← अध्यायः ०४८ हरिवंशपुराणम्
अध्यायः ०४९
वेदव्यासः
अध्यायः ०५० →
दन्तवक्त्रशाल्वयोः भाषणं श्रुत्वा भीष्मकेण श्रीकृष्णस्य प्रभावं वर्णयित्वा तं प्रसन्नकर्तुमेव निश्चयकरणम्

एकोनपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
इत्येवमुक्ते वचने सुनीथेन महात्मना ।
करूषाधिपतिर्वीरो दन्तवक्त्रोऽभ्यभाषत ।। १ ।।
दन्तवक्त्र उवाच
यदुक्तं मागधेनात्र सुनीथेन नराधिपाः ।
युक्तपूर्वमहं मन्ये यदस्माकं वचो हितम् ।। २ ।।
न च विद्वेषणेनाहं न चाहंकारवादिना ।
न चात्मविजिगीषुत्वाद् दूषयामि वचोऽमृतम्।। ३ ।।
वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् ।
क एष निखिलं वक्तुं शक्तो वै राजसंसदि ।। ४ ।।
किं त्वनुस्मरणार्थेऽहं यद् ब्रवीमि शृणुष्व मे ।
आगतो वासुदेवेति किमाश्चर्यं नराधिपाः ।। ५ ।।
यथाऽऽगता वयं सर्वे कृष्णोऽपीह तथाऽऽगतः ।
किमत्र दोषो गौण्यो वा कन्याहेतोः समागताः ।। ६ ।।
यदस्माभिः समेत्यैक्यात् कृतं गोमन्तरोधनम् ।
तत्र युद्धकृतं दोषं कथं वै वक्तुमर्हथ ।। ७ ।।
वनवासे स्थितौ वीरौ कंसव्यामोहद्वेतुना ।
देवर्षिवचनाद् राजन् वृन्दावनतटे स्थितौ ।। ८ ।।
तावाहूय वधार्थेन उभौ रामजनार्दनौ ।
नागेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः ।। ९ ।।
ततः स्ववीर्यमाश्रित्य निहतो रङ्गसागरे ।
गतासुरिव चासीनो मथुरेशः सहानुगः ।। 2.49.१० ।।
किमत्र विहितो दोषो येनास्माभिर्वयेऽधिकैः ।
उपरोधपरा राजन् वयं सर्वे समागताः ।। ११ ।।
सेनातिबलमालोक्य वित्रस्तौ रामकेशवौ ।
पुरं बलं समुत्सृज्य गोमन्ते च गतावुभौ ।। १२ ।।
तत्रापि गतमस्माभिर्हन्तुं समरयोधिभिः ।
अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे ।। १३ ।।
रथाश्वनरनागेन नास्माभिर्विग्रहः कृतः ।
कृत्वोपरोधं शैलस्य क्षत्रधर्मेण दीपितः ।। १४ ।।
दावाग्निमुखमाविश्य दुर्विनीततपस्विनौ ।
विनीत इति मन्यामः सर्वे क्षत्रियपुङ्गवाः ।
प्रतियुद्धे कृते त्वेवं दूषयाम जनार्दनम् ।। १५ ।।
यत्र यत्र प्रयास्यामो वयं तत्र भवेत् कलिः ।
प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः ।। १६ ।।
इदं कुण्डिनपुरं कृष्णो नागतः कलिहेतुना ।
कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति ।। १७ ।।
मर्त्येऽस्मिन् पुरुषेन्द्रोऽसौ न कश्चित् प्राकृतो नरः ।
देवलोकेषु देवेषु प्रवरः पुरुषोत्तमः ।। १८ ।।
देवानामपि कर्तासौ लोकानां च विशेषतः ।
न चैव बालिशा बुद्धिर्न चेर्ष्या नापि मत्सरः ।। १९ ।।
न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा ।
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ।। 2.49.२० ।।
आगतो गरुडेनेहच्छद्मप्राकाश्यहेतुना ।
नानास्त्रसहितो याति कृष्णः शत्रुविनाशने ।। २१ ।।
इमां यात्रां विजानीध्वं प्रीत्यर्थं ह्यागतो हरिः ।
सहितो यादवेन्द्रैश्च भोजवृष्ण्यन्धकैरिह ।। २२ ।।
अर्घ्यमाचमनं दत्त्वा आतिथ्यं च नराधिपाः ।
करिष्यामो वयं सर्वे केशवाय महात्मने ।। २३ ।।
एवं संधानतः कृत्वा कृष्णेन सहिता वयम् ।
वसामो विगतोद्वेगा निर्भया विगतज्वराः ।। २४ ।।
तस्य तद वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः ।
शाल्वः प्रवदतां श्रेष्ठस्तानुवाच नराधिपान् ।। २५ ।।
शाल्व उवाच
किं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे ।
संधानकरणाद्धेतोः कृष्णस्य भयकम्पिताः ।। २६ ।।
परस्तवेन किं कार्यं विनिन्द्य बलमात्मनः ।
नैष धर्मो नरेन्द्राणां क्षात्रे धर्मे च तिष्ठताम् ।। २७ ।।
महत्सु राजवंशेषु सम्भूताः कुलवर्द्धनाः ।
तेषां कापुरुषा बुद्धिः कथं भवितुमर्हति ।। २८ ।।
अहं जानामि वै कृष्णमादिदेवं सनातनम् ।
प्रभुं सर्वामरेन्द्राणां नारायणपरायणम् ।। २९ ।।
वैकुण्ठमजयं लोके चराचरगुरुं हरिम् ।
सम्भूतं देवकीगर्भे विष्णुं लोकनमस्कृतम् ।। 2.49.३० ।।
कंसराजवधार्थाय भारावतरणाय च ।
अस्माकं च विनाशाय लोकसंरक्षणाय च ।। ३१ ।।
अंशावतरणे कृत्स्नं जाने विष्णोर्विचेष्टितम् ।
संग्राममतुलं कृत्वा विष्णुना सह भूमिपाः ।। ३२ ।।
चक्रानलविनिर्दग्धा यास्यामो यमसादनम् ।
तत्त्वं जानामि राजेन्द्राः कालेनायुःक्षयो भवेत् ।। ३३ ।।
नाकाले म्रियते कश्चित् प्राप्ते काले न जीवति ।
एवं विनिश्चयं कृत्वा न कुर्यात्कस्यचिद्भयम्।।३४।।
स एव भगवान् विष्णुरालोक्य तपसः क्षयम् ।
निहन्ता दितिजेन्द्राणां यथाकालेन योगवित् ।। ३५ ।।
बलिं वैरोचनिं चैवं बद्ध्वावध्यं महाबलम् ।
कृतवान् देवदेवेशः पातालतलवासिनम् ।। ३६ ।।
एवमादीनि वै विष्णोश्चेष्टानि च नराधिपाः ।
तस्मादयुक्तं भवतां विग्रहार्थं विचारणम् ।। ३७ ।।
न च संग्रामहेतोर्हि कृष्णस्यागमनं त्विह ।
यस्य वा कस्य वा कन्या वरयिष्यति तस्य सा ।
किमत्र विग्रहो राज्ञां प्रीतिर्भवतु वै ध्रुवम् ।। ३८ ।।
वैशम्पायन उवाच
एवं कथयमानानां नृपाणां बुद्धिशालिनाम् ।
न किंचिदब्रवीद् राजा भीष्मकः पुत्रकारणात् ।। ३९।।
महावीर्यमदोत्सिक्तं भार्गवास्त्राभिरक्षितम् ।
रणप्रचण्डातिरथं विचिन्त्य मनसा सुतम् ।। 2.49.४०।।
भीष्मक उवाच
कृष्णं न सहते नित्यं पुत्रो मे बलदर्पितः ।.
नित्याभिमानी च रणे न बिभेति च कस्यचित् ।। ४१ ।।
कृष्णस्य भुजवीर्येण ह्रियते नात्र संशयः ।
भविष्यति ततो युद्धं महापुरुषविग्रहम् ।। ४२ ।।
द्वेषी चैवाभिमानी च कुतो जीवति मे सुतः ।
जीवितं नात्र पश्यामि मम पुत्रस्य केशवात् ।। ४३ ।।
कन्याहेतोः सुतं ज्येष्ठं पितॄणां नन्दिवर्द्धनम् ।
कारयिष्ये कथं युद्धं पुत्रेण सह केशवम् ।। ४४ ।।
न च नारायणं देवं वरमिच्छति रुक्मवान् ।
मूढभावो मदोन्मत्तः संग्रामेष्वनिवर्तकः ।
नियतं भस्मसाद् याति तूलराशिर्यथानलात् ।। ४५ ।।
करवीरेश्वरः शूरः शृगालश्चित्रयोधिना ।
क्षणेन भस्मसान्नीतः केशवेन बलीयसा ।। ४६ ।।
वृन्दावनेऽवसच्छ्रीमान् केशवो बलिनां वरः ।
उद्धृत्यैकेन हस्तेन सप्ताहं धृतवान् गिरिम् ।। ४७ ।।
दुष्करं कर्म संस्मृत्य मनः सीदति मे भृशम् ।। ४८ ।।
नगेन्द्रे सहसाऽऽगम्य दैवतैः सह वृत्रहा ।
अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः ।। ४९ ।।
यथा वै दमितो नागः कालियो यमुनाह्रदे ।
विषाग्निज्वलितो घोरः कालान्तकसमप्रभः ।। 2.49.५० ।।
केशी चापि महावीर्यो दानवो हयविग्रहः ।
निहतो वासुदेवेन देवैरपि दुरासदः ।। ५१ ।।
सान्दीपनिसुतश्चैव चिरनष्टो हि सागरे ।
दैत्यं पञ्चजनं हत्वा आनीतो यममन्दिरात् ।। ५२ ।।
गोमन्ते सुमहद् युद्धे बहुभिर्वेष्टितावुभौ ।
कृत्वा वित्रासजननं नागाश्वरथसंक्षयम् ।। ५३ ।।
गजेन गजवृन्दानि रथेन रथयोधिनः ।
सादिनश्चाश्वयोधेन नरेण च पदातिनः ।
जघ्नतुस्तौ महावीर्यौ वसुदेवसुतावुभौ ।। ५४ ।।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न नागा न च दैत्येन्द्रा न पिशाचा न गुह्यकाः ।। ५५ ।।
कृतवन्तस्तथा घोरं गजाश्वरथसंक्षयम् ।
तमनुस्मृत्य संग्रामं भृशं सदिति मे मनः ।। ५६ ।
न मया श्रुतपूर्वो वा दृष्टपूर्वः कुतोऽपि वा ।
तादृशो भुवि मर्त्योऽन्यो वासुदेवात्सुरोत्तमात्।।५७।
सम्यगाह महाबाहुर्दन्तवक्त्रो महीपतिः ।
सान्त्वयित्वा महावीर्यं संविधास्याम यत्क्षमम् ।। ५८ ।।
वैशम्पायन उवाच
इति संचिन्त्य मनसा बलाबलविनिश्चयम् ।
गमनाय मतिं चक्रे प्रसादयितुमच्युतम् ।। ५९ ।।
चिन्तयानो नरेन्द्रस्तु बहुभिर्नयशालिभिः ।
सूतमागधबन्दिभ्यो बोधितः स्तुतिमङ्गलैः ।। 2.49.६० ।।
प्रभातायां रजन्यां तु कृतपूर्वाह्णिकक्रियाः ।
उपविष्टा नृपाः सर्वे स्वेषु विश्रामवेश्मसु ।। ६१ ।।
ये विसृष्टास्तु राजानो विदर्भायां नराधिपैः ।
तैरागम्य स्वभूपेषु रहो गत्वा निवेदितम् ।। ६२ ।।
श्रुत्वा कृष्णाभिषेकं तु केचिद् धृष्टा नराधिपाः ।
केचिद् दीनतरा भीता उदासीनास्तथा परे ।। ६३ ।।
त्रिधा प्रभिन्ना सा सेना नरनागाश्वमालिनी ।
महार्णव इव क्षुब्धा अभिषेकेण चालिता ।। ६४ ।।
नृपाणां भेदमालोक्य भीष्मको राजसत्तमः ।
व्यतिक्रममचिन्त्यं च कृतं नृपतिना स्वयम् ।। ६५ ।।
विचिन्त्य मनसा राजा दह्यमानेन चेतसा ।
जगाम नरदेवानां समाजे प्रतिबोधितुम् ।। ६६ ।।
एतस्मिन्नन्तरे दूताः सम्प्राप्ताः क्रथकैशिकौ ।
लेखमुद्धृत्य शिरसा विविशुस्ते नृपार्णवम् ।। ६७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे एकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।