← अध्यायः ०५५ हरिवंशपुराणम्
अध्यायः ०५६
वेदव्यासः
अध्यायः ०५७ →
श्रीकृष्णस्याज्ञया यादवानां द्वारकापुरीं प्रस्थानम्

षट्पञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
कस्यचित्त्वथ कालस्य सभ्यांस्तान् यदुसंसदि ।
बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम् ।। १ ।।
यादवानामियं भूमिर्मथुरा राष्ट्रमालिनी ।
वयं चैवेह सम्भूता व्रजे च परिवर्द्धिताः ।। २ ।।
तदिदानीं गतं दुःखं शत्रवश्च पराजिताः ।
नृपेषु जनितं वैरं जरासंधेन विग्रहः ।। ३ ।।
वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् ।
रत्नानि च विचित्राणि मित्राणि च बहूनि च ।। ४ ।।
इयं च माथुरी भूमिरल्पा गम्या परस्य तु ।
वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा ।। ५ ।।
कुमारकोट्यो याश्चेमाः पदातीनां गणाश्च ये ।
एषामपीह वसतां सम्मर्दमुपलक्षये ।। ६ ।।
अत्र नो रोचते मह्यं निवासो यदुपुङ्गवाः ।
पुरीं निवेशयिष्यामि मम तत्क्षन्तुमर्हथ ।। ७ ।।
एतद् यदनुरूपं वो ममाभिप्रायजं वचः ।
भवाय भवतां काले यदुक्तं यदुसंसदि ।। ८ ।।
तमूचुर्यादवाः सर्वे हृष्टेन मनसा तदा ।
साध्यतां यदभिप्रेतं जनस्यास्य भवाय वै ।। ९ ।।
ततः सम्मन्त्रयामासुर्वृष्णयो मन्त्रमुत्तमम् ।
अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम्।। 2.56.१० ।।
कृतः सैन्यक्षयश्चापि महानिह नराधिपैः ।
बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।
न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः ।। ११ ।।
तस्मिंश्चैवान्तरे राजा सकालयवनस्तदा ।
सैन्येन तद्विधेनैव मथुरामभ्युपागमत्।। १२ ।।
ततो जरासंधबलं दुर्निवार्यमभूत् तदा ।
ते कालयवनं चैव श्रुत्वेदं प्रतिपेदिरे ।। १३ ।।
केशवः पुनरेवाह यादवान् सत्यसंगरः ।
अद्यैव दिवसः पुण्यो निर्यामः स्वबलानुगाः ।। १४ ।।
ततो निश्चक्रमुः सर्वे यादवाः कृष्णशासनात्।
ओघा इव समुद्रस्य बलौघप्रतिनादिताः ।। १५ ।।
संगृह्य ते कलत्राणि वसुदेवपुरोगमाः ।
सुसन्नद्धैर्गजैर्मत्तै रथैरश्वैश्च दंशितैः ।। १६ ।।
आहत्य दुन्दुभीन् सर्वे स्वजनज्ञातिबान्धवाः ।
निर्ययुर्यादवाः सर्वे मथुरामपहाय वै ।। १७ ।।
स्यन्दनैः काञ्चनापीडैर्मत्तैश्च वरवारणैः ।
सूतैः प्लुतैश्च तुरगैः कशापार्ष्णिप्रणोदितैः ।। १८ ।।
स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः ।
प्रत्यङ्मुखा ययुर्हृष्टा वृष्णयो भरतर्षभ ।। १९ ।।
ततो मुख्यतमाः सर्वे यादवा रणकोविदाः ।
अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः ।। 2.56.२० ।।
ते स्म नानालताचित्रं नारिकेलवनायुतम् ।
कीर्णं नागबलैः कान्तं केतकीखण्डमण्डितम् ।। २१ ।।
तालपुन्नागबकुलद्राक्षावनघनं क्वचित् ।
अनूपं सिन्धुराजस्य प्रपेतुर्यदुपुङ्गवाः ।। २२ ।।
ते तत्र रमणीयेषु विषयेषु सुखप्रियाः ।
मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव ।। २३ ।।
पुरवास्तु विचिन्वन् स कृष्णस्तु परवीरहा ।
ददर्श विपुलं देशं सागरेणोपशोभितम् ।। २४ ।।
वाहनानां हितं चैव सिकताताम्रमृत्तिकम् ।
पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया ।। २५ ।।
सागरानिलसंवीतं सागराम्बुनिषेवितम् ।
विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः ।। २६ ।।
तत्र रैवतको नाम पर्वतो नातिदूरतः ।
मन्दरोदारशिखरः सर्वतोऽभिविराजते ।। २७ ।।
तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् ।
प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः ।। २८ ।।
विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता ।
नाम्ना द्वारवती नाम स्वायताष्टापदोपमा ।। २९ ।।
केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता ।
निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ।। 2.56.३० ।।
ते रक्तसूर्यदिवसे तत्र यादवपुङ्गवाः ।
सेनापालांश्च संचक्रुः स्कन्धावारनिवेशनम् ।। ३१ ।।
ध्रुवाय तत्र न्यवसत् केशवः सह यादवैः ।
देशे पुरनिवेशाय स यदुप्रवरो विभुः ।। ३२ ।।
तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः ।
निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ।। ३३ ।।
एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः ।
सुखिनो न्यवसन् राजन् स्वर्गे देवगणा इव ।। ३४ ।।
कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः ।
जरासंधभयाच्चैव पुरीं द्वारवतीं ययौ ।। ३५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारवतीप्रयाणे षट्पञ्चाशत्तमोऽध्यायः ।। ५६ ।।