।
यथार्हेण च सम्पूज्य राजानः सर्व एव ते ।
सुखोपविष्टास्ते स्वेषु आसनेषु नराधिपाः ।। ८३ ।।
कैशिकस्तु महाप्राज्ञः सर्वशास्त्रार्थवित्तमः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ।। ८४ ।।
कैशिक उवाच
अविज्ञाता नृपाः सर्वे मानुषोऽयमिति प्रभो ।
भवन्तमुपरुद्धानां देव त्वं क्षन्तुमर्हसि ।। ८५ ।।
श्रीकृष्ण उवाच
न मे वैरं प्रवसति एकाहमपि कैशिक ।
विशेषेण नरेन्द्राणां क्षत्रधर्मऽवतिष्ठताम् ।। ८६ ।।
योद्धव्यमिति धर्मेण अधर्मे तु पराङ्मुखे ।
तेषां किं हेतुना कोपः कर्तव्यस्त्ववनीश्वराः ।। ८७ ।।
यद्गतं तदतिक्रान्तं ये मृतास्ते दिवं गताः ।
एष धर्मो नृलोकेऽस्मिञ्जायन्ते च म्रियन्ति च ।। ८८ ।।
तस्मादशोच्यं भवतां मृतार्थे च नराधिपाः ।
क्षन्तव्यं रोचतेऽस्माकं वीतवैरा भवन्तु ते ।। ८९ ।।
वैशम्पायन उवाच
एवमुक्त्वा नरेन्द्रांस्तानाश्वास्य मधुसूदनः ।
कैशिकस्य मुखं वीक्ष्य विरराम महाद्युतिः ।। 2.50.९० ।।
एतस्मिन्नेव काले तु भीष्मको नयकोविदः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ।। ९१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे पञ्चाशत्तमोऽध्यायः ।। ५० ।।