प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०५७ हरिवंशपुराणम्
अध्यायः ०५८
वेदव्यासः
अध्यायः ०५९ →
द्वारकापुर्याः विश्वकर्मणा निर्माणं, निधिपतेः शङ्खस्य एवं सुधर्मासभायाः आनयनम्, श्रीकृष्णेन तत्र यादवानां वसतिहेतु व्यवस्थाकरणम्, बलरामस्य रेवत्या सह विवाहः

अष्टपञ्चाशत्तमोऽध्यायः

वैशम्पायन उवाच
ततः प्रभाते विमले भास्करे उदिते तदा ।
कृतजाप्यो हृषीकेशो वनान्ते निषसाद ह ।। १ ।।
परिचक्राम तं देशं दुर्गस्थानदिदृक्षया ।
उपतस्थुः कुलप्राग्यात यादवा यदुनन्दनम् ।। २ ।।
रोहिण्यामहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान् ।
पुण्याहघोषैर्विपुलैर्दुर्गस्यारब्धवान् क्रियाम् ।। ३ ।।
ततः पङ्कजपत्राक्षो यादवान् केशिसूदनः ।
प्रोवाच वदतां श्रेष्ठो देवान् वृत्ररिपुर्यथा ।। ४ ।।
कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत् ।
नाम चास्याः कृतं पुर्याः ख्यातिं यदुपयास्यति ।। ५ ।।
इयं द्वारवती नाम पृथिव्यां निर्मिता मया ।
भविष्यति पुरी रम्या शक्रस्येवामरावती ।। ६ ।।
तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च ।
चत्वरान् राजमार्गांश्च सम्यगन्तःपुराणि च ।। ७ ।।
देवा इवात्र मोदन्तु भवन्तो विगतज्वराः ।
बाधमाना रिपूनुग्रानुग्रसेनपुरोगमाः ।। ८ ।।
गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः ।
मीयन्तां राजमार्गाश्च प्रासादस्य च या गतिः ।। ९ ।।
प्रेष्यन्तां शिल्पिमुख्या वै नियुक्ता वेश्मकर्मसु ।
नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः ।। 2.58.१० ।।
एवमुक्ते तु यदवो गृहसंग्रहतत्पराः ।
यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् ।। ११ ।।
सूत्रहस्तास्ततो मानं चक्रुर्यादवसत्तमाः ।
पुण्येऽहनि महाराज द्विजातीनभिपूज्य च ।। १२ ।।
वास्तुदैवतकर्माणि विधिना कारयन्ति च ।
स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः ।। १३ ।।
अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् ।
विविक्तचत्वरपथं सुनिविष्टेष्टदैवतम् ।। १४ ।।
ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा ।
दुर्गकर्माणि संस्कारानुपकल्प्य यथाविधि ।। १५ ।।
यथान्यायं निर्मिमिरे दुर्गाण्यायतनानि च ।
स्थानानि निदधुश्चात्र ब्रह्मादीनां यथाक्रमम् ।। १६ ।।
अपामग्नेः सुरेशस्य दृषदोलूखलस्य च ।
चातुर्दैवानि चत्वारि द्वाराणि निदधुश्च ते ।। १७ ।।
शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च ।
तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु ।। १८ ।।
पुर्याः क्षिप्तं निवेशार्थं चिन्तयामास माधवः ।
तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी ।। १९ ।।
पुर्याः प्रियकरी सा वै यदूनामभिवर्द्धिनी ।
शिल्पिमुख्यस्तु देवानां प्रजापतिसुतः प्रभुः ।। 2.58.२० ।।
विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिष्यति ।
मनसा समनुध्याय तस्यागमनकारणात् ।
त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत ।। २१ ।।
तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः ।
विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः ।। २२ ।।
विश्वकर्मोवाच
शक्रेण प्रेषितः क्षिप्रं तव विष्णो धृतव्रत ।
किङ्करः समनुप्राप्तः शाधि मां किं करोमि ते ।। २३ ।।
यथासौ देवदेवो मे शङ्करश्च यथाव्ययः ।
तथा त्वं देव मान्यो मे विशेषो नास्ति वः प्रभो ।। २४ ।।
त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज ।
एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् ।। २५ ।।
श्रुत्वा विनीतं वचनं केशवो विश्वकर्मणः ।
प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः ।। २६ ।।
श्रुतार्थो देवगुह्यस्य भवान् यत्र वयं स्थिताः ।
अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम ।। २७ ।।
तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत ।
मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः ।। २८ ।।
उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती ।
तथेयं हि त्वया कार्या शक्तो ह्यसि महामते ।। २९ ।।
मम स्थानमिदं कार्यं यथा वै त्रिदिवे तथा ।
मर्त्याः पश्यन्तु मे लक्ष्मीं पुर्या यदुकुलस्य च ।। 2.58.३० ।।
एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः ।
कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम् ।। ३१ ।।
सर्वमेतत् करिष्यामि यत् त्वयाभिहितं प्रभो ।
पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति ।। ३२ ।।
भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना ।
चत्वारः सागराह्यस्यां विचरिष्यन्ति रूपिणः ।। ३३ ।।
यदीच्छेत्सागरः किंचिदुत्स्रष्टुमपि तोयराट् ।
ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तम ।। ३४ ।।
एवमुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः ।
सागरं सरितां नाथमुवाच वदतां वरः ।। ३५ ।।
समुद्र दश च द्वे च योजनानि जलाशये ।
प्रतिसंह्रियतामात्मा यद्यस्ति मयि मान्यता ।। ३६ ।।
अवकाशे त्वया दत्ते पुरीयं मामकं बलम् ।
पर्याप्तविषया रम्या समग्रं विसहिष्यति ।। ३७ ।।
ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः ।
स मारुतेन योगेन उत्ससर्ज जलाशयम् ।। ३८ ।।
विश्वकर्मा ततः प्रीतः पुर्याः संलक्ष्य वास्तु तत् ।
गोविन्दे चैव सम्मानं कृतवान् सागरस्तदा ।। ३९ ।।
विश्वकर्मा ततः कृष्णमुवाच यदुनन्दनम् ।
अद्यप्रभृति गोविन्द सर्वे समधिरोहत ।। 2.58.४० ।।
मनसा निर्मिता चेयं मया पूः प्रवरा विभो ।
अचिरेणैव कालेन गृहसम्बाधमालिनी ।। ४१ ।।
भविष्यति पुरी रम्या सुद्वारा प्राग्र्यतोरणा ।
चयाट्टालककेयूरा पृथिव्यां ककुदोपमा ।। ४२ ।।
अन्तःपुरं च कृष्णस्य परिचर्याक्षयं महत् ।
चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते ।। ४३ ।।
ततः सा निर्मिता कान्ता पुरी द्वारावती तदा ।
विधानविहितद्वारा प्राकारवरशोभिता ।
परिखाचयसंगुप्ता साट्टप्राकारतोरणा ।। ४५ ।।
कान्तनारीनरगणा वणिग्भिरुपशोभिता ।
नानापण्यगणाकीर्णा खेचरीव च गां गता ।। ४६ ।।
प्रपावापीप्रसन्नोदा उद्यानैरुपशोभिता ।
समन्ततः संवृताङ्गी वनितेवायतेक्षणा ।। ४७ ।।
समृद्धचत्वरवती वेश्मोत्तमघनाचिता ।
रथ्याकोटिसहस्राढ्या शुभ्रराजपथोत्तरा ।। ४८ ।।
भूषयन्ती समुद्रं सा स्वर्गमिन्द्रपुरी यथा ।
पृथिव्यां सर्वरत्नानामेका निचयशालिनी ।। ४९ ।।
सुराणामपि सुक्षेत्रा सामन्तक्षोभकारिणी ।
अप्रकाशं तदाकाशं प्रासादैरुपकुर्वती ।। 2.58.५० ।।
पृथिव्यां पृथुराष्ट्रायां जनौघप्रतिनादिता ।
ओघैश्च वारिराजस्य शिशिरीकृतमारुता ।। ५१ ।।
अनूपोपवनैः कान्तैः कान्त्या जनमनोहरा ।
सतारका द्यौरिव सा द्वारका प्रत्यराजत ।। ५२ ।।
प्राकारेणार्कवर्णेन शातकौम्भेन संवृता ।
हिरण्यप्रतिवर्णैश्च गृहैर्गम्भीरनिःस्वनैः ।। ५३ ।।
शुभ्रमेघप्रतीकाशैर्द्वारैः सौधैश्च शोभिता ।
क्वचित् क्वचिदुदग्राग्रैरुपावृतमहापथा ।। ५४ ।।
तामावसत् पुरीं कृष्णः सर्वे यादवनन्दनाः ।
अभिप्रेतजनाकीर्णा सोमः खमिव भासयन् ।। ५५ ।।
विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीमिव ।
जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः ।। ५६ ।।
भूयश्च बुद्धिरभवत् कृष्णस्य विदितात्मनः ।
जनानिमान् धनौघैश्च तर्पयेयमहं यदि ।। ५७ ।।
स वैश्रवणसंस्पृष्टं निधीनामुत्तमं निधिम् ।
शङ्खमाह्वयतोपेन्द्रो निशि स्वं भवने प्रभुः ।। ५८ ।।
स शङ्खः केशवाह्वानं ज्ञात्वा हि निधिराट् स्वयम्।
आजगाम समीपं वै तस्य द्वारवतीपतेः ।। ५९ ।।
स शङ्खः प्राञ्जलिर्भूत्वा विनयादवनिं गतः ।
कृष्णं विज्ञापयामास यथा वैश्रवणं तथा ।। 2.58.६० ।।
भगवन् किं मया कार्यं सुराणां वित्तरक्षिणा ।
नियोजय महाबाहो यत् कार्यं यदुनन्दन ।। ६१ ।।
तमुवाच हृषीकेशः शङ्खं गुह्यकमुत्तमम् ।
जनाः कृशधना येऽस्मिंस्तान् धनेनाभिपूरय ।। ६२ ।।
नेच्छाम्यनशितं द्रष्टुं कृशं मलिनमेव च ।
देहीति चैव याचन्तं नगर्यां निर्धनं नरम् ।। ६३ ।।
वैशम्पायन उवाच
गृहीत्वा शासनं मूर्ध्ना निधिराट् केशवस्य ह ।
निधीनाज्ञापयामास द्वारवत्यां गृहे गृहे ।। ६४ ।।
धनौघैरभिवर्षध्वं चक्रुः सर्वं तथा च ते ।
नाधनो विद्यते तत्र क्षीणभाग्योऽपि वा नरः ।। ६५ ।।
कृशो वा मलिनो वापि द्वारवत्यां कथंचन ।
द्वारवत्यां पुरि पुरा केशवस्य महात्मनः ।। ६६ ।।
चकार वायोराह्वानं भूयश्च पुरुषोत्तमः ।
तत्रस्थ एव भगवान् यादवानां प्रियंकरः ।। ६७ ।।
प्राणयोनिस्तु भूतानामुपतस्थे गदाधरम् ।
एकमासीनमेकान्ते देवगुह्यधरं प्रभुम् ।। ६८ ।।
किं मया देव कर्तव्यं सर्वगेनाशुगामिना ।
यथैव दूतो देवानां तथैवास्मि तवानघ ।। ६९ ।।
तमुवाच ततः कृष्णो रहस्यं पुरुषो हरिः ।
मारुतं जगतः प्राणं रूपिणं समुपस्थितम् ।। 2.58.७० ।।
गच्छ मारुत देवेशमनुमान्य सहामरैः ।
सभां सुधर्मामादाय देवेभ्यस्त्वमिहानय ।। ७१ ।।
यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः ।
तस्यां विशेयुरेते वै न तु या कृत्रिमा भवेत् ।। ७२ ।।
या ह्यक्षया सभा रम्या कामगा कामरूपिणी ।
सा यदून् धारयेत्सर्वान्यथैव त्रिदशास्तथा ।। ७३ ।।
संगृह्य वचनं तस्य कृष्णस्याक्लिष्टकर्मणः ।
वायुरात्मोपगतिर्जगाम त्रिदिवालयम् ।।७४।।
सोऽनुमान्य सुरान्सर्वान् कृष्णवाक्यं निवेद्य च ।
सभां सुधर्मामादाय पुनरायान्महीतलम् ।। ७५ ।।
सुधर्माय सुधर्मां तां कृष्णायाक्लिष्टकारिणे ।
देवो देवसभां दत्त्वा वायुरन्तरधीयत ।। ७६ ।।
द्वारवत्यास्तु सा मध्ये केशवेन निवेशिता ।
सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा ।। ७७ ।।
एवं दिव्यैश्च भोगैश्च जलजैश्चाव्ययो हरिः ।
द्रव्यैरलंकरोति स्म पुरीं स्वां प्रमदामिव ।। ७८ ।।
मर्यादाश्चैव संचक्रे श्रेणीश्च प्रकृतीस्तथा ।
बलाध्यक्षांश्च युक्तांश्च प्रकृतीशांस्तथैव च ।। ७९ ।।
उग्रसेनं नरपतिं काश्यं चापि पुरोहितम् ।
सेनापतिमनाधृष्टिं विकद्रुं मन्त्रिपुङ्गवम् ।। 2.58.८० ।।
यादवानां कुलकरान् स्थविरान् दश तत्र वै ।
मतिमान् स्थापयामास सर्वकार्येष्वनन्तरान् ।। ८१ ।।
रथेष्वतिरथो यन्ता दारुकः केशवस्य वै ।
योधमुख्यश्च योधानां प्रवरः सात्यकिः कृतः ।। ८२ ।।
विधानमेवं कृत्वाथ कृष्णः पुर्यामनिन्दितः ।
मुमुदे यदुभिः सार्द्धं लोकस्रष्टा महीतले ।। ८३ ।।
रेवतस्याथ कन्यां च रेवतीं शीलसम्मताम् ।
प्राप्तवान् बलदेवस्तु कृष्णस्यानुमते तदा ।। ८४ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारावतीनिर्माणेऽष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।