हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०६५
← अध्यायः ०६४ | हरिवंशपुराणम् अध्यायः ०६५ वेदव्यासः |
अध्यायः ०६६ → |
रैवतके पर्वतोपरि रुक्मिण्याः व्रतोद्यापनोत्सवं, तस्मिन् पारिजातं दत्त्वा श्रीकृष्णेन रुक्मिण्याः सम्मानं, नारदेन रुक्मिण्याः सर्वाधिकस्य सौभाग्यस्य प्रशंसा एवं सत्यभामायाः कोपभवने प्रवेशम् |
पञ्चषष्टितमोऽध्यायः
जनमेजय उवाच
प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम् ।
शृण्वन्नैवाधिगच्छामि तृप्तिं कृष्णस्य धीमतः ।। १ ।।
द्वारकायां निवसतः कृतदारस्य षड्गुणम् ।
चरितं ब्रूहि कृष्णस्य सर्वं हि विदितं तव ।। २ ।।
वैशम्पायन उवाच
जनमेजय कृष्णस्य कृतदारस्य भारत ।
निबोध चरितं चित्रं तस्यैव सदृशं प्रभो ।। ३ ।।
प्राप्तदारो महातेजा वासुदेवः प्रतापवान् ।
रुक्मिण्या सहितो देव्या ययौ रैवतकं नृप ।। ४ ।।
उपवासावसानं हि रुक्मिण्याः प्रतिपूजयन् ।
तर्पयिष्यन् स्वयं विप्राञ्जगाम मधुसूदनः ।। ५ ।।
कुमाराः प्रययुस्तत्र पुत्रभ्रातर एव च ।
प्रेषिता वासुदेवेन नारदस्याभ्यनुज्ञया ।। ६ ।।
षोडश स्त्रीसहस्राणि जग्मुरेव च धीमतः ।
ऋद्धया परमया राजन् विष्णोरेवानुरूपया ।। ७ ।।
ततस्तत्र द्विजातीनां कामान् प्रादादधोक्षजः ।
अर्थिनां धर्मनित्यानां बन्दिनामिष्टवादिनाम् ।। ८ ।।
कल्याणनामगोत्राणां महतां पुण्यकर्मणाम् ।
यौनैः श्रौतैश्च माखैश्च शुद्धानां कुरुनन्दन ।। ९ ।।
तर्पयित्वा द्विजान् कामैरिष्टैरिष्टः सतां गतिः।
ज्ञातीन् संतर्पयामास यथार्हं भक्तवत्सलः ।। 2.65.१० ।।
उपवासावसानेऽथ भगवान् स विशेषतः ।
बहुमेने प्रियां भार्यां रुक्मिणीं भीष्मकात्मजाम् ।। ११ ।।
वसतस्तस्य कृष्णस्य सदारस्यामितौजसः ।
सहासीनस्य रुक्मिण्या नारदोऽभ्याययौ मुनिः ।। १२ ।।
आगतं चाप्रमेयात्मा मुनिमिन्द्रानुजस्तदा ।
शास्त्रदृष्टेन विधिना अर्चयामास केशवः ।। १३ ।।
सोऽर्चितो वासुदेवेन मुनिरर्च्यतमः सताम् ।
पारिजाततरोः पुष्पं ददौ कृष्णाय भारत ।। १४ ।।
तद्वृक्षराजकुसुमं रुक्मिण्याः प्रददौ हरिः ।
पार्श्वस्था सा हि कृष्णस्य भोज्या नरवराभवत् ।। १५ ।।
प्रतिगृह्य तु तत् पुष्पं कामारणिरनिन्दिता ।
शिरस्यमलपत्राक्षी ददौ कृष्णेङ्गितानुगा ।। १६ ।।
त्रैलोक्यनृपसर्वस्वं नारायणमनोहरा ।
शुशुभे देवपुष्पेण द्विगुणं भैष्मकी तदा ।। १७ ।।
तां नारदस्तथोवाच मुनिर्ब्रह्मसुतस्तदा ।
तवैवौपयिकं पुष्पमेकं देवि पतिव्रते ।। १८ ।।
अलंकृतं पुष्पमेतत् संसर्गात् तव सर्वथा ।
अत्यर्हा च मता मे त्वमेतत्पुष्पाद् धृतव्रते ।। १९ ।।
कल्याणगुणसम्पन्ने सततं भर्तृवत्सले ।
अम्लानमेतत् सततं पुष्पं भवति कामिनि ।। 2.65.२० ।।
संवत्सरपरं कालं कालज्ञे गुणसम्मते ।
ईप्सितानपि गन्धांश्च ददाति वदतां वरे ।। २१ ।।
शीतोष्णे चेच्छिते देवि पुष्पमेतत् प्रयच्छति ।
स्रवत्यपि रसान्देवि मनसा काङ्क्षितान्वरान्।।२२
सेव्यमानं च सौभाग्यं ददाति वरवर्णिनि ।
स्रवत्यपि तथा गन्धानीप्सितान्प्रीतिवर्द्धनान् ।। २३ ।।
यानि यानि च पुष्पाणि त्वं देव्यभिलषिष्यसि ।
कुसुमं वृक्षराजस्य तानि तानि प्रदास्यति ।। २४ ।।
एतदेव भगाधानं धर्मिष्ठे पुत्रदं तथा ।
मतिं च नाशुभे धत्ते धार्यमाणं सदा शुभे ।। २५ ।।
यद् यदिच्छसि वर्णं च तत्सर्वं धारयिष्यति ।
स्वल्पं वा यदि वा स्थूलं छन्दतस्ते भविष्यति ।। २६ ।
अनिष्टगन्धहरणमेतत् सद्गन्धवर्द्धनम् ।
प्रदीपकर्म रात्रौ च करोति कमलेक्षणे ।। २७ ।।
संतानकस्रजो मालां पुष्पवस्त्रादि वाच्युतम् ।
पुष्पमण्डपमुख्यानि चिन्तितेन प्रदास्यति ।। २८ ।।
बुभुक्षा वा पिपासा वा ग्लानिर्वाप्यथवा जरा।
देववद्धारयन्त्यास्ते स्वच्छन्देन भविष्यति ।। २९ ।।
अनुगीतानि गीतानि दास्यत्यपि च चिन्तिते ।
सुवादित्रान् सुमधुरांस्तथैव तव सम्मतान् ।। 2.65.३० ।।
पूर्णे संवत्सरे देवि पुष्पमेतत् तवान्तिकात्।
निर्वर्त्स्यते तरुवरं समयेन प्रयास्यति ।। ३१ ।।
कृतिरेषा हि भद्रं ते पारिजातस्य सुप्रभे ।
निसर्गतः सर्गकृता सत्कारार्थेऽसुरद्विषाम् ।। ३२ ।।
उमा देववरस्येष्टा हिमालयसुता सती ।
धारयन्तीश्वरी नित्यं पुष्पाण्येतानि सुप्रभे ।। ३३ ।।
अदितिश्च सपौलोमी महेन्द्रसुरतारणी ।
सावित्री देवमाता च श्रीश्च सर्वगुणोचिता ।। ३४ ।।
देवपत्नयस्तथैवान्या देवाश्च वसुदेवताः ।
संवत्सरपरः कालः सर्वेषां न तु संशयः ।। ३५ ।।
षोडशस्त्रीसहस्राणां मध्ये त्वं खलु वर्तसे ।
अद्येष्टां वासुदेवस्य वेद्मि त्वां भोजनन्दिनि ।। ३६ ।।
सपत्न्यस्ते गुणोपेते सर्वाः सर्वेश्वरप्रिये ।
अवमानावसेकेन त्वया सिक्ताद्य भामिनि ।। ३७ ।
प्रकाशमद्य सौभाग्यमनिवार्यं यशश्च ते।
मन्दारकुसुमं दत्तं यत् ते मधुनिघातिना ।। ३८ ।।
अद्य सात्राजिती देवी ज्ञास्यते वरवर्णिनी ।
सौभाग्याख्यं सदा वेत्ति याऽऽत्मानं सुभगं सती।।३९।।
साम्बमाता च गान्धारी भार्याश्चान्या महात्मनः ।
सौभाग्यार्थोद्यताकाङ्क्षामद्य मोक्ष्यन्ति निःस्पृहाः ।।2.65.४०।।
सौभाग्यैकरथो जैत्रस्तव देव्यद्य निःसृतः ।
मनोरथरथानां यः सहस्रैरपि दुर्जयः ।। ४१ ।।
अद्याहमवगच्छामि सर्वथा सर्वशोभने ।
आत्मा द्वितीयः कृष्णस्य भोजे त्वमिति भाभिनि ।। ४२ ।।
त्रैलोक्यरत्नसर्वस्वमददाद् यत् तवाच्युतः ।
जीवितातिशयस्तेन त्वया प्राप्तो हरिप्रिये ।। ४३ ।।
नारदेनैवमुक्तं तु तथ्यं वाक्यं नराधिप ।
तत्रस्थाः शुश्रुवुः प्रेष्याः प्रेषिताः सत्यभामया ।। ४४ ।।
देवीनां च तथान्यासां पत्नीनां च विशाम्पते ।
दृष्ट्वा ताः सविशेषं च नारदेनात्युदाहृतम् ।। ४५ ।।
तच्च श्रुत्वा सुनिखिलं प्रेष्याभिः स्त्रीस्वभावतः ।
प्रकाशीकृतमेवासीद् विष्णोरन्तःपुरे तदा ।। ४६ ।।
कर्णाकर्णि ततो देव्यः कौलीनमिव संघशः ।
मन्त्रयाञ्चक्रिरे हृष्टा रुक्मिण्यतिगुणोदयम् ।। ४७ ।।
अर्हेति पुत्रमातेति ज्येष्ठेति च समागताः ।
प्रायेण प्रवदन्ति स्म हृष्टा दामोदरस्त्रियः ।। ४८ ।।
ममृषे न सपत्न्यास्तु तत्सौभाग्यगुणोदयम् ।
सत्यभामा प्रिया नित्यं विष्णोरतुलतेजसः ।। ४९ ।।
रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ।। 2.65.५० ।।
समुत्सृजन्ती वसनं सकुंकुमं शुचिस्मिता शुक्लतमैकमंशुकम् ।
जग्राह रोषाकुलितेन चेतसा वह्नेस्तदा श्रीरिव वर्द्धितेन्धना ।।५१ ।।
दन्दह्यमाना ज्वलनेन वर्द्धता ईर्ष्यासमुत्थेन गतप्रभेव ।
क्रोधान्विता क्रोधगृहं विविक्तं विवेश तारेव घनं सतोयम् ।। ५२ ।।
बद्ध्वा ललाटे हिमचन्द्रशुक्लं दुकूलपट्टं प्रियरोषचिह्नम्।
पर्यन्तदेशं सरसेन देवी विलिप्य सा लोहितचन्दनेन ।। ५३ ।।
संस्मृत्य संस्मृत्य शिरः सरोषं प्रकम्पमाना समुपोपविष्टा ।
दीर्घोपधाने शयनेऽपनीय विभूषणान्येव निबद्धवेणी ।। ५४ ।।
अकारणार्थेन विकृष्यमाणा प्रेष्याजनस्याभिजनान्वितापि ।
विचूर्णयामास कुशेशयं सा निःश्वस्य निःश्वस्य नखैर्नतभ्रूः ।। ५५ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे पञ्चषष्टिमोऽध्यायः ।। ६५ ।।