← अध्यायः ०५१ हरिवंशपुराणम्
अध्यायः ०५२
वेदव्यासः
अध्यायः ०५३ →
शाल्वस्य कथनानुसारेण जरासंधादिभिः नरेशेभिः शाल्वमेव कालयवनसमीपे दूतरूपेण प्रेषणम्

द्विपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
ततः प्रयाते वसुदेवपुत्रे नराधिपा भूषणभूषिताङ्गाः ।
सभां समाजग्मुः सुरेन्द्रकल्पाः प्रबोधनार्थं गमनोत्सवास्ते ।। १ ।।
सभागतान् सोमरविप्रकाशान् सुखोपविष्टान् रुचिरासनेषु ।
समीक्ष्य राजा सुनयार्थवादी जगाद वाक्यं नरराजसिंहः ।। २ ।।
स्वयंवरकृतं दोषं विदित्वा वो नराधिपाः ।
क्षन्तव्यो मम वृद्धस्य दुर्दग्धस्य फलोदयम् ।। ३ ।।
वैशम्पायन उवाच
एवमाभाष्य तान् सर्वान् सत्कृत्य च यथाविधि ।
ततो विसर्जयामास नृपांस्तान् मध्यदेशजान् ।। ४ ।।
पूर्वपश्चिमजांश्चैव उत्तरापथिकानपि ।
येऽपि सर्वे महेष्वासाः प्रहृष्टमनसो नराः ।। ५ ।।
यथार्हेण च सम्पूज्य जग्मुस्ते नरपुङ्गवाः ।
जरासंधः सुनीथश्च दन्तवक्त्रश्च वीर्यवान् ।। ६ ।।
शाल्वः सौभपतिश्चैव महाकूर्मश्च पार्थिवः ।
क्रथकैशिकमुख्याश्च नृपाः प्रवरवंशजाः ।। ७ ।।
वेणुदारिश्च राजर्षिः काश्मीराधिपतिस्तथा ।
एते चान्ये च बहवो दक्षिणापथिका नृपाः ।। ८ ।।
श्रोतुकामा रहो वाक्यं स्थिता वै भीष्मकान्तिके ।
तान् वै समीक्ष्य राजेन्द्रः स राजा भीष्मको बली ।।९।।
स्नेहपूर्णेन मनसा स्थितांस्तानवनीश्वरान् ।
त्रिवर्गसहितं श्लक्ष्णं षड्गुणालंकृतं शुभम् ।। 2.52.१० ।।
उवाच नयसम्पन्नं स्निग्धगम्भीरया गिरा ।
भीष्मक उवाच
भवतामवनीशानां समालोक्य नयान्वितम ।। ११ ।।
वचनं व्याहृतं श्रुत्वा कृतवान् कार्यमीदृशम् ।
सद्भिर्भवद्भिः क्षन्तव्यं वयं नित्यापराधिनः ।। १२ ।।
वैशम्पायन उवाच
एवमुक्त्वा तु राजा स भीष्मको नयकोविदः ।
उवाच सुतमुद्दिश्य वचनं राजसंसदि ।। १३ ।।
भीष्मक उवाच
पुत्रस्य चेष्टामालोक्य त्रासाकुलितलोचनः ।
मन्ये बालानिमाँल्लोकान् स एष पुरुषः परः ।। १४ ।।
कीर्तिः कीर्तिमतां श्रेष्ठो यशश्च विपुलं तथा ।
स्थापितं भुवि मर्त्येऽस्मिन् स्वबाहुबलमूर्जितम् ।। १५।।
धन्या खलु महाभागा देवकी योषितां वरा ।
पुत्रं त्रिभुवनश्रेष्ठं कृत्वा गर्भेण केशवम् ।। १६ ।।
कृष्णं कमलपत्राक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ।। १७ ।।
वैशम्पायन उवाच
एवं लालप्यमानं तु राजानं राजसंसदि ।
उवाच श्लक्ष्णया वाचा शाल्वराजो महाद्युतिः ।। १८ ।।
शाल्व उवाच
अलं खेदेन राजेन्द्र सुताय रिपुमर्दिने ।
क्षत्रियस्य रणे राजन् ध्रुवं जयपराजयौ ।। १९ ।।
नियता गति मर्त्यानामेष धर्मः सनातनः ।
बलकेशवयोरन्यस्तृतीयः कः पुमानिह ।। 2.52.२० ।।
रणे योधयितुं शक्तस्तव पुत्रं महाबलम् ।
रथातिरथवृन्दानामेक एव रणाजिरे ।। २१ ।।
रिपून् बाधयितुं शक्तो धनुर्गृह्य महाभुजः ।
भार्गवास्त्रं महारौद्रं देवैरपि दुरासदम् ।। २२ ।।
सृजतो बाहुवीर्येण कः पुमान् प्रसहिष्यति ।
अयं तु पुरुषः कृष्णो ह्यनादिनिधनोऽव्ययः ।। २३।।
तं विजेता नृलोकेऽस्मिन् नापि शूलधरः स्वयम् ।
तव पुत्रो महाराज सर्वशास्त्रार्थतत्त्ववित् ।। २४ ।।
विदित्वा देवमीशानं न योधयति केशवम् ।
अद्य तस्य रणे जेता यवनाधिपतिर्नृप ।। २५।।
स कालयवनो नाम अवध्यः केशवस्य ह ।
तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम् ।। २६ ।।
रुद्रमाराधयामास द्वादशाब्दानयोऽशनः ।
पुत्रकामेन मुनिना तोष्य रुद्रात्सुतो वृतः ।। २७ ।।
माथुराणामवध्योऽयं भवेदिति च शङ्करात् ।
एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम् ।। २८ ।।
एवं गार्ग्यस्य तनयः श्रीमान् रुद्रवरोद्भवः ।
माथुराणामवध्योऽयं मथुरायां विशेषतः ।। २९ ।।
कृष्णोऽपि बलवानेष माथुरो जातवानयम् ।
स जेष्यति रणे कृष्णं मथुरायां समागतः ।। 2.52.३० ।।
मन्यध्वं यदि वा युक्तां नृपा वाचं मयेरिताम् ।
तत्र दूतं विसृजध्वं यवनेन्द्रपुरं प्रति ।। ३१ ।।
वैशम्पायन उवाच
श्रुत्वा सौभपतेर्वाक्यं सर्वे ते नृपसत्तमाः ।
कुर्म इत्यब्रुवन् हृष्टा जरासंधं महाबलम् ।। ३२ ।।
स तेषां वचनं क्षुत्वा जरासंधो महीपतिः ।
बभूव विमना राजन् ब्रह्मणो वचनं स्मरन् ।। ३३ ।।
जरासंध उवाच
मां समाश्रित्य पूर्वस्मिन् नृपा नृपभयार्दिताः ।
प्राप्नुवन्ति हृतं राज्यं सभृत्यबलवाहनम् ।। ३४ ।।
इह संचोद्यते भूपैः परसंश्रयहेतुना ।
कन्येव स्वपतिद्वेषादन्यं रतिपरायणा ।। ३५ ।।
अहो सुबलवद् दैवमशक्यं विनिवर्तितुम् ।
यदहं कृष्णभीतोऽन्यं संश्रयामि बलाधिकम् ।। ३६ ।।
नूनं योगविहीनोऽहं कारयिष्ये पराश्रयम् ।
श्रेयो हि मरणं मह्यं न चान्यं संश्रये नृपाः ।। ३७ ।।
कृष्णो वा बलदेवो वा योवासौ वा नराधिपः ।
हन्तारं प्रतियोत्स्यामि यथा ब्राह्मप्रचोदितः ।। ३८ ।।
एषा मे निश्चिता बुद्धिरेतत्सत् पुरुषव्रतम् ।
अतोऽन्यथा न शक्तोऽहं कर्तुं परसमाश्रयम् ।। ३९ ।।
भवतां साधुवृत्तानामाबाधं न करोति सः ।
तेन दूतं प्रदास्यामि नृपाणां रक्षणाय वै ।। 2.52.४० ।।
व्योममार्गेण यातव्यं यथा कृष्णो न बाधते ।
गच्छन्तमनुचिन्त्यैवं प्रेषयध्वं नृपोत्तमाः ।। ४१ ।।
अयं सौभपतिः श्रीमाननलार्केन्दुविक्रमः ।
रथेनादित्यवर्णेन प्रयाति स्वपुरं बली ।। ४२ ।।
यवनेन्द्रो यथाभ्येति नरेन्द्राणां समागमम् ।
वचनं च तथास्माभिर्दूत्ये नः कृष्णविग्रहे ।। ४३ ।।
वैशम्पायन उवाच
पुनरेवाब्रवीद् राजा सौभस्य पतिमूर्जितम ।
गच्छ सर्वनरेन्द्राणां साहाय्यं कुरु मानद ।। ४४ ।।
यवनेन्द्रो यथा याति यथा कृष्णं विजेष्यति ।
यथा वयं च तुष्यामस्तथा नीतिर्विधीयताम् ।। ४५ ।।
एवं संदिश्य सर्वांस्तान् भीष्मकं पूज्य धर्मतः ।
प्रययौ स्वपुरं राजा स्वेन सैन्येन संवृतः ।। ४६ ।।
शाल्वोऽपि नृपतिश्रेष्ठस्तांश्च सम्पूज्य धर्मतः ।
जगामाकाशमार्गेण रथेनानिलरंहसा ।। ४७ ।।
तेऽपि सर्वे महीपाला दक्षिणापथवासिनः ।
अनुव्रज्य जरासंधं गताः स्वनगरं प्रति ।। ४८ ।।
भीष्मकः सह पुत्रेण तावुभौ चिन्त्य दुर्नयम ।
स्वे गृहे न्यवसद् दीनः कृष्णमेवानुचिन्तयन्।। ४९ ।।
विदिता रुक्मिणी साध्वी स्वयंवरनिवर्तनम् ।
कृप्णस्यागमनाद्धेतोर्नृपाणां दोषदर्शनम् ।।2.52.५० ।।
गत्वा तु सा सखीमध्ये उवाच व्रीडितानना ।
न चान्येषां नरेन्द्राणां पत्नी भवितुमुत्सहे ।
कृष्णात् कमलपत्राक्षात्सत्यमेतद् वचो मम ।। ५१ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।