हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०५३

← अध्यायः ०५२ हरिवंशपुराणम्
अध्यायः ०५३
वेदव्यासः
अध्यायः ०५४ →
कालयवनस्य विशेषता, दूतं भूत्वा राज्ञः शाल्वस्य तं प्रति गमनम् एवं जरासंधस्य संदेशकथनम्

त्रिपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
यवनानां बलोदग्रः स कालयवनो नृपः ।
बभूव राजा धर्मेण रक्षिता पुरवासिनाम् ।। १ ।।
त्रिवर्गविदितः प्राज्ञः षड्गुणानुपजीवकः ।
सप्तव्यसनसम्मूढो गुणेष्वभिरतः सदा ।। २ ।।
श्रुतिमान् धर्मशीलश्च सत्यवादी जितेन्द्रियः ।
सांग्रामिकविधिज्ञश्च दुर्गलाभानुसारणः ।। ३ ।।
शूरोऽप्रतिबलश्चैव मन्त्रिप्रवरसेवकः ।
सुखासीनः सभां रम्यां सचिवैः परिवारितः ।। ४ ।।
उपास्यमानो यवनैरात्मविद्भिर्विपश्चितैः ।
विविधाश्च कथा दिव्याः कथ्यमानाः परस्परम् ।। ५ ।।
एतस्मिन्नेव काले तु दिव्यगन्धवहोऽनिलः ।
प्रववौ मदनाबोधं चकार सुखशीतलः ।। ६ ।।
किंस्विदित्येकमनसः सभायां ये समागताः ।
उत्फुल्लनयनाः सर्वे राजा चैवावलोक्य सः ।। ७ ।।
अपश्यन्त रथं दिव्यमायान्तं भास्करोपमम् ।
शातकुम्भमयैः शुभ्रं रथाङ्गैरुपशोभितम् ।। ८ ।।
दिव्यरत्नप्रभाकीर्णं दिव्यध्वजपताकिनम् ।
वाहितं दिव्यतुरगैर्मनोमारुतरंहसैः ।। ९ ।।
चन्द्रभास्करबिम्बानि कृत्वा जाम्बूनदेन तम् ।
रचितं वै विश्वकृता वैयाघ्रवरभूषितम् ।। 2.53.१० ।।
रिपूणां त्रासजननं मित्राणां हर्षवर्द्धनम् ।
दक्षिणादिगुपायन्तं रथं पररथारुजम् ।। ११ ।।
तत्रोपविष्टं श्रीमन्तं सौभस्य पतिमूर्जितम् ।
दृष्ट्वा परमसंहृष्टश्चार्घ्यं पाद्येति चासकृत् ।। १२ ।।
उवाच यवनेन्द्रस्य मन्त्री मन्त्रविदां वरः ।
तत्रोत्थाय महाबाहुः स्वयमेव नृपासनात् ।। १३ ।।
प्रत्युद्गम्यार्घ्यमादाय रथावतरणे स्थितः ।
शाल्वोऽपि च महातेजा दृष्ट्वा राजानमागतम् ।। १४ ।।
मुदा परमया युक्तं शक्रप्रतिमतेजसम् ।
अवतीर्य सुविश्रब्ध एक एव रथोत्तमात् ।। १५ ।।
विवेश परमं प्रीतो मित्रदर्शनलालसः ।
दृष्ट्वार्घमुद्यतं राजा शाल्वो राजर्षिसत्तमः ।। १६ ।।
उवाच श्लक्ष्णया वाचा नार्घार्होऽस्मि महाद्युते ।
दूतोऽहं मनुजेन्द्राणां सकाशाद् भवतोऽन्तिकम् ।। १७ ।।
प्रेषितो बहुभिः सार्द्ध जरासंधेन धीमता ।
तेन मन्ये महाराज नार्घार्होऽस्मीति राजसु ।। १८ ।।
कालयवन उवाच
जानाम्यहं महाबाहो दौत्येन त्वामिहागतम् ।
साहित्ये नरदेवानां प्रेषितो मागधेन वै ।। १९ ।।
तेन त्वामर्चये राजन् विशेषेण महामते ।
अर्घ्यपाद्यादिसत्कारैरासनेन यथाविधि ।। 2.53.२० ।।
भवत्यभ्यर्चिते राज्ञां सर्वेषामर्चितं भवेत् ।
आस्यतामासने शुभ्रे मया सार्द्धं जनेश्वर ।। २१ ।।
वैशम्पायन उवाच
स हस्तालिङ्गनं कृत्वा पृष्ट्वा च कुशलामयम् ।
सुखोपविष्टौ सहितौ शुभे सिंहासने स्थितौ ।। २२ ।।
कालयवन उवाच
यद्बाहुबलमाश्रित्य वयं सर्वे नराधिपाः ।
वसामो विगतोद्विग्ना देवा इव शचीपतिम् ।। २३ ।।
किमसाध्यं भवेदस्य येनासि प्रेषितो मयि ।
वद सत्यं वचस्तस्य किमाज्ञापयति प्रभुः ।
करिष्ये वचनं तस्य अपि कर्म सुदुष्करम् ।। २४ ।।
शाल्व उवाच
यथा वदति राजेन्द्र मगधाधिपतिस्तव ।
तथाहं सम्प्रवक्ष्यामि श्रूयतां यवनाधिप ।। २५ ।।
जरासंध उवाच
जातोऽयं जगतां बाधी कृष्णः परमदुर्जयः ।
विदित्वा तस्य दुर्वृत्तमहं हन्तुं समुद्यतः ।। २६ ।।
पार्थिवैर्बहुभिः सार्द्धं समग्रबलवाहनैः ।
उपरुध्य महासैन्यैर्गोमन्तमचलोत्तमम् ।। २७ ।।
चेदिराजस्य वचनं महार्थं श्रुतवानहम् ।
तदा तयोर्विनाशाय हुताशनमयोजयम् ।। २८ ।।
ज्वालाशतसहस्राढ्यं युगान्ताग्निसमप्रभम् ।
दृष्ट्वा रामो गिरेः कूटादाप्लुतो हेमतालधृक् ।। २९ ।।
विनिष्पत्य महासेनां मध्ये सागरसंनिभाम् ।
आजघान दुराधर्षो नराश्वरथदन्तिनाम् ।। 2.53.३० ।।
सर्पन्तमिव सर्पेन्द्रं विकृष्याकृष्य लाङ्गलम् ।
नरनागाश्ववृन्दानि मुसलेन व्यपोथयत् ।। ३१ ।।
गजेन गजमास्फाल्य रथेन रथयोधिनम् ।
हयेन च हयारोहं पदातेन पदातिनम् ।। ३२ ।।
समरे स महातेजा नृपार्कशतसंकुले ।
विचरन्विविधान् मार्गान्निदाघे भास्करो यथा।।३३।।
रामादनन्तरं कृष्णः प्रगृह्यार्कसमप्रभम् ।
चक्रं चक्रभृतां श्रेष्ठः सिंहः क्षुद्रमृगं यथा ।। ३४ ।।
प्रविचाल्य महावीर्यः पादवेगेन तं गिरिम् ।
शत्रुसैन्ये पपातोच्चैर्यदुवीरः प्रतापवान् ।। ३५ ।।
प्रनृत्यन्निव शैलेन्द्रस्तोयधाराभिषेचितः ।
घूर्णमानो विवेशोर्वीं विनिर्वाप्य हुताशनम् ।। ३६ ।।
आदीप्यमानशिखरादवप्लुत्य जनार्दनः ।
जघान वाहिनीं राजंश्चक्रव्यग्रेण पाणिना ।। ३७ ।।
विक्षिप्य विपुलं चक्रं गदापातादनन्तरम् ।
नरनागाश्ववृन्दानि मुसलेन व्यचूर्णयत् ।। ३८ ।।
क्रोधानिलसमुद्धूतचक्रलाङ्गलवह्निना ।
निर्दग्धा महती सेना नरेन्द्रार्काभिपालिता ।। ३९ ।।
नरनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
रथानीकं पदाताभ्यां क्षणेन विदलीकृतम् ।। 2.53.४० ।।
सेनां प्रभग्नामालोक्य चक्रानलभयार्दिताम् ।
महता रथवृन्देन परिवार्य समन्ततः ।। ४१ ।।
तत्राहं युद्ध्यमानस्तु भ्रातास्य बलवान् बली ।
स्थितो ममाग्रतः शूरो गदापाणिर्हलायुधः ।। ४२ ।।
द्वादशाक्षौहिणीर्हत्वा प्रभिन्न इव केसरी ।
हलं सौनन्दमुत्सृज्य गदया मामताडयत् ।। ४३ ।।
वज्रपातनिभं वेगं पातयित्वा ममोपरि ।
भूयः प्रहर्तुकामो मां वैशाखेनास्थितो महीम् ।। ४४ ।।
वैशाखं स्थानमास्थाय गुहः क्रौञ्चं यथा पुरा ।
तथा मां दीर्घनेत्राभ्यामीक्षते निर्दहन्निव ।। ४५ ।।
तादृग्रूपं समालोक्य बलदेवं रणाजिरे ।
जीवितार्थी नृलोकेऽस्मिन् कः पुमान् स्थातुमर्हति ।।४६।।
गृहीत्वा स गदां भीमां कालदण्डमिवोद्यताम् ।
कालाङ्कुशेन निर्धूतां स्थित एवाग्रतो मम ।। ४७ ।।
ततो जलदगम्भीरस्वरेणापूरयन् नभः ।
वागुवाचाशरीरेण स्वयं लोकपितामहः ।। ४८ ।।
प्रहर्तव्यो न राज्ञायमवध्योऽयं तवानघ ।
कल्पितोऽस्य वधोऽन्यस्माद् विरमस्व हलायुध।। ४९ ।।
श्रुत्वाहं तेन वाक्येन चिन्ताविष्टो निवर्तितः ।
सर्वप्राणहरं घोरं ब्रह्मणा स्वयमीरितम् ।। 2.53.५० ।।
तेनाहं वः प्रवक्ष्यामि नृपाणां हितकाम्यया ।
श्रुत्वा त्वमेव राजेन्द्र कर्तुमर्हसि तद् वचः ।। ५१ ।।
तपसोग्रेण महता पुत्रार्थी तोष्य शङ्करम् ।
प्राप्तवान् देवदेव त्वामवध्यं माथुरैर्जनैः ।। ५२ ।।
महामुनिश्चायसचूर्णमश्नन्नुपस्थितो द्वादशवार्षिकं व्रतम् ।
सुरासुरैः संस्तुतपादपङ्कजः स लब्धवानीप्सितकामसम्पदम् ।। ५३ ।।
तपोबलाद् गार्ग्यमुनेर्महात्मनो वरप्रभावाच्छकलैन्दुमौलिनः ।
भवन्तमासाद्य जनार्दनो हिमं विलीयते भास्कररश्मिना यथा ।। ५४ ।।
यतस्व राज्ञां वचनप्रचोदितो व्रजस्व यात्रां विजयाय केशवम् ।
प्रविश्य राष्ट्रं मथुरां च सेनया निहत्य कृष्णं प्रथयन् स्वकं यशः ।। ५५ ।।
माथुरो वासुदेवोऽयं बलदेवः सबान्धवः ।
तौ विजेष्यसि संग्रामे गत्वा तां मथुरां पुरीम् ।। ५६ ।।
शाल्व उवाच
इत्येवं नरपतिभास्करप्रगीतं वाक्यं ते कथितमिदं हितं नृपाणाम् ।
तत्सर्वं सह सचिवैर्विमृश्य बुद्ध्या यद्युक्तं कुरु मनुजेन्द्र चात्मनिष्ठम् ।। ५७ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शाल्ववाक्ये त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।