← अध्यायः ०६२ हरिवंशपुराणम्
अध्यायः ०६३
वेदव्यासः
अध्यायः ०६४ →
नरकासुरस्य परिचयः, द्वारकायां इन्द्रस्यागमनं एवं श्रीकृष्णं नरकवधाय अनुरोधं, श्रीकृष्णस्य सत्यभामासहितं प्राग्ज्योतिषपुरे गमनम् एवं तेन मुरु, निसुन्द, हयग्रीव, विरुपाक्ष, पञ्चनाद, अन्यान्य असुराणां एवं नरकासुरस्य वधम्

त्रिषष्टितमोऽध्यायः

जनमेजय उवाच
प्रत्येत्य द्वारकां विष्णुर्हते रुक्मिणि वीर्यवान् ।
अकरोद् यन्महाबाहुस्तन्मे वद महामुने ।। १ ।।
वैशम्पायन उवाच
स तैः परिवृतः श्रीमान् पुरी यादवनन्दनः ।
द्वारकां भगवान् विष्णुः प्रत्यवैक्षत वीर्यवान् ।। २ ।।
प्रत्यपद्यत रत्नानि विविधानि वसूनि च ।
यथाहं पुण्डरीकाक्षो नैर्ऋतान् प्रत्यवारयत् ।। ३ ।।
तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः ।
ताञ्जघान महाबाहुर्वरदृप्तान् महासुरान् ।। ४ ।।
विघ्नं चास्याकरोत् तत्र नरको नाम दानवः ।
त्रासनः सर्वदेवानां देवराजरिपुर्महान् ।। ५ ।।
स भूमौ मूर्तिलिङ्गस्थः सर्वदेवाधिबाधिता ।
देवतानामृषीणां च प्रतीपमकरोत् तदा ।। ६ ।।
त्वष्टुर्दुहितरं भौमः कशेरुमगमत् तदा ।
गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम् ।। ७ ।।
प्रमथ्य तां वरारोहां नरको वाक्यमब्रवीत् ।
नष्टशोकभयो मोहात् प्राग्ज्योतिषपतिस्तदा ।। ८ ।।
यानि देवमनुष्येषु रत्नानि विविधानि च ।
बिभर्ति च मही कृत्स्ना सागरेषु च यद् वसु ।। ९ ।।
अद्यप्रभृति तानीह सहिताः सर्वनैर्ऋताः ।
तवैवोपाहरिष्यन्ति दैत्याश्च सह दानवैः ।। 2.63.१० ।।
एवमुत्तमरत्नानि वस्त्राणि विविधानि च ।
स जहार तदा भौमस्तच्च नाधिचकार सः ।। ११ ।।
गन्धर्वाणां च याः कन्या जहार नरको बली ।
याश्च देवमनुष्याणां सप्त चाप्सरसां गणाः ।। १२ ।।
चतुर्दश सहस्राणि एकविंशच्छतानि च ।
एकवेणीधराः सर्वाः सतीमार्गमनुव्रताः ।। १३ ।।
वैशम्पायन उवाच
तासां पुरवरं भौमोऽकारयन्मणिपर्वतम् ।
अलकायामदीनात्मा मुरो स्वविषयं प्रति ।। १४ ।।
ताश्च प्राग्ज्योतिषपतिं मुरोश्चैव दशात्मजाः ।
नैर्ऋताश्च यथा मुख्याः पालयन्त उपासते ।
स एष तपसः पारे वरदृप्तो महासुरः ।। १५ ।।
न चासुरगणैः सर्वैः सहितैः कर्म तत् पुरा ।
कृतपूर्वं तदा घोरं यदकार्षीन्महासुरः ।। १६ ।।
अदितिं धर्षयामास कुण्डलार्थे महासुरः ।
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् ।। १७ ।।
द्वारपालाश्च चत्वारस्तस्यासन् युद्धदुर्मदाः ।
हयग्रीवो निसुन्दश्च वीरः पञ्चनदस्तथा ।। १८ ।।
मुरुः पुत्रसहस्रैश्च वरदत्तोऽसुरो महान् ।
आदेवयानमावृत्य पन्थानं समुपस्थितः ।
वित्रासनः सुकृतिनां विरूपै राक्षसैः सह ।। १९ ।।
तद्वधार्थं महाबाहुः शङ्खचक्रगदासिभृत् ।
जातो वृष्णिषु देवक्यां वसुदेवाज्जनार्दनः ।। 2.63.२० ।।
तस्याथ पुरुषेन्द्रस्य लोकप्रथिततेजसः ।
निवासो द्वारका देवैरुपायादुपपादिता ।। २१ ।।
अतीव हि पुरी रम्या द्वारका वासवक्षयात् ।
महार्णवपरिक्षिप्ता पञ्चपर्वतशोभिता ।। २२ ।।
तस्यां देवपुराभायां सभा काञ्चनतोरणा ।
सा दाशार्हीति विख्याता योजनायामविस्तृता ।। २३ ।।
तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः ।
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते ।। २४ ।।
तत्रासीनेषु सर्वेषु कदाचिद् भरतर्षभ ।
दिव्यगन्धो ववौ वायुः पुष्पवर्षं पपात ह ।। २५ ।।
ततः किलकिलाशब्दः प्रभाजालाभिसंवृतः ।
मुहूर्तमन्तरिक्षेऽभूत् ततो भूमौ प्रतिष्ठितः ।। २६ ।।
मध्ये तु तेजसस्तस्य पाण्डुरं गजमास्थितः ।
वृतो देवगणैः सर्वैर्वासवः समदृश्यत ।। २७ ।।
रामकृष्णौ च राजा स वृष्ण्यन्धकगणैः सह ।
प्रत्युद्ययुर्महात्मानं पूजयन्तः सुरेश्वरम् ।। २८ ।।
सोऽवर्तार्य गजात् तूर्णं परिष्वज्य जनार्दनम् ।
सस्वजे बलदेवं च तं च राजानमाहुकम् ।। २९ ।।
वृष्णीनन्यान् सस्वजे च यथाकालं यथावयः ।
पूजितो रामकृष्णाभ्यामाविवेश स तां सभाम् ।। 2.63.३० ।।
तत्रासीनोऽभ्यलंकृत्वा सभां ताममरेश्वरः ।
अर्घ्यादिसमुदाचारं प्रत्यगृह्णाद् यथाविधि ।। ३१ ।।
वैशम्पायन उवाच
अथोवाच महातेजा वासवो वासवानुजम्।
सान्त्वपूर्वं करेणास्य संस्पृश्य वदनं शुभम् ।। ३२ ।।
देवकीनन्दन वचः शृणु मे मधुसूदन ।
येन त्वाभिगतोऽस्म्यद्य कार्येणामित्रकर्शन ।। ३३ ।।
नैर्ऋतो नरको नाम ब्रह्मणो वरदर्पितः ।
अदित्याः कुण्डले मोहाज्जहार दितिनन्दनः ।। ३४ ।।
देवानां विप्रिये नित्यमृषीणां च स वर्तते ।
तं च देवान्तरं प्रेक्ष्य जहि त्वं पापपूरुषम् ।। ३५ ।।
अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः ।
कामवीर्योऽतितेजस्वी वैनतेयोऽन्तरिक्षगः ।। ३६ ।।
अवध्यः सर्वभूतानां भौमः स नरकोऽसुरः ।
निषूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि ।। ३७ ।।
इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः ।
प्रतिजज्ञे महाबाहुर्नरकस्य निबर्हणे ।। ३८ ।।
ततः सहैव शक्रेण शङ्खचक्रगदासिभृत्।
प्रतस्थे गरुडेनाथ सत्यभाभासहायवान् ।। ३९ ।।
क्रमेण सप्तस्कन्धान् स मरुतां सहवासवः ।
पश्यतां यदुसिंहानामूर्ध्वमाचक्रमे बली ।। 2.63.४० ।।
वारणेन्द्रगतः शक्रो गरुडस्थो जनार्दनः ।
विदूरत्वात् प्रकाशेते सूर्याचन्द्रमसाविव ।। ४१ ।।
अन्तरिक्षे च गन्धर्वैरप्सरोभिश्च केशवः ।
स्तूयमानोऽथ शक्रश्च क्रमेणान्तरधीयत ।। ४२ ।।
समाधायेतिकर्तव्यं वासवो विबुधाधिपः ।
स्वमेव भवनं प्रायात् कृष्णः प्राग्ज्योतिषं प्रति ।। ४३ ।।
पक्षानिलहतो वायुः प्रतिलोमं ववौ तदा ।
ततो भीमरवा मेघा बभ्रमुर्गगनेचराः ।। ४४ ।।
क्षणेन समनुप्राप्तो द्विजेनाकाशगेन वै ।
दूरादेव च तान् दृष्ट्वा प्रययौ यत्र ते स्थिताः ।। ४५ ।।
अपश्यद् द्वारि तत्रस्थां हस्त्यश्वरथवाहिनीम् ।
क्षुरान्तान् मौरवान्पाशान् षट्सहस्रान्ददर्श ह।।४६।।
वैशम्पायन उवाच
गरुडस्योपरि श्रीमाञ्छङ्खचक्रगदाधरः ।
बिभ्रन्नीलाम्बुदाकारं पीतवासाश्चतुर्भुजः ।। ४७ ।।
वनमालाकुलोरस्कः श्रीवत्साङ्कितभूषणः ।
किरीटमूर्द्धा सूर्याभः सविद्युदिव चन्द्रमाः ।। ४८ ।।
ज्यां विकूजन्महाशब्दः श्रूयतेऽशनिनिःस्वनः ।
ज्ञात्वा च दानवः सर्वं स्वयं विष्णुरिहागतः ।। ४९ ।।
क्रोधाद् द्विगुणरक्ताक्षो मुरुः कालान्तकोपमः ।
अभ्यधावत वेगेन शक्तिं गृह्य महासुरः ।। 2.63.५० ।।
चिक्षेप सुमहाशक्तिं वज्रकाञ्चनभूषिताम् ।
तामापतन्तीं शक्तिं तु महोल्कां ज्वलितामिव ।। ५१ ।।
समाधत्त शरं चैकं रुक्मपुङ्खं जनार्दनः ।
द्विधाच्छिनत्क्षुरप्रेण वासुदेवः स वीर्यवान् ।। ५२ ।।
शक्तिं चिच्छेद तत्रासौ विद्युत्पुञ्ज इव ज्वलन् ।
पुनश्च क्रोधरक्ताक्षो मुरुर्गृह्य महागदाम् ।। ५३ ।।
इन्द्राशनिरिवेन्द्रेण विकृष्ट इव निःस्वनः ।
आकर्णमुक्तं चिक्षेप अर्धचन्द्रं सुरोत्तमः ।। ५४ ।।
मध्यदेशे तु चिच्छेद गदां तां रुक्मभूषिताम् ।
पुनश्चिच्छेद भल्लेन दानवस्य शिरो रणे ।। ५५ ।।
संछिद्य पाशान् सर्वांस्तान् मुरुं हत्वा सबान्धवम् ।
सोऽग्र्यान्रक्षोगणान् हत्वा नरकस्य महाबलान् ।।५६।।
शिलासंघानतिक्रम्य भगवान् देवकीसुतः ।
अपश्यद् दानवं सैन्यं निसुन्दं च महाबलम् ।। ५७ ।।
हयग्रीवं च दितिजं तथान्यांश्चित्रयोधिनः ।
रोधयामास तन्मार्गं स्वसैन्येन महाबलः ।। ५८ ।।
निसुन्दो बलिनां श्रेष्ठो रथमारुह्य सत्वरम् ।
जग्राह कार्मुकं दिव्यं हेमपृष्ठं दुरासदम् ।। ५९ ।।
विव्याध दशभिर्बाणैर्निसुन्दो मधुसूदनम् ।
केशवश्चापि सप्तत्या विव्याध निशितैः शरैः ।। 2.63.६० ।।
अप्राप्तांश्चान्तरिक्षे ताञ्छरांश्चिच्छेद माधवः ।
ते सर्वे सैनिकाः कृष्णं समन्तात्पर्यवारयन् ।। ६१ ।।
शरजालेन महता छाद्यमानः सुरोत्तमः ।
दृष्ट्वा तान्दानवान्सर्वान्सक्रोधो मधुसूदनः ।। ६२ ।।
ततो दिव्येन चास्त्रेण पार्जन्येन जनार्दनः ।
महता शरवर्षेण वारयामास तद्बलम् ।। ६३ ।।
पञ्चपञ्चशरैस्तेषु एकैकेन च तान् बहून् ।
पार्जन्यस्य प्रभावेण सर्वान् मर्मस्वताडयत् ।। ६४ ।।
दुद्रुवुर्भयसंत्रस्ता भग्नास्ते दानवा रणे ।
स्वसैन्यं विद्रुतं दृष्ट्वा निश्चक्राम पुनर्मृधे ।। ६५ ।।
विसृजञ्छरवर्षाणि छादयामास केशवम् ।
न विभाति रणे सूर्यो नापि व्योम दिशो दश ।। ६६ ।।
शरैः संछादयामास निसुन्दो गरुडध्वजम् ।
सावित्रं नाम दिव्यास्त्रं जग्राह पुरुषोत्तमः ।। ६७ ।।
तेन बाणेन तान् बाणांश्चिच्छेद समरे हरिः ।
बाणैर्बाणांश्च संच्छिद्य तस्य कृष्णो महाबलः ।। ६८ ।।
छत्रमेकेन बाणेन रथेषां च त्रिभिः शरैः ।
पुनश्चिच्छेद तानश्वांश्चतुर्भिश्चतुरः शरैः ।। ६९ ।।
सारथिं पञ्चभिर्बाणैर्ध्वजमेकेन चिच्छिदे ।
शरैकेन वपुः कृष्णः सुतीक्ष्णेन शितेन वै ।। 2.63.७० ।।
शिरश्चिच्छेद भल्लेन निसुन्दस्य सुरोत्तमः ।
यः सहस्रसमास्त्वेकः सर्वान् देवानयोधयत् ।। ७१ ।।
निसुन्दं पतितं दृष्ट्वा हयग्रीवः प्रतापवान् ।
शिलां प्रगृह्य महतीं तोलयामास दानवः ।। ७२ ।।
आविध्य सहसा मुञ्चच्छिलां शैलसमां प्रभुः ।
गृहीत्वा दिव्यपार्जन्यमस्त्रमस्त्रविदां वरः ।। ७३ ।
दिव्यास्त्रेण शिलां विष्णुः सप्तधाकृत तेजसा ।
तद् विदार्य महच्चाश्म पातयामास भूतले ।। ७४ ।।
ततस्तैः शार्ङ्गनिर्मुक्तैर्नानावर्णैर्महाशरैः ।
यथा देवासुरं युद्धमभवद् भरतर्षभ ।
नानाप्रहरणाकीर्णं तथा घोरमवर्तत ।। ७५ ।।
ततः शार्ङ्गविनिर्मुक्तैर्नानावर्णैर्महाशरै ।
गरुडस्थो महाबाहुर्निजघान महासुरान् ।। ७६ ।।
महालाङ्गलनिर्भिन्नाः शङ्खशक्तिनिपातिताः ।
विनेशुर्दानवाः सर्वे समासाद्य जनार्दनम् ।। ७७ ।।
केचिच्चक्राग्निनिर्दग्धा दानवाः पेतुरम्बरात् ।
संनिकर्षगताः केचिद् गतासुविकृताननाः ।। ७८ ।।
असृजञ्छरवर्षाणि वृष्टिमन्त इवाम्बुदाः ।
विकृताङ्गासुराः सर्वे कृष्णबाणप्रपीडिताः ।। ७९ ।।
शोणिताक्ताः स्म दृश्यन्ते पुष्पिता इव किंशुकाः।
व्यद्रवन्त सुवित्रस्ता भग्नास्त्राश्चित्रयोधिनः ।। 2.63.८० ।।
पुनश्च क्रोधरक्ताक्षो वायुवेगेन दानवः ।
दशव्यामोच्छ्रितं वृक्षं समारुह्य वनस्पतिम् ।। ८१ ।।
वृक्षमुत्पाट्य वेगेन प्रतिगृह्याभ्यधावत ।
चिक्षेप स महावृक्षं शिक्षया सुघनाकृतिः ।। ८२ ।।
वृक्षवेगानिलोद्भूतः शुश्रुवे सुमहास्वनः ।
ततः शरसहस्रेण यतमानो जनार्दनः ।। ८३ ।।
नैकधा तं प्रचिच्छेद चित्रभानुनिभाकृतिम् ।
पुनश्चैकेन बाणेन हयग्रीवस्य चोरसि ।। ८४ ।।
विव्याध स्तनयोर्मध्ये सायको ज्वलनप्रभः ।
विवेश सोऽपि वेगेन हृदं भित्त्वा विनिर्गतः ।। ८५ ।।
तं जघान महाघोरं हयग्रीवं महाबलम् ।
अपारतेजा दुर्द्धर्षः स वै यादवनन्दनः ।। ८६ ।।
मध्ये लोहितगङ्गस्य भगवान् देवकीसुतः ।
औदकायां विरूपाक्षं पाप्मानं पुरुषोत्तमः ।। ८७ ।।
अष्टौ शतसहस्राणि दानवानां परंतपः ।
निहत्य पुरुषव्याघ्रः प्राग्ज्योतिषमुपाद्रवत् ।। ८८ ।।
हत्वा पञ्चनदं नाम नरकस्य महासुरम् ।
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया ।। ८९ ।।
पुरमासादयामास युद्धं तत्राभवन्महत् ।
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं महाबलः ।। 2.63.९० ।।
शुश्रुवे सुमहाशब्दः संवर्तनिनदो यथा ।
श्रूयते त्रिषु लोकेषु भीमगम्भीरनिःस्वनः ।
तं श्रुत्वा नरकश्चासीत् क्रोधसंरक्तलोचनः ।। ९१ ।।
लोहचक्राष्टसंयुक्तं विनल्वप्रतिमं रथम् ।
रत्नकाञ्चनचित्राढ्यं वेदिकाभोगविस्तरम् ।। ९२ ।।
वज्रध्वजेन महता काञ्चनेन विराजितम् ।
हेमदण्डपताकाढ्यं वैदूर्यमणिकूबरम् ।। ९३ ।।
युक्तमश्वसहस्रेण रथं पररथारुजम्।
लोहजालैश्च संछन्नं चित्रभक्तिविराजितम् ।। ९४ ।।
रथमध्यगतो वीरः ससंध्य इव भास्करः ।
नानाप्रहरणाकीर्णं रथं हेमपरिष्कृतम् ।। ९५ ।।
वज्रं तथोरच्छदमिन्दुवर्णं व्यानद्धमुक्तानलतुल्यतेजाः ।
किरीटमूर्द्धार्कहुताशनाभः कर्णौ तथा कुण्डलयोर्ज्वलन्तौ ।। ९६ ।।
धूम्रवर्णा महाकाया रक्ताक्षा विकृताननाः ।
नानाकवचिनः सर्वे दैत्यदानवराक्षसाः ।। ९७ ।।
खड्गचर्मधराः केचित् केचित् तूणधनुर्भृतः ।
शक्तिहस्तास्तथा केचिच्छूलहस्तास्तथापरे ।। ९८ ।।
गजवाजिरथौघैश्च चालयन्तश्च मेदिनीम् ।
निर्ययुर्नगरात् सर्वे सुसंनद्धाः प्रहारिणः ।। ९९ ।।
वृतो दैत्यगणैः सार्द्धं नरकः कालसंनिभः ।
भेरीशङ्खमृदङ्गानां पणवानां सहस्रशः ।। 2.63.१००।।
शुश्राव वाद्यमानानां जीमूतनिनदोपमम् ।
यतः कृष्णस्ततो गत्वा सर्वे ते विकृताननाः ।। १०१।।
परिवार्य गरुत्मन्तं सर्वेऽयुध्यन्त संगताः ।
महता छादयामासुः शरवर्षेण सैनिकाः ।। १०२।।
शक्तिशूलगदाप्रासांस्तोमरान्सायकान्बहून् ।
आकाशं छादयामासुर्विमुञ्चन्तः सहस्रशः ।। १०३।।
कृष्णः कृष्णाम्बुदाकारः शार्ङ्गं गृह्य धनुस्ततः ।
विस्फार्य सुमहच्चापं धनुर्जलदनिःस्वनम् ।।१०४ ।।
व्यसृजच्छरवर्षाणि दानवानां जनार्दनः ।
शरवर्षेण तत्सैन्यं व्यद्रवत् तु महाहवात् ।। १०५।।
तद् युद्धमभवद् घोरं घोररूपेण रक्षसा ।
भग्नव्यूहाश्च ते सर्वे कृष्णबाणप्रपीडिताः ।।१०६।।
केचिच्छिन्नभुजाश्चैव च्छिन्नग्रीवाशिराननाः ।
केचिच्चक्रद्विधाच्छिन्नाः केचिद् बाणार्दितोरसः।। १०७।।
केचिद् द्विधाकृताः शक्त्या गजाश्वरथवाहनाः ।
केचित्कौमोदकीभिन्नाः केचिच्चक्रविदारिताः ।। १०८।।
एवं विमथिता सर्वा नराश्वरथवाहिनी ।
तत्रासीन्नरकेणास्य युद्धं परमदारुणम् ।। १०९।।
यत् समासेन वक्ष्यामि तन्मे निगदतः शृणु ।
त्रासनः सुरसंघानां नरकः पुरुषोत्तमम् ।। 2.63.११०।।
योधयामास तेजस्वी मधुवन्मधुसूदनम् ।
क्रोधरक्तान्तनयनो नरको घनसंनिभः ।। १११।।
जग्राह कार्मुकं वीरः शक्रचापमिवोच्छ्रितम् ।
तथार्ककिरणप्रख्यं बाणं जग्राह केशवः ।। ११२।।
दिव्येनास्त्रेण समरे पूरयामास तं रथम् ।
उत्तमास्त्रं महापातं मुमोच नरको बली ।। ११३।।
बज्रविस्कूर्जिताकारमायान्तं वीक्ष्य केशवः ।
चिच्छेदास्त्रं महाभागश्चक्रेण मधुसूदनः ।। ११४।।
व्यहनत् सारथिं चास्य शरैकेण जनार्दनः ।
स रथं सध्वजं साश्वं जघान दशभिः शरैः ।। ११५।।
तनुत्रं चैव चिच्छेद शरेण मधुसूदनः ।
ततो विमुक्तकवचः सर्पस्येव तनुर्यथा ।। ११६।।
हताश्वोऽपि रणे वीरो वितनुत्रश्च दानवः ।
जग्राह विमलज्वालं लोहभारार्पितं दृढम् ।। ११७।।
आविध्य सहसा मुक्तं शूलमिन्द्राशनिप्रभम् ।
तदापतत् स सम्प्रेक्ष्य शूलं हेमपरिष्कृतम् ।। ११८।।
द्विधा छिन्नं क्षुरप्रेण कृष्णेनाद्भुतकर्मणा ।
तद् युद्धमभवद् घोरं घोररूपेण रक्षसा ।।११९।
शस्त्रपातमहाघातं नरकेण महात्मना ।
मुहूर्तं योधयामास नरकं मधुसूदनः ।। 2.63.१२०।।
अथोग्रचक्रश्चक्रेण प्रदीप्तेनाकरोद् द्विधा ।
चक्रद्विधाकृतं तस्य शरीरमपतद् भुवि ।। १२१।।
विभक्तं कुलिशेनैव गिरेः शृङ्गं द्विधाकृतम् ।
कृष्णमासाद्य देवेशं जगामास्तमिवांशुमान् ।। १२२।।
चक्रोत्कृन्तितगात्रोऽसौ दानवः पतितो रणे ।
वज्रप्रहारनिर्भिन्नं यथा गैरिकपर्वतम् ।।१२३।।
भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले ।
उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् ।। १२४।।
दत्तस्त्वयैव गोविन्द त्वयैव विनिपातितः ।
यथेच्छसि तथा क्रीड बालः क्रीडनकैरिव ।। १२५।।
इमे ते कुण्डले देव प्रजास्तस्यानुपालय ।। १२६।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नरकवधे त्रिषष्टितमोऽध्यायः।।६३।।