प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०५४ हरिवंशपुराणम्
अध्यायः ०५५
वेदव्यासः
अध्यायः ०५६ →
गरुडस्य श्रीकृष्णस्य निवासयोग्यां भूमिं द्रष्टुं गमनम्, मथुरायां राजेन्द्रस्य श्रीकृष्णस्य स्वागतम्, श्रीकृष्णेन राज्ञः उग्रसेनस्य एवं मथुरावासिनां सत्कारं एवं गरुडस्य प्रत्यागत्य कुशस्थलीविषये कथनम्

पञ्चपञ्चाशत्तमोऽध्यायः

जनमेजय उवाच
विदर्भनगराद् याते शक्रतुल्यपराक्रमे ।
किमर्थं गरुडो नीतः किं च कर्म चकार सः ।। १ ।।
न चारुरोह भगवान् वैनतेयं महाबलम् ।
एतन्मे संशयं ब्रह्मन् ब्रूहि तत्त्वं महामुने ।। २ ।।
वैशम्पायन उवाच
शृणु राजन् सुपर्णेन कृतं कर्मातिमानुषम् ।
विदर्भनगरीं गत्वा वैनतेयो महाद्युतिः ।। ३ ।।
असम्प्राप्ते च नगरीं मथुरां मधुसूदने ।
मनसा चिन्तयामास वैनतेयो महाद्युतिः ।। ४ ।
यदुक्तं देवदेवेन नृपाणामग्रतः प्रभो ।
यास्यामि मथुरां रम्यां भोजराजेन पालिताम् ।। ५ ।।
इति तद्वचनस्यान्ते गमिष्येति विचिन्तयन् ।
कृताञ्जलिपुटः श्रीमान् प्रणिपत्याब्रवीदिदम् ।। ६ ।।
गरुड उवाच
देव यास्यामि नगरीं रैवतस्य कुशस्थलीम् ।
रैवतं च गिरिं रम्यं नन्दनप्रतिमं वनम् ।। ७ ।।
रुक्मिणोद्वासितां रम्यां शैलोदधितटाश्रयाम् ।
वृक्षगुल्मलताकीर्णां पुष्परेणुविभूषिताम् ।। ८ ।।
गजेन्द्रभुजगाकीर्णामृक्षवानरसेविताम् ।
वराहमानुषाक्रान्तां मृगयूथैरनेकशः ।। ९ ।।
तां समन्तात् समालोक्य वासार्थं ते क्षमां क्षमा ।
यदि स्याद् भवतो रम्या प्रशस्ता नगरीति च ।। 2.55.१० ।।
कण्टकोद्धरणं कृत्वा आगमिष्ये तवान्तिकम् ।
वैशम्पायन उवाच
एवं विज्ञाप्य देवेशं प्रणिपत्य जनार्दनम् ।। ११ ।।
जगाम पतगेन्द्रोऽपि पश्चिमाभिमुखो बली ।
कृष्णोऽपि यदुभिः सार्द्धं विवेश मथुरां पुरीम् ।। १२ ।
स्वैरिण्य उग्रसेनश्च नागराश्चैव सर्वशः ।
प्रत्युद्गम्यार्चयन् कृष्णं प्रहृष्टजनसंकुलम् ।। १३ ।।
जनमेजय उवाच
श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिर्वसुधाधिपैः ।
किं चकार महाबाहुरुग्रसेनो महीपतिः ।। १४ ।।
वैशम्पायन उवाच
श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिः पार्थिवोत्तमैः ।
इन्द्रेण कृतसंधानं दूतं चित्राङ्गदं कृतम् ।। १५ ।।
एकैकं नृपतेर्भागं शतसाहस्रसम्मितम् ।
राजेन्द्रे त्वर्बुदं दत्तं मानवेषु च वै दश ।। १६ ।।
ये तत्र समनुप्राप्ता न रिक्तास्ते गृहं गताः ।
शङ्खो यादवरूपेण प्रददौ हरिचिन्तितम् ।। १७ ।।
एवं निधिपतिः श्रीमान् दैवतैरनुमोदितः ।
इति श्रुत्वात्मिकजनाल्लोकप्रवृत्तिकान्नरात् ।। १८ ।।
चकार महतीं पूजां देवतायतनेष्वपि ।
वसुदेवस्य भवने तोरणोभयपार्श्वतः ।। १९ ।।
नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताकाध्वजमालाढ्यां कारयामास वै नृपः ।। 2.55.२० ।।
कंसराजस्य च सभां विचित्राम्बरसुप्रभाम् ।
पताका विविधाकारा दापयामास भोजराट् ।। २१ ।।
तोरणं गोपुरं चैव सुधापङ्कानुलेपनम् ।
कारयामास राजेन्द्रो राजेन्द्रस्यासनालयम् ।। २२ ।।
नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताका वनमालाढ्याः पूर्णकुम्भाः समन्ततः ।। २३ ।।
राजमार्गेषु राजेन्द्र चन्दनोदकसेचितम् ।
वस्त्राभरणकं राजा दापयामास भूतले ।। २४ ।।
धूपं पार्श्वोभये चैव चन्दनागुरुगुग्गुलैः ।
गुडं सर्जरसं चैव दह्यमानं ततस्ततः ।। २५ ।।
वृद्धस्त्रीजनसंघैश्च गायद्भिः स्तुतिमङ्गलम् ।
अर्घं कृत्वा प्रतीक्षन्ते स्वेषु स्थानेषु योषितः ।। २६ ।।
एवं कृत्वा पुरानन्दमुग्रसेनो नराधिपः ।
वसुदेवगृहं गत्वा प्रियाख्यानं निवेद्य च ।। २७ ।।
रामेण सह सम्मन्त्र्य निर्गतो रथमन्तिकम् ।
तस्मिन्नेवान्तरे राजञ्शङ्खध्वनिरभून्महान् ।। २८ ।।
पाञ्चजन्यस्य निनदं श्रुत्वा मधुरवासिनः ।
स्त्रियो वृद्धाश्च बालाश्च सूता मागधबन्दिनः ।। २९ ।।
विनिर्ययुर्महासेना रामं कृत्वाग्रतो नृप ।
अर्घ्य पाद्यं पुरस्कृत्य उग्रसेनेन धीमता ।। 2.55.३० ।।
दृष्टिपन्थानमासाद्य उग्रसेनो महीपतिः ।
अवतीर्य रथाच्छुभ्रात् पादमार्गेण चाग्रतः ।। ३१ ।।
दृष्ट्वाऽऽसीनं रथे रम्ये दिव्यरत्नविभूषितम् ।
अङ्गेष्वाभरणं चैव दिव्यरत्नप्रभायुतम् ।। ३२ ।।
वनमालोरसं दिव्यं तपन्तमिव भास्करम् ।
चामरं व्यजनं छत्रं खगेन्द्रध्वजमुच्छ्रितम् ।। ३३ ।।
राजलक्षणसम्पूर्णमासन्नार्कमिवोज्ज्वलम् ।
श्रियाभिभूतं देवेशं दुर्निरीक्ष्यतरं हरिम् ।। ३४ ।।
दृष्ट्वा स राजा राजेन्द्र हर्षगद्गदया गिरा ।
बभाषे पुण्डरीकाक्षं रामं बलनिषूदनम् ।। ३५ ।।
रथेन न मया गन्तुं युक्तपूर्वेति चिन्त्य वै ।
अवतीर्णो महाभाग गच्छ त्वं स्यन्दनेन च ।। ३६ ।।
विष्णुना छद्मरूपेण गत्वेमां मथुरां पुरीम् ।
अनुप्रकाशितात्मानं देवेन्द्रत्वं नृपार्णवे ।। ३७ ।।
तमहं स्तोतुमिच्छामि सर्वभावेन केशवम् ।
प्रत्युवाच महातेजा राजानं कृष्णपूर्वजः ।। ३८ ।।
न युक्तं नृपते स्तोतुं व्रजन्तं देवसत्तमम् ।
विना स्तोत्रेण संतुष्टस्तव राजञ्जनार्दनः ।। ३९ ।।
तुष्टस्य स्तुतिना किं ते दर्शनेन तव स्तुतिः ।
राजेन्द्रत्वमनुप्राप्य आगतस्तव वेश्मनि ।। 2.55.४० ।।
न त्वया स्तुतवान्राजन्दिव्यैः स्तोत्रैरमानुषैः ।
एवमाब्रुवमाणौ तौ सम्प्राप्तौ केशवान्तिकम् ।। ४१ ।।
अर्घोद्यतभुजं दृष्ट्वा स्थापयित्वा रथोत्तमम् ।
उवाच वदतां श्रेष्ठ उग्रसेनं नराधिपम् ।। ४२ ।।
यन्मया चाभिषिक्तस्त्वं मथुरेशो भवत्विति ।
न युक्तमन्यथा कर्तुं मथुराधिपते स्वयम् ।। ४३ ।।
अर्घ्यमाचमनीयं च पाद्यं चास्मै निवेदितम् ।
न दातुमर्हसे राजन्नेष मे मनसः प्रियः ।। ४४ ।।
तवाभिप्रायं विज्ञाय ब्रवीमि नृपते वचः ।
त्वमेव माथुरो राजा नान्यथा कर्तुमर्हसि ।। ४५ ।।
स्थानभागं च नृपते दास्यामि तव दक्षिणम् ।
यथा नृपाणां सर्वेषां तथा ते स्थापितोऽग्रतः ।। ४६ ।।
शतसाहस्रिको भागो वस्त्राभरणवर्जितः ।
आरुहस्व रथं शुभ्रं चामीकरविभूषितम् ।। ४७ ।।
चामरं व्यजनं छत्रं ध्वजं च मनुजेश्वर ।
दिव्याभरणसंयुक्तं मुकुटं भास्करप्रभम् ।। ४८ ।।
धारयस्व महाभाग पालयस्व पुरीमिमाम् ।
पुत्रपौत्रैः प्रमुदितो मथुरां परिपालय ।। ४९ ।।
जित्वारिगणसंघांश्च भोजवंशं विवर्द्धय ।
देवदेवाद्यनन्ताय शौरिणे वज्रपाणिना ।। 2.55.५० ।।
प्रेषितं देवराजेन दिव्याभरणमम्बरम् ।
माथुराणां च सर्वेषां भागा दीनारका दश ।। ५१ ।।
सूतमागधबन्दीनामेकैकस्य सहस्रकम् ।
वृद्धस्त्रीजनसंघानां गणिकानां शतं शतम् ।। ५२ ।।
नृपेण सह तिष्ठन्ति विकद्रुप्रमुखाश्च ये ।
दशसाहस्रिको भागस्तेषां धात्रा प्रकल्पितः ।। ५३ ।।
वैशम्पायन उवाच
एवं सम्पूज्य राजानं माथुराणां चमूमुखे ।
कृत्वा सुमहदानन्दां मथुरां मधुसूदनः ।। ५४ ।।
दिव्याभरणमाल्यैश्च दिव्याम्बरविलेपनैः ।
दीप्यमानाः समन्ताच्च देवा इव त्रिविष्टपे ।। ५५ ।।
भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ।
बृंहितेन च नागानां हयानां हेषितेन च ।। ५६ ।।
सिंहनादेन शूराणां रथनेमिस्वनेन च ।
तुमुलः सुमहानासीन्मेघनाद इवाम्बरे ।। ५७ ।।
बन्दिभिः स्तूयमानं च नमश्चक्रुरपि प्रजाः ।
दत्त्वा दानमनन्तं च न ययौ विस्मयं हरिः ।। ५८ ।।
स्वभावोन्नतभावत्वाद् दृष्टपूर्वात्ततोऽधिकम् ।
अनहंकारभावाच्च विस्मयं न जगाम ह ।। ५९ ।।
दीप्यमानं स्ववपुषा आयान्तं भास्करप्रभम् ।
दृष्ट्वा मथुरवासिन्यो नमश्चक्रुः पदे पदे ।। 2.55.६० ।।
एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः ।
नागपर्यङ्कमुत्सृज्य प्राप्तोऽयं मथुरां पुरीम् ।। ६१ ।।
बद्ध्वा बलिं महावीर्यं दुर्जयं त्रिदशैरपि ।
शक्राय प्रददौ राज्यं त्रैलोक्यं वज्रपाणये ।। ६२ ।।
हत्वा दैत्यगणान् सर्वान् कंसं च बलिनां वरम् ।
भोजराजाय मथुरां दत्त्वा केशिनिषूदनः ।। ६३ ।।
नाभिषिक्तः स्वयं राज्ये न चासीनो नृपासने ।
राजेन्द्रत्वं च सम्प्राप्य मथुरामाविशत्ततः ।। ६४ ।।
एवमन्योन्यसंजल्पं श्रुत्वा पुरनिवासिनाम्।
बन्दिमागधसूतानामिदमूचुर्गणाधिपाः ।। ६५ ।।
किं वा शक्यामहे वक्तुं गुणानां ते गुणोदधे ।
मानुषेणैकजिह्वेन प्रभावोत्साहसम्भवान् ।। ६६ ।।
स तत्र भोगी नागेन्द्रः कदाचिद्देव बुद्धिमान् ।
द्विसाहस्रेण जिह्वेन वासुकिः कथयिष्यति ।। ६७ ।।
किं त्वद्भुतमिदं लोके मानवेन्द्रेषु भूतले ।
न भूतं न भविष्यं च शक्रादासनमागतम् ।। ६८ ।।
सभावतरणं चैव कलशैरागतं स्वयम् ।
न श्रुतं न च दृष्टं वा तेन मन्यामहेऽद्भुतम् ।। ६९ ।।
धन्या देवी महाभागा देवकी योषितां वरा ।
भवन्तं त्रिदशश्रेष्ठं धृत्वा गर्भेण केशवम् ।। 2.55.७० ।।
कृष्णं पद्मपलाशाक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ।। ७१ ।।
इति संजल्पमानानां शृण्वन्तौ पृथगीरितम् ।
उग्रसेनं पुरस्कृत्य भ्रातरौ रामकेशवौ ।। ७२।।
प्राकारद्वारि सम्प्राप्तावर्चयामास वै तदा ।
अर्घ्यमाचमनं दत्त्वा पाद्यं पाद्येति चाब्रवीत् ।। ७३ ।।
उग्रसेनस्ततो धीमान् केशवस्य रथाग्रतः ।
प्रणम्य शिरसा कृष्णं गजमारुह्य वीर्यवान् ।। ७४ ।।
घनवत् तोयधारेण ववर्ष कनकाम्बुभिः ।
घनौघैर्वर्षमाणस्तु सम्प्राप्तः पितृवेश्मनि ।। ७५ ।।
मथुराधिपतिः श्रीमानुवाच मधुसूदनम् ।
राजेन्द्रत्वमनुप्राप्य युक्तं मे नृपवेश्मनि ।। ७६ ।।
स्थापितुं देवराजेन दत्तं सिंहासनं प्रभो ।
नेष्यामि मथुरेशस्य सभां भुजबलार्जिताम् ।। ७७ ।।
प्रसादयिष्ये भगवन् न कोपं कर्तुमर्हसि ।
देवकी वसुदेवश्च रोहिणी च विशाम्पते ।। ७८ ।।
न किंचित्करणे शक्ता हर्षक्लमविमोहिता ।
कंसमाता ततो राजन्नर्चयामास केशवम् ।। ७९ ।।
नानादिग्देशजानीतं कंसेनोपार्जितं धनम् ।
देशकालं समालोक्य पादयुग्मे न्यवेदयत् ।। 2.55.८० ।।
उग्रसेनं समाहूय उवाच श्लक्ष्णया गिरा ।
श्रीकृष्ण उवाच
न चाहं मथुराकाङ्क्षी न मया वित्तकाङ्क्षया ।। ८१ ।।
घातितस्तव पुत्रोऽयं कालेन निधनं गतः ।
यजस्व विविधान्यज्ञान् ददस्व विपुलं धनम् ।। ८२ ।।
जयस्व रिपुसैन्यानि मम बाहुबलाश्रयात् ।
त्यजस्व मनसस्तापं कंसनाशोद्भवं भयम् ।। ८३ ।।
नयस्व वित्तनिचयं मया दत्तं पुनस्तव ।
इति प्राश्वास्य राजानं कृष्णस्तु हलिना सह ।। ८४ ।।
प्रविवेश ततः श्रीमान् मातापित्रोरथान्तिकम् ।
आनन्दपरिपूर्णाभ्यां हृदयाभ्यां महाबलौ ।। ८५ ।।
पितृमात्रोस्तु पादान् वै नमश्चक्रतुरानतौ ।
तस्मिन् मुहूर्ते नगरी मथुरा तु बभूव सा ।। ८६ ।।
स्वर्गलोकं परित्यज्यावतीर्णेवामरावती ।
वसुदेवस्य भवनं समीक्ष्य पुरवासिनः ।। ८७ ।।
मनसा चिन्तयामासुर्देवलोकं न भूतलम् ।
विसृज्य मथुरेशं तु महिषीसहितं तदा ।। ८८ ।।
भवनं वसुदेवस्य प्रविश्य बलकेशवौ ।
न्यस्तशस्त्रावुभौ वीरौ स्वगृहे स्वैरचारिणौ ।। ८९ ।।
ततः कृताह्निकौ भूत्वा सुखासीनौ कथान्तरे ।
एतस्मिन्नेव काले तु महोत्पातो बभूव ह ।। 2.55.९० ।।
बभ्रमुश्च घनाकाशे चेलुश्च भुवि पर्वताः ।
समुद्राः क्षुभिताः सर्वे विभ्रान्तो भोगिनां वरः ।।९१।।
कम्पिता यादवाः सर्वे न्युब्जाश्च पतिता भुवि ।
तौ तान्निपतितान्दृष्ट्वा रामकृष्णौ तु निश्चलौ।। ९२ ।।
महता पक्षवातेन विज्ञातौ पतगोत्तमम् ।
ददर्श समनुप्राप्तं दिव्यस्रगनुलेपनम् ।। ९३ ।।
प्रणम्य शिरसा ताभ्यां सौम्यरूपी कृतासनः ।
तं दृष्ट्वा समनुप्राप्तं सचिवं साम्परायिकम् ।। ९४ ।।
धृतिमन्तं गरुत्मन्तमुवाच बलिसूदनः ।
स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ।। ९५ ।।
विनताहृदयानन्द स्वागतं केशवप्रिय ।
तमुवाच ततः कृष्णः स्थितं देहमिवापरम् ।। ९६ ।।
तुल्यसामर्थ्यया वाचा आसीनं विनतात्मजम् ।
श्रीकृष्ण उवाच
यास्यामः पतगश्रेष्ठ भोजस्यान्तःपुरं महत् ।। ९७ ।।
तत्र गत्वा सुखासीना मन्त्रयामो मनोगतम् ।
वैशम्पायन उवाच
प्रविष्टौ तौ महावीर्यौ बलदेवजनार्दनौ ।। ९८ ।।
वैनतेयतृतीयौ च गुह्यं मन्त्रमथाब्रुवन् ।
अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम्।। ९९ ।।
वृतः सैन्येन महता महद्भिश्च नराधिपैः ।
बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।।2.55.१००।।
न शक्ष्यामः क्षयं कर्तुं जरासंधस्य वाहिनीम् ।
अतोऽर्थं वैनतेय त्वां ब्रवीमि मथुरां पुरीम् ।। १०१।।
वसतोरावयोः श्रेयो न भवेदिति मे मतिः ।
गरुड उवाच
देवदेवं नमस्कृत्य गतोऽहं भवतोऽन्तिकात् ।।१०२।।
वासार्थमीक्षितुं भूमिं तव देव कुशस्थलीम् ।
गत्वाहं खे समास्थाय समन्तादवलोक्य ताम्।।१०३।।
दृष्ट्वाहं विबुधश्रेष्ठ पुरीं लक्षणपूजिताम्।
सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् ।।१०४।।
सर्वतोदधिमध्यस्थामभेद्यां त्रिदशैरपि ।
सर्वरत्नाकरवतीं सर्वकामफलद्रुमाम् ।।१०५।।
सर्वर्तुकुसुमाकीर्णां सर्वतः सुमनोहराम् ।
सर्वाश्रमाधिवासां च सर्वकामगुणैर्युताम् ।। १०६।।
नरनारीसमाकीर्णां नित्यामोदविवर्द्धिनीम् ।
प्राकारपरिखोपेतां गोपुराट्टालमालिनीम् ।। १०७ ।।
विचित्रचत्वरपथां विपुलद्वारतोरणाम् ।
यन्त्रार्गलविचित्राख्यां हेमप्राकारशोभिताम् ।। १०८।।
नरनागाश्वकलिलां रथसैन्यसमाकुलाम् ।
नानादिग्देशजाकीर्णां दिव्यपुष्पफलद्रुमाम् ।। १०९।।
पताकाध्वजमालाढ्यां महाभवनशालिनीम् ।
भीषणीं रिपुसंघानां मित्राणां हर्षवर्द्धनीम् ।। 2.55.११० ।।
मनुजेन्द्राधिवासेभ्यो विशिष्टां नगरोत्तमाम् ।
रैवतं च गिरिश्रेष्ठं कुरु देव सुरालयम् ।। १११ ।।
नन्दनप्रतिमं दिव्यं पुरद्वारस्य भूषणम् ।
कारयस्वाधिवासं च तत्र गत्वा सुरोत्तम ।। ११२ ।।
कुमारीणां प्रचारश्च सुरमण्यो भविष्यति ।
नाम्ना द्वारवती ज्ञेया त्रिषु लोकेषु विश्रुता ।। ११३।।
भविष्यति पुरी रम्या शक्रस्येवामरावती ।
यदि स्यात् संवृतां भूमिं प्रदास्यति महोदधिः ।। ११४।।
यथेष्टं विविधं कर्म विश्वकर्मा करिष्यति ।
मणिमुक्ताप्रवालाभिर्वज्रवैदूर्यसप्रभैः ।।११५।।
दिव्यैरभिप्राययुतैर्दिव्यरत्नैस्त्रिलोकजैः ।
दिव्यस्तम्भशताकीर्णान् स्वर्गे देवसभोपमान् ।। ११६।।
जाम्बुनदमयाञ्छुभ्रान् सर्वरत्नविभूषितान् ।
दिव्यध्वजपताकाढ्यान् देवगन्धर्वपालितान् ।।११७।।
चन्द्रसूर्यप्रतीकाशान् प्रासादान् कारय प्रभो ।
वैशम्पायन उवाच
एवं कृत्वा तु संकल्पं वैनतेयोऽथ केशवम् ।। ११८।।
प्रणम्य शिरसा ताभ्यां निषसाद कृतासनः ।
कृष्णोऽपि रामसहितो विचिन्त्य हितमीरितम्।। ११९।।
प्रकाशकर्तुकामौ तौ विसृज्य विनतात्मजम् ।
सत्कृत्य विधिवद् राजन् महार्हवरभूषणैः ।।2.55.१२०।।
मोदेते सुखिनौ तत्र सुरलोके यथामरौ ।
तस्य तद् वचनं श्रुत्वा भोजराजो महायशाः ।। १२१ ।।
कृष्णं स्नेहेन विस्रब्धं बभाषे वचनामृतम् ।
कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ।।१२२।।
श्रूयतां वचनं त्वाद्य वक्ष्यामि रिपुसूदन ।
त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ।।१२३।।
पुरेऽस्मिन् विषयान्ते वा पतिहीना इव स्त्रियः ।
त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ।।१२४।।
बिभीमो न नरेन्द्राणां सेन्द्राणामपि मानद ।
विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ।। १२५।।
तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ ।
तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।।१२६।।
यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम् ।। १२७।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि श्रीकृष्णस्य मथुरागमनमहोत्सवो
द्वारवतीप्रयाणसंकेतो नाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।