प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०६६ हरिवंशपुराणम्
अध्यायः ०६७
वेदव्यासः
अध्यायः ०६८ →
श्रीकृष्णेन पृष्टे सति सत्यभामया स्वरोषस्य खेदस्य च कारणकथनम्, श्रीकृष्णेन तस्यै पारिजातवृक्षस्य आनयने विश्वस्य संतुष्टकरणम्, सत्यभामया श्रीकृष्णेन साकं नारदस्य सत्कारम्, नारदेन पारिजातस्य उत्पत्तेः एवं महिम्नस्य वर्णनम्।

सप्तषष्टितमोऽध्यायः

वैशम्पायन उवाच
नारायणः सत्यभामां पुनरेवैष भारत ।
प्रोवाच प्रणयात् क्रुद्धामभिमानवतीं सतीम् ।। १ ।।
श्रीभगवानुवाच
दहतीव ममाङ्गानि शोकः कमललोचने ।
किमु तत् कारणं येन त्वमेवमतिविक्लवा ।। २ ।।
शापितासि मम प्राणैराचक्ष्वानत्ययो यदि ।
श्रोतव्यं यदि भक्तेन भर्त्रा सर्वाङ्गशोभने ।। ३ ।।
ततः प्रोवाच भर्तारं सत्या सत्यव्रते स्थितम् ।
बाष्पगद्गदया वाचा तथैनैधोमुखी स्थिता ।। ४ ।।
त्वयैव स्थापितं पूर्वं सौभाग्यं मम मानद ।
जगत्यमलपत्राक्ष यत् ख्यातं केशिनाशन ।। ५ ।।
शिरो वहामि चेष्टत्वात् तवाहं देव गर्विता ।
सर्वसीमन्तिनीमध्ये स्पृहणीयास्मि सर्वथा ।। ६ ।।
साहमद्यावहास्यास्मि सपत्नीनां जनस्य च ।
इति प्रेष्याभिराख्यातं श्रुत्वा तथ्यं ततस्ततः ।। ७ ।।
यत् पारिजातकुसुमं दत्तवान् नारदस्तव ।
तत् किलेष्टजने दत्तं त्वयाहं परिवर्जिता ।। ८ ।।
रत्नातिशयदानेन तस्यामभ्यधिकः किल ।
स्नेहश्च बहुमानश्च प्रकाशं गमितस्त्वया ।। ९ ।।
तामस्तौषीत् समक्षं ते प्रियां स किल नारदः ।
तमश्रौषीश्च दृष्टस्त्वं प्रियायाः संस्तवं किल ।। 2.67.१० ।।
स्तोतव्यो यदि तावत् स नारदेन तवाग्रतः ।
दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः ।। ११ ।।
प्रणयस्य रसं दत्त्वा पश्चात्तापः प्रभो यदि ।
अनुज्ञां मे प्रयच्छस्व तपः कर्तुं प्रसीद मे ।। १२ ।।
स्वप्नेनापि न दृष्ट्वाहं श्रद्दध्यां पुष्करेक्षण ।
यदन्यदेव निर्वृत्तमश्रौषं पश्यतस्तव ।। १३ ।।
कामं कामोऽस्तु तस्यैव मुनेरतुलतेजसः ।
अत्र मन्युस्तु मे देव सांनिध्यं तव तत्र यत् ।। १४ ।।
मानार्थं जीव्यते लोके सद्भिरित्युक्तवानसि ।
तदेवं सति नेच्छामि जीवितुं मानवर्जिता ।। १५ ।।
ममाभवद् यतो रक्षा भयमद्य ततो मम ।
सर्वतो रक्षते यो मां स मां नाद्याभिरक्षति ।। १६ ।।
हा गतिं कां गमिप्यामि त्यक्ता देव त्वया विभो ।
कुमुद्वतीगतां नूनं गतिं यास्याम्यसंगता ।। १७ ।।
किमकार्षमहं मोहादीश्वराणां प्रियाप्रियम् ।
प्रिया भूत्वा प्रिया भूता यद्यहं तव मानद ।। १८ ।।
वसन्तकुसुमैश्चित्रं तदा रैवतकं गिरिम् ।
प्रिया भूत्वाप्रिया भूता कथं द्रक्ष्याम्यहं पुनः ।। १९ ।।
परपुष्टस्वनोन्मिश्रं पुष्पगन्धवहं शुचिम् ।
कथं नामानिलं द्वेष्या सेस्रेयं दुर्भगा सती ।। 2.67.२० ।।
जलक्रीडां तवाङ्कस्था देव कृत्वा महोदधौ ।
कथं दौर्भाग्यमापन्ना पश्येयमपि सागरम् ।। २१ ।।
सात्राजिति प्रिया नान्या त्वत्तो मेऽस्तीति विद्धि माम्।
यदवोचः क्व तद् यातमथ वा कः स्मरिष्यति ।।२२।।
यदद्राक्षीद्धि मां श्वश्रूर्बहुमानेन नन्दिनी ।
अवज्ञातां त्वया राज्ञीं नूनं दौर्भाग्यकर्शिताम् ।। २३ ।।
किं नु गूढेन मे प्रेम्णा सुस्निग्धैनापि मानद ।
यत्समानां जनैर्देवो मां न पश्यति नित्यदा ।। २४ ।।
नाहं त्वां कितवं धूर्तमज्ञासिषमरिंदम ।
अद्य ज्ञातोऽसि तत्पक्षचञ्चलो जनवञ्चकः ।। २५ ।।
स्वरवर्णेङ्गिताकारैर्निगूढो देव यत्नतः ।
चौर ज्ञातोऽसि तत्पक्षवाङ्मात्रमधुरः शठः ।। २६।।
एवमीर्ष्यावशं प्राप्तां देवीं सात्राजितीं हरिः ।
अभिमानवतीं देवः सान्त्वपूर्वमथाब्रवीत् ।। २७ ।।
मैवं पद्मपलाशाक्षि प्राणेश्वरि वद प्रिये ।
किमत्र बहुनोक्तेन त्वदीयमवगच्छ माम् ।। २८ ।।
तत् पारिजातकुसुमं तस्या देवि ममाग्रतः ।
नारदो मत्प्रियं कुर्वन् मुनिरक्लिष्टकर्मकृत् ।। २९ ।।
दाक्षिण्यादानुरोधाच्च दत्तवान् नात्र संशयः ।
प्रसीदैकापराधं मे मर्षयस्य शुचिस्मिते ।। 2.67.३० ।।
पारिजातकपुष्पाणि यदीच्छस्यतिकोपने ।
तदा दातास्मि सुश्रोणि सत्यमेतद्ब्रवीमि तम् ।। ३१ ।।
स्वर्गास्पदादानयित्वा पारिजातं द्रुमेश्वरम् ।
गृहे ते स्थापयिष्यामि यावत्कालं त्वमिच्छसि ।। ३२ ।।
एवमुक्ता तु हरिणा प्रोवाच हरिवल्लभा ।
यद्येवं स द्रुमः शक्यस्त्विहानयितुमच्युत ।। ३३ ।।
मन्युरेव प्रमृष्टो हि भवेद् बहुगुणं मम ।
सीमन्तिनीनां सर्वासामधिका स्यामधोक्षज ।। ३४ ।।
तथास्तु प्रथमः कल्प इति तां मधुसूदनः ।
प्रोवाचाप्रतिमो देवो जगतः प्रभवाप्ययः ।। ३५ ।।
तथेत्युक्तेति कृष्णेन तुतोष समितिंजय ।
सत्यभामा सतामिष्टा कंसनाशनवल्लभा ।। ३६।।
ततः स्नातो जगन्नाथः सर्वेशः सर्वभावनः ।
चकारावश्यकं सर्वं सर्वकामप्रदः सताम् ।। ३७ ।।
दध्यौ च नारदं देवः स्नातो देवमुनिर्नृप ।
अभ्याजगाम स्नानान्ते मुनिश्रेष्ठो महोदधौ ।। ३८ ।।
तमागतं नरपते सतां गतिरधोक्षजः ।
सत्यया सह धर्मात्मा यथाविधि अपूजयत् ।। ३९ ।।
पादौ प्रक्षालयाञ्चक्रे मुनेः सात्राजिती स्वयम् ।
जलं देवः स्वयं कृष्णो भृङ्गारेण ददौ तदा ।। 2.67.४० ।।
अथोपकल्पयामास सुखासीनाय केशवः ।
परमान्नं स मुनये प्रयतात्मा जगद्गुरुः ।। ४१ ।।
तल्लोककर्त्रा सत्कृत्य दत्तं मुनिरुदारधीः ।
बुभुजे वदतां श्रेष्ठः श्रद्धया परया युतः ।। ४२ ।।
उपस्पृश्य ततस्तृप्तः प्रददौ चाशिषः प्रभो ।
ताश्च प्रीतेन मनसा प्रतिजग्राह केशवः ।। ४३ ।।
ततः सात्राजितीं देवीं प्रणतां नारदोऽब्रवीत् ।
प्रसार्य दक्षिणं हस्तं सजलं जलजेक्षणाम्।। ४४ ।।
यथेदानीं तथैव त्वं भव देवि पतिव्रता ।
सविशेषं च सुभगा भव मत्तपसो बलात् ।। ४५ ।।
इत्युक्ता मुनिमुख्येन सत्यभामा हरिप्रिया ।
उत्तस्थौ महता युक्ता हर्षेण तु नराधिप ।। ४६ ।।
स कृष्णोऽप्यभ्यनुज्ञां तु लब्ध्वा मुनिवरात्तदा।
बुभुजे विघसं धीमानप्रमेयपराक्रमः ।। ४७ ।।
ततस्त्वावश्यकं कृत्वा सत्यभामापि भारत ।
अनुज्ञया तदा भर्तुर्विवेशान्तर्गृहं मुदा ।। ४८ ।।
ततो विनिर्गता देवी कृष्णस्यैवाभ्यनुज्ञया ।
स्थिता पार्श्वे च कृष्णस्य नमस्कृत्वा महात्मने ।। ४९।।
ततो मुहूर्तमासित्वा नारदः कृष्णमब्रवीत् ।
आपृच्छे त्वां गमिष्यामि शक्रलोकमधोक्षज ।। 2.67.५० ।।
तत्राद्यं देवमीशानं नमस्कृत्य महेश्वरम् ।
गास्यन्ति देवगन्धर्वास्तथैवाप्सरसां गणाः ।। ५१ ।।
मासि मास्युचितं ह्येतन्महेन्द्रसदने प्रभो ।
पूजार्थं देवदेवस्य गान्धर्वं नृत्यमेव च ।। ५२ ।।
अन्तर्हितो देवदेवः सोमः सप्रवरो विभुः ।
पश्यत्यमरमुख्येन कृतं भक्त्याद्रिघातिना ।। ५३ ।।
निमन्त्रितोऽहं पूर्वेद्युः पुष्पं दत्त्वा महाद्युते ।
पारिजातस्य भद्रं ते तरुराज्ञो महात्मनः ।। ५४ ।।
यदेतदाहृतं स्वर्गात् त्वदर्थं तु मया विभो ।
देवोपभोग्यमेतद्धि तरुराजसमुद्भवम् ।। ५५ ।।
इष्टः स वृक्षः सततं शच्याः पुष्करलोचन ।
सौभाग्यमावहत्येव पूज्यमानोऽपि नित्यशः ।। ५६ ।।
पुण्यं कर्तुं तदा सृष्टः पारिजातो महाद्रुमः ।
अदित्या धर्मनित्येन कश्यपेन महात्मना ।। ५७ ।।
पुरादित्या महातेजास्तोषितः किल कश्यपः ।
वरेण च्छन्दयामास मारीचस्तपसो निधिः ।। ५८ ।।
सोवाच सुभगा येन भवेयं मुनिसत्तम ।
स्वलंकृता कामतश्च सर्वैरेव विभूषणैः ।। ५९ ।।
ईप्सितं गीतनृत्यं च भवेन्मम तपोधन ।
कुमारी नित्यदा चैव भवेयं तपसो निधे ।। 2.67.६० ।।
विरजा शोकरहिता भवेयमिति नित्यदा ।
पतिभक्तिमती चैव धर्मशीला तथैव च ।। ६१ ।।
पारिजातं ततोऽस्राक्षीददित्याः प्रियकाम्यया ।
सर्वकामप्रदैः पुष्पैरावृतं नित्यगन्धदैः ।। ६२ ।।
त्रिशाखं सर्वदा दृश्यं सर्वभूतमनोहरम् ।
सर्वपुष्पाणि दृश्यन्ते तस्मिन्नेव महाद्रुमे ।। ६३ ।।
ईदृशान्यपि पुष्पाणि बिभर्त्येकापि रूपिणी ।
बहुरूपाणि चाप्यन्या पद्मानि च ततोऽपरा ।। ६४ ।।
मन्दारादपि वृक्षाच्च सारमुद्धत्य कश्यपः ।
तस्मादेष तरुश्रेष्ठः सर्वेषां श्रेष्ठतां गतः ।। ६५ ।।
ततस्तत्र निबध्याथ कश्यपं प्रददौ शुभा ।
अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च ।। ६६ ।।
अदित्या कश्यपो दत्तः पुण्यार्थं च तथा मम ।
पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थमात्मवान् ।। ६७ ।।
निष्क्रयेण मया मुक्तः कश्यपस्तु तपोधनः ।
इन्द्रो दत्तस्तथेन्द्राण्या सौभाग्यार्थं ततो मम ।। ६८ ।।
सोमश्चाप्यथ रोहिण्या ऋद्ध्या च धनदस्तथा ।
एवं सौभाग्यदो वृक्षः पारिजातो न संशयः ।। ६९ ।।
परि जातो विष्णुपद्याः पारिजातेतिशब्दितः ।
मन्दारपुष्पैर्यद्युक्तो मन्दारस्तेन कथ्यते ।। 2.67.७० ।।
कोऽप्ययं दारुरित्याहुरजानन्तो यतो जनाः ।
कोविदार इति ख्यातस्ततः स सुमहातरुः ।। ७१ ।।
मन्दारः कोविदारश्च पारिजातश्च नामभिः ।
स वृक्षो ज्ञायते दिव्यो यस्यैतत्कुसुमोत्तमम् ।। ७२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे सप्तषष्टितमोऽध्यायः ।। ६७ ।।