हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०६४

← अध्यायः ०६३ हरिवंशपुराणम्
अध्यायः ०६४
वेदव्यासः
अध्यायः ०६५ →
श्रीकृष्णस्य नरकासुरस्य भवने प्रवेशम्, तत्रस्य धनवैभवस्य एवं षोडशसहस्राणां कुमारीणां द्वारकायां प्रेषणम्, स्वयं देवलोकं गत्वा अदितिं कुण्डलानि दत्त्वा तत्रतः पारिजातं गृह्य प्रत्यागमनम्

चतुःषष्टितमोऽध्यायः

वैशम्पायन उवाच
निहत्य नरकं भौमं वासवोपमविक्रमम् ।
वासवावरजो विष्णुर्ददर्श नरकालयम् ।। १ ।।
अथार्थगृहमासाद्य नरकस्य जनार्दनः ।
ददर्श धनमक्षय्यं रत्नानि विविधानि च ।। २ ।।
मणिमुक्ताप्रवालानि वैदूर्यस्य च संचयान् ।
मासारगल्वकूटानि तथा वज्रस्य संचयान् ।। ३ ।।
जाम्बूनदमयान्यस्य शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिनिभानि च ।। ४ ।।
शयनानि महार्हाणि तथा सिंहासनानि च ।
हिरण्यदण्डरुचिरं शीतरश्मिसमप्रभम् ।। ५ ।।
ददर्श तन्महच्छत्रं वर्षमाणमिवाम्बुदम्।
जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः ।। ६ ।।
वरुणादाहृतं पूर्वं नरकेणेति नः श्रुतम्।
यावद्रत्नं गृहे दृष्टं नरकस्य धनं बहु ।। ७ ।।
नैव राज्ञः कुबेरस्य न शक्रस्य यमस्य च ।
रत्नसंनिचयस्तादृग् दृष्टपूर्वो न च श्रुतः ।। ८ ।।
हते भौमे निसुन्दे च हयग्रीवे च दानवे ।
उपानिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च ।। ९ ।।
दानवा हतशिष्टा ये कोशसंचयरक्षिणः ।
केशवाय महार्हाणि यान्यर्हति जनार्दनः ।। 2.64.१० ।।
दैत्या ऊचुः
इमानि मणिरत्नानि विविधानि बहूनि च ।
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः ।। ११ ।।
हेमसूत्रा महाकक्षाश्चापतोमरशालिनः ।
रुचिराभिः पताकाभिः शबला रुचिरांकुशाः ।। १२ ।।
ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः ।
अष्टौ शत सहस्राणि देशजाश्चोत्तमा हयाः ।। १३ ।।
गोषु चापि कृतो यावान् कामस्तव जनार्दन ।
तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ।। १४ ।।
आविकानि च सूक्ष्माणि शयनान्यासनानि च ।
कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः ।। १५ ।।
नन्दनागुरुकाष्ठानि तथा कालीयकान्यपि ।
वसु यत् त्रिषु लोकेषु धर्मेणाधिगतं तव ।
प्रापयिष्याम तत् सर्व वृष्ण्यन्धकनिवेशनम् ।। १६ ।।
देवगन्धर्वरत्नानि पन्नगानां च यद् वसु ।
तानि सर्वाणि सन्तीह नरकस्य निवेशने ।। १७ ।।
वैशम्पायन उवाच
तच्च सर्वं हृषीकेशः परिगृह्य परीक्ष्य च ।
सर्वमाहारयामास दानवैर्द्वारकां पुरीम् ।। १८ ।।
ततस्तद् वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।
हिरण्यवर्षं वर्षन्तमारुरोह विहङ्गमम् ।। १९ ।।
गरुडं पतगश्रेष्ठं मूर्तिमन्तमिवाम्बुदम् ।
ततोऽभ्ययाद् गिरिश्रेष्ठमभितो मणिपर्वतम् ।। 2.64.२० ।।
तत्र पुण्या वयुर्वाता ह्यभवंश्चामलाः प्रभाः ।
मणीनां हेमवर्णानामभिभूय दिवाकरम् ।। २१ ।।
तत्र वैदूर्यवर्णानि ददर्श मधुसूदनः ।
सतोरणपताकानि द्वाराणि शरणानि च ।। २२ ।।
विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ।। २३ ।।
तत्र ता वरहेमाभा ददर्श मधुसूदनः ।
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तथा ।। २४ ।।
ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ।
नरकेण समानीता रक्ष्यमाणाः समन्ततः ।। २५ ।।
त्रिविष्टपसमे देशे तिष्ठन्तीरपराजिताः ।
निर्विशन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः ।। २६ ।।
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ।। २७ ।।
व्रतोपवासतन्वङ्ग्यः काङ्क्षन्त्यः कृष्णदर्शनम्।
समेत्य यदुसिंहस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन्।। २८ ।।
नरकं निहतं ज्ञात्वा मुरं चैव महासुरम्।
हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् ।। २९ ।।
ये चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् ।
कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोऽधिकाः ।। 2.64.३० ।।
तासां परमनारीणामृषभाक्षं निरीक्ष्य तम्।
सर्वासामेव संकल्पः पतित्वेनाभवत् ततः ।। ३१ ।।
तस्य चन्द्रोपमं वक्त्रं निरीक्ष्य मुदितेन्द्रियाः ।
सम्प्रहष्टा महाबाहुमिदं वचनमब्रुवन् ।। ३२ ।।
सत्यं च यत्पुरा वायुरिहास्मान्वाक्यमब्रवीत् ।
सर्वभूतमतिज्ञश्च देवर्षिरपि नारदः ।। ३३ ।।
विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् ।
स भौमं नरकं हत्वा भर्ता च भविता स वः ।। ३४ ।।
सुप्रियं बत पश्यामश्चिरश्रुतमरिंदमम्।
दर्शनेन कृतार्था हि वयमद्य महात्मनः ।। ३५ ।।
ततस्ताः सान्त्वयामास प्रमदा वासवानुजः ।
सर्वाः कमलपत्राक्षीर्दृष्ट्वा चोवाच माधवः ।। ३६ ।।
यथार्हतः पूजयित्वा समाभाष्य च केशवः ।
यानैः किङ्करसंयुक्तैरुवाह मधुसूदनः ।। ३७ ।।
किङ्कराणां सहस्राणि रक्षसां वातरंहसाम् ।
शिबिकां वहतां तत्र निर्घोषः सुमहानभूत् ।। ३८ ।।
तस्य पर्वतराजस्य शृङ्गं यत् परमार्चितम् ।
विमलार्केन्दुसंकाशं मणिकाञ्चनतोरणम् ।। ३९ ।।
सपक्षिगणमातङ्गं समृगव्यालपादपम् ।
शाखामृगगणाकीर्णं सुप्रस्तरशिलातलम् ।। 2.64.४० ।।
न्यंकुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ।
सप्रपातं महासानुं विचित्रशिखरद्रुमम् ।। ४१ ।।
अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् ।
जीवञ्जीवकसंघैश्च बर्हिभिश्च निनादितम् ।। ४२ ।।
तदप्यतिबलो विष्णुर्दोर्भ्यामुत्पाट्य भासुरम् ।
आरोपयामास बली गरुडे पक्षिणां वरे ।। ४३ ।।
मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् ।
उवाह लीलया पक्षी गरुडः पततां वरः ।। ४४ ।।
स पक्षवलविक्षेपैर्हिमाद्रिशिखरोपमः ।
दिक्षु सर्वासु संह्रादं जनयामास पक्षिराट् ।। ४५ ।।
आरुजन् पर्वताग्राणि पादपांश्च समुत्क्षिपन् ।
संजहार महाभ्राणि विजहार च कानिचित् ।। ४६।।
विषयं समतिक्रम्य देवयोश्चन्द्रसूर्ययोः ।
ययौ वातजवः पक्षी जनार्दनवशे स्थितः ।। ४७ ।।
स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् ।
देवसद्मानि सर्वाणि ददर्श मधुसूदनः ।। ४८ ।।
विश्वेषां मरुतां चैव साध्यानां च नराधिप ।
भ्राजमानान्यतिक्रामन्नश्विनोश्च परंतप ।। ४९ ।।
प्राप्य पुण्यतमांल्लोकान् देवलोकमरिंदमः ।
शक्रसद्म समासाद्य प्रविवेश जनार्दनः ।। 2.64.५० ।।
अवतीर्य स तार्क्ष्यात् तु ददर्श विबुधाधिपम् ।
प्रीतश्चैवाभ्यनन्दत् तं देवराजः शतक्रतुः ।। ५१ ।।
प्रादाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः ।
सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः ।। ५२ ।।
अर्चितो देवराजेन रत्नैश्च प्रतिपूजितः ।
सत्यभामा च पौलोम्या यथावदभिनन्दिता ।। ५३।।
वासवो वासुदेवश्च जग्मतुः सहितौ तदा ।
अदित्या भवनं दिव्यं देवमातुर्महर्द्धिमत् ।। ५४ ।।
तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः ।
ददृशाते महात्मानौ महाभागां तपोऽन्विताम् ।। ५५ ।।
ततस्ते कुण्डले दिव्ये प्रादाददितिनन्दनः ।
ववन्दे तां शचीभर्ता मातरं स्वां पुरंदरः ।। ५६ ।।
जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत्।
अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च ।। ५७ ।।
आशीर्भिरनुकूलाभिरुभावप्यवदत् तदा ।
पौलोमी सत्यभामा च प्रीत्या परमया युते ।। ५८ ।।
अगृह्णीतां वरार्हाया देव्यास्ते चरणौ शुभौ ।
ते चाप्यभ्यवदत् प्रेम्णा देवमाता यशस्विनी ।। ५९ ।।
यथावदब्रवीच्चैव जनार्दनमिदं वचः ।
अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि ।। 2.64.६० ।।
यथैव देवराजोऽयमजितो लोकपूजितः ।
भवत्वियं वरारोहा नित्यं च प्रियदर्शना ।। ६१ ।।
सर्वलोकेषु विख्याता दिव्यगन्धा मनोरमा ।
सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना ।। ६२ ।।
जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः ।
एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः ।। ६३ ।।
देवराजाभ्यनुज्ञातो रत्नैश्च प्रतिपूजितः ।
वैनतेयं समारुह्य सहितः सत्यभामया ।। ६४ ।।
देवाक्रीडं परिक्रामन् पूज्यमानं सुरर्षिभिः ।
स ददर्श महाबाहुराक्रीडे वासवस्य ह ।। ६५ ।।
दिव्यभभ्यर्चितं देवैः पारिजातं महाद्रुमम् ।
नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम् ।। ६६ ।।
यमासाद्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः ।। ६७ ।।
उत्पाट्यारोपयामास विष्णुस्तं गरुडोपरि ।
सोऽपश्यत्सत्यभामा च दिव्यमप्सरसां गणम् ।।६८।।
पृष्ठतः सत्यभामा च दिव्या योषा च वीक्षिता ।
प्रायात् ततो द्वारवतीं वायुजुष्टेन वै पथा ।। ६९ ।।
श्रुत्वा तं देवराजस्तु कर्म कृष्णस्य तत् तदा ।
अनुमेने महाबाहुः कृतकर्मेति चाब्रवीत् ।। 2.64.७० ।।
स पूज्यमानस्त्रिदशैः सप्तर्षिगणसंस्तुतः ।
प्रतस्थे द्वारकां कृष्णो देवलोकादरिंदमः ।। ७१ ।।
सोऽभिपत्य महाबाहुर्दीर्घमध्वानमल्पवत्।
पूजितो देवराजेन ददृशे यादवीं पुरीम् ।। ७२ ।।
तथा कर्म महत्कृत्वा भगवान् वासवानुजः ।
उपायाद् द्वारकां कृष्णः श्रीमान् गरुडवाहनः ।। ७३ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे द्वारकाप्रवेशे चतुःषष्टितमोऽध्यायः ।। ६४ ।।