हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०५७

← अध्यायः ०५६ हरिवंशपुराणम्
अध्यायः ०५७
वेदव्यासः
अध्यायः ०५८ →
कालयवनस्य वधम्

सप्तपञ्चाशत्तमोऽध्यायः

जनमेजय उवाच
भगवञ्छ्रोतुमिच्छामि विस्तरेण महात्मनः ।
चरितं वासुदेवस्य यदुश्रेष्ठस्य धीमतः ।। १ ।।
किमर्थं च परित्यज्य मथुरां मधुसूदनः ।
मध्यदेशस्य ककुदं धाम लक्ष्म्याश्च केवलम् ।। २ ।।
शृङ्गं पृथिव्याः स्वालक्ष्यं प्रभूतधनधान्यवत् ।
आर्याढ्यजलभूयिष्ठमधिष्ठानवरोत्तमम् ।। ३ ।।
अयुद्धेनैव दाशार्हस्त्यक्तवान् द्विजसत्तम ।
स कालयवनश्चापि कृष्णे किं प्रत्यपद्यत ।। ४ ।।
द्वारकां च समासाद्य वारिदुर्गां जनार्दनः ।
किं चकार महाबाहुर्महायोगी महातपाः ।। ५ ।।
किं वीर्यः कालयवनः केन जातश्च वीर्यवान् ।
यमसह्यं समालक्ष्य व्यपयातो जनार्दनः ।। ६ ।।
वैशम्पायन उवाच
वृष्णीनामन्धकानां च गुरुर्गार्ग्यो महामनाः ।
ब्रह्मचारी पुरा भूत्वा न स्म दारान्स विन्दति।। ७ ।।
तथा हि वर्तमानं तमूर्ध्वरेतसमव्ययम् ।
श्यालोऽभिशस्तवान् गार्ग्यमपुमानितिराजनि ।। ८ ।।
सोऽभिशस्तस्तदा राजन् नगरे त्वजितं जये ।
अलिप्संस्तु स्त्रियं चैव तपस्तेपे सुदारुणम् ।। ९ ।।
ततो द्वादशवर्षाणि सोऽयश्चूर्णमभक्षयत् ।
आराधयन् महादेवमचिन्त्यं शूलपाणिनम् ।। 2.57.१० ।।
रुद्रस्तस्मै वरं प्रादात् समर्थं युधि निग्रहे ।
वृष्णीनामन्धकानां च सर्वतेजोमयं सुतम् ।। ११ ।।
ततः शुश्राव तं राजा यवनाधिपतिर्वरम् ।
पुत्रप्रसवजं दैवादपुत्रः पुत्रकामिता ।। १२ ।।
स नृपस्तमुपानाय्य सान्त्वयित्वा द्विजोत्तमम् ।
तं घोषमध्ये यवनो गोपस्त्रीषु समासृजत् ।। १३ ।।
गोपाली त्वप्सरास्तत्र गोपस्त्रीवेषधारिणी ।
धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ।। १४ ।।
मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः ।
स कालयवनो नाम जज्ञे शूरो महाबलः ।। १५ ।।
अपुत्रस्याथ राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ।
तस्मिन्नुपरते राजन् स कालयवनो नृपः ।। १६ ।।
युद्धाभिकामो नृपतिः पर्यपृच्छद्द्विजोत्तमान् ।
वृष्ण्यन्धककुलं तस्य नारदेन निवेदितम् ।। १७ ।।
ज्ञात्वा तु वरदानं तन्नारदान्मधुसूदनः ।
उपप्रैक्षत तेजस्वी वर्द्धन्तं यवनेषु तम् ।। १८ ।।
समृद्धो हि यदा राजा यवनानां महाबलः ।
तत एवं नृपा म्लेच्छाः संश्रित्यानुययुस्तदा ।। १९ ।।
शकास्तुषारा दरदाः पारदाः शृङ्गलाः खसाः ।
पह्लवाः शतशश्चान्ये म्लेच्छा हैमवतास्तथा ।। 2.57.२० ।।
स तैः परिवृतो राजा दस्युभिः शलभैरिव ।
नानावेषायुधैर्भीमैर्मथुरामभ्यवर्तत ।। २१ ।।
गजवाजिखरोष्ट्राणामयुतैरर्बुदैरपि ।
पृथिवीं कम्पयामास सैन्येन महता वृतः ।। २२ ।।
रेणुना सूर्यमार्गं तु समवच्छाद्य पार्थिवः ।
मूत्रेण शकृता चैव सैन्येन ससृजे नदीम् ।। २३ ।।
अश्वोष्ट्रशकृतां राशेर्निस्सृतेति जनाधिप।
ततोऽश्वशकृदित्येवं नाम नद्या बभूव ह ।। २४ ।।
तत्सैन्यं महदायाद् वै श्रुत्वा वृष्ण्यन्धकाग्रणीः ।
वसुदेवः समानाय्य ज्ञातीनिदमुवाच ह ।। २५ ।।
इदं समुत्थितं घोरं वृष्ण्यन्धकभयं महत् ।
अवध्यश्चापि नः शत्रुर्वरदानात् पिनाकिनः ।। २६ ।।
सामादयोऽभ्युपायाश्च विहितास्तस्य सर्वशः ।
मत्तो मदबलाभ्यां तु युद्धमेव चिकीर्षति ।। २७ ।।
 एतावानिह वासश्च कथितो नारदेन मे ।
एतावति च वक्तव्यं सामैव परमं मतम ।। २८ ।।
जरासंधश्च नो राजा नित्यमेव न मृष्यते ।
तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः ।। २९ ।।
केचित् कंसवधाच्चापि विरक्तास्तद्गता नृपाः ।
समाश्रित्य जरासंधमस्मानिच्छन्ति बाधितुम् ।। 2.57.३० ।।
बहवो ज्ञातयश्चैव यदूनां निहता नृपैः ।
वर्द्धितुं नैव शक्ष्याम पुरेऽस्मिन्निति केशवः ।। ३१ ।।
अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह ।
ततः कुम्भे महासर्पं भिन्नाञ्जनचयोपमम् ।। ३२ ।।
घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत् तदा ।
ततस्तं मुद्रयित्वा तु स्वेन दूतेन हारयत् ।। ३३ ।।
निदर्शनार्थं गोविन्दो भीषयामास तं नृपम् ।
स दूतः कालयवने दर्शयामास तं घटम् ।। ३४ ।।
कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ ।।
तत्कालयवनो बुद्ध्वा त्रासनं यादवैः कृतम् ।। ३५ ।।
पिपीलिकानां चण्डानां पूरयामास तं घटम् ।
स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः ।
भक्ष्यमाणःकिलाङ्गेषु भस्मीभूतोऽभवत्तदा ।। ३६ ।।
तं मुद्रयित्वा तु घटं तथैव यवनाधिपः ।
प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन् ।। ३७ ।।
वासुदेवस्तु तं दृष्ट्वा योगं विहतमात्मनः ।
उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान् ।। ३८ ।।
वैरस्यान्तं विधित्संस्तु वासुदेवो महायशाः ।
निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह ।। ३९ ।।
पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा ।
आजगाम महावीर्यो मथुरां मधुसूदनः ।। 2.57.४० ।।
तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा ।
प्रेक्षापूर्वं च कृष्णोऽपि निश्चकर्ष महाबलः ।। ४१ ।।
अथाभ्यगच्छद् गोविन्दं जिघृक्षुर्यवनेश्वरः ।
न चैनमशकद् राजा ग्रहीतुं योगधर्मिणम्.।। ४२ ।।
मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः ।
पुरा देवासुरे युद्धे कृतकर्मा महाबलः ।। ४३ ।।
वरेण च्छन्दितो देवैर्निद्रामेव गृहीतवान् ।
श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत् किल ।। ४४ ।।
प्रसुप्तं बोधयेद् यो मां तं दहेयमहं सुराः ।
चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः ।। ४५ ।।
एवमस्त्विति तं शक्र उवाच त्रिदशैः सह ।
स सुरैरभ्यनुज्ञातो ह्यद्रिराजमुपागमत् ।। ४६ ।।
स पर्वतगुहां कांचित् प्रविश्य श्रमकर्शितः ।
सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् ।। ४७ ।।
तत्सर्वं वासुदेवाय नारदेन निवेदितम् ।
वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः ।। ४८ ।।
कृष्णोऽनुगम्यमानश्च तेन म्लेच्छेन शत्रुणा ।
तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् ।। ४९ ।।
शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः ।
संदर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः ।। 2.57.५० ।।
अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् ।
स तं सुप्तं कृतान्ताभमाससाद सुदुर्मतिः ।। ५१ ।।
वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् ।
पादेनात्मविनाशाय शलभः पावकं यथा ।। ५२ ।।
मुचुकुन्दस्तु राजर्षिः पादस्पर्शप्रबोधितः ।
निद्राच्छेदेन चुक्रोध पादस्पर्शेन तेन च ।। ५३ ।।
संस्मृत्य स वरं शक्रादवैक्षत तमग्रतः ।
स दृष्टमात्रः क्रोधेन सम्प्रजज्वाल सर्वशः ।। ५४ ।।
ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः ।
क्षणेन कालयवनं नेत्रतेजोविनिर्गतः ।। ५५ ।।
तं वासुदेवः श्रीमन्तं चिरसुप्तं नराधिपम् ।
कृतकार्योऽब्रवीद् धीमानिदं वचनमुत्तमम् ।। ५६ ।।
राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे ।
कृतं मे सुमहत्कार्यं स्वस्ति तेऽस्तु व्रजाम्यहम् ।। ५७ ।।
वासुदेवमुपालक्ष्य राजा ह्रस्वं प्रमाणतः ।
परिष्कृतं युगं मेने कालेन महता तदा ।। ५८ ।।
उवाच राजा गोविन्दं को भवान् किमिहागतः ।
कश्च कालः प्रसुप्तस्य यदि जानासि कथ्यताम् ।। ५९ ।।
श्रीकृष्ण उवाच
सोमवंशोद्भवो राजा ययातिर्नाम नाहुषः ।
तस्य पुत्रो यदुर्ज्येष्ठश्चत्वारोऽन्ये यवीयसः ।। 2.57.६० ।।
यदुवंशात् समुत्पन्नं वसुदेवात्मजं विभो ।
वासुदेवं विजानीहि नृपते मामिहागतम् ।। ६१ ।।
त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि नारदात् ।
इदं कलियुगं विद्धि किमन्यत् करवाणि ते ।। ६२ ।।
मम शत्रुस्त्वया दग्धो देवदत्तवरो नृप ।
अवध्यो यो मया संख्ये भवेद् वर्षशतैरपि ।। ६३ ।।
वैशम्पायन उवाच
इत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात् ।
अन्वीयमानः कृष्णेन कृतकार्येण धीमता ।। ६४ ।।
ततो ददर्श पृथिवीमावृतां ह्रस्वकैर्नरैः ।
स्वल्पोत्साहैरल्पबलैरल्पवीर्यपराक्रमैः ।
परेणाधिष्ठितं चैव राज्यं केवलमात्मनः ।। ६५ ।।
प्रीत्या विसृज्य गोविन्दं प्रविवेश महद् वनम् ।
हिमवन्तमगाद् राजा तपसे धृतमानसः ।। ६६ ।।
ततः स तप आस्थाय विनिर्मुच्य कलेवरम् ।
आरुरोह दिवं राजा कर्मभिः स्वैर्जिताशुभैः ।। ६७ ।।
वासुदेवोऽपि धर्मात्मा उपायेन महामनाः ।
घातयित्वाऽऽत्मनः शत्रुं तत्सैन्यं प्रत्यपद्यत ।। ६८ ।।
प्रभूतरथहस्त्यश्ववर्मशस्त्रायुधध्वजम् ।
आदायोपययौ धीमान्ससैन्यं निहतेश्वरम् ।।६९ ।।
निवेदयामास ततो नराधिपे तदुग्रसेने प्रतिपूर्णमानसः ।
जनार्दनो द्वारवतीं च तां पुरीमशोभयत् तेन धनेन भूरिणा ।। 2.57.७० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कालयवनवधे सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।